कीटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

प्राणिवंशे सन्धिपदीनाम् एव बृहत् वर्ग: । अस्मिन् वर्गे नवति: प्रतिशत कीटप्रभेदा: भवन्ति । ८ लक्षात् अधिका: कीटप्रभेदा: कीटविज्ञानिभि: संशोधिता: तथापि सहस्राधिका: प्रभेदा: अज्ञाता: इति विज्ञानिभि: मन्यते । अगणिता: वैविध्यपूर्णा: कीटा: भूमौ सर्वत्र वस्तुं समर्था: । भूमौ तेषां जन्म ४० कोटिवर्षेभ्य: पूर्वेभ्य: अभवत् इति विश्वास: । न केवलं संख्यादृष्ट्या अपि च वर्ण-शरीररचनायां वैविध्यपूर्णा: ईदृशा: जीवा: प्राणिप्रपञ्चे अनन्या: । अतिशीतेषु ध्रुवप्रदेशेषु गहनेषु विपिनेषु हिमाच्छादितेषु शैलेषु शुष्केषु भूभागेषु गुहासु आकाशे च सर्वत्रैव कीटा: दृश्यन्ते । कीटेषु विद्यमानं वर्णवैविध्यं विस्मयकारक: । इन्द्रधनुषे विद्यमाना: सर्वे वर्णा: कीटलोके वर्तन्ते । कीटानां शरीरवर्ण: तेषां परिसरसादृश: भूत्वा शत्रुभि: सुरक्षां दास्यति ।कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

देहरचना[सम्पादयतु]

कीटानां देहरचनायां दीर्घत्वं दृश्यते । शिर , वक्ष ,उदर इति भागत्रयं भवति । शिरसि स्पर्शाङ्गद्वयं संयुक्ताक्षिद्वयं तथा आहारार्जनाय केचन उपाङ्गा: भवन्ति । वक्षभागे त्रय: भागा: सन्ति । प्रत्येके भागे पादौ भवत: । अत: मिलित्वा षट्पादा: भवन्ति । उदरभागे दशवलयेषु चत्वार: संवेदनाङ्गा: दृश्यन्ते । कीटानाम् एका विशेषरचना पक्षा: । अधिकेषु कीटेषु चत्वार: पक्षा: भवन्ति । केचन कीटेषु पक्षद्वयमेव विद्यते [ उदा-मक्षिका]। वायुधारणसमर्था: पक्षा: उड्डयनार्थम् उपयुक्ता: । कीटानां सूक्ष्मशरीररचना एव तेषां यशस्वीजीवनस्य रहस्य: । अत: कीटा: पत्रेषु बीजेषु प्राणिशरीरेषु चापि जीवितुं समर्था: ।

सन्तनोत्पत्ति:[सम्पादयतु]

कीटानां सन्तानोत्पत्तिप्रक्रिया वैविध्यपूर्णा भवति । बहुश: कीटानाम् आयु: कानिचन दिनानि एव । तेषु दिनेषु कीटै: सन्तानोत्पत्ति: अपि क्रियते । सामान्यत: कीटा: अण्डजा: भवन्ति । अण्डात् बहिरागत्य कीटस्य डिम्भ: रूपपरिवर्तनप्रक्रियायां स्वरूपं आप्नोति । अस्यां प्रक्रियायां बहव: क्रमा: भवन्ति ।

अनुकूला:[सम्पादयतु]

पृथिव्या: प्राणिसमूहेन कीटा: प्रमुखा: आहारमूला: इति गण्यन्ते । मत्स्या: मण्डूका: पक्षिण: च तथा बहव: सस्तन्य: कीटान् भक्षयन्ति । विश्वस्य अनेकेषु देशेषु मानवा: अपि कीटभक्षणं कुर्वन्ति । न केवलं प्राणिन: कीटभक्षकसस्या: अपि वर्तन्ते । एतादृशेषु सस्येषु कीटभक्षणार्थं विशेषकायरचना विद्यते । अन्य: प्रमुख: लाभ: परागस्पर्शक्रियायां कीटानां पात्रम् । बहुश: सस्या: कीटान् अवलब्य एव फलिता: भवन्ति । अगणितेभ्य: वर्षेभ्य: ईदृशं सस्य-कीट सहजीवनं प्रचलन् अस्ति । कीटा: मृतानां प्राणि-सस्यानां शरीरभक्षणेन वातावरणस्य स्चच्छताकार्यं निर्वहन्ति । मृत्तिकावासिभि: कीट-त्ज्याज्यै: भूफलवत्तता अधिका भवति । न केवलं सुमधुरं मधु: , निर्यास: , दुकूलवस्त्राणि केचन कीटै: तैलमपि लभते ।

अननुकूला:[सम्पादयतु]

केचन कीटा: विनाशकरिण: भवन्ति । आहारसस्यानां प्रमुखा: शत्रव: कीटा: एव । विश्वस्य आहारित्पादने २० प्रतिशत आहार: कीटै: नश्यति । संग्रहितम् आहारमपि तै: खाद्यते । अपि च केचन कीटा: रोगवाहका: भवन्ति । ते रक्तपिपासव: भूत्वा अस्मान् दशन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=401772" इत्यस्माद् पुनः प्राप्तिः