तिलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sesame

Sesame plants
Sesame plants
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Pedaliaceae
वंशः Sesamum
जातिः S. indicum
द्विपदनाम
Sesamum indicum
L.
पर्यायपदानि
  • Dysosmon amoenum Raf.
  • Sesamum africanum Tod.
  • Sesamum occidentalis Heer & Regel
  • Sesamum oleiferum Sm.
  • Sesamum orientale L.
  • Volkameria orientalis (L.) Kuntze
तिलसस्यम्
श्वेतवर्णीयं तिलधान्यम्
कर्तितानि शुष्काणि तिलसस्यानि

अयं तिलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं तिलः सस्यजन्यः आहारपदार्थः । तिलः आङ्ग्लभाषायां Sesame इति उच्यते । अयं तिलः वर्णस्य अनुगुणं चतुर्विधः भवति । कृष्णवर्णीयः तिलः, श्वेतवर्णीयः तिलः, रक्तवर्णीयः तिलः, वनतिलः च इति । अस्य तिलस्य होमधान्यं, पवित्रं, पितृतर्पणं, पापघ्नि, पूतधान्यं, जटिलम् (वनोद्भवस्य तिलस्य केवलम्) इत्यादीनि अन्यानि नामानि अपि सन्ति । मकरसङ्क्रमणपर्वणि अस्य तिलस्य एव साम्राज्यम् । तदवसरे सर्वत्र जनाः प्रतिगृहं गत्वा तिलवितरणं कुर्वन्ति । मोदकं, पञ्चकज्जायं, ’कडुबु’ इत्यादीनां खाद्यानां निर्माणे अयं तिलः अपि मुख्यं द्रव्यम् । नवग्रहधान्येषु अन्यतमः अस्ति तिलः ।

आयुर्वेदस्य अनुसारम् अस्य तिलस्य स्वभावः[सम्पादयतु]

तिलतैलम्
तिलनिर्मितं लड्डुकम्

अयं तिलः पचनार्थं जडः । अस्य रुचिः कटु-तिक्त-मधुर-कषायमिश्रिता । अयं तिलः जीर्णानन्तरं कटुविपाकः भवति । अयं तिलः स्पर्शार्थं शीतलः परन्तु शरीरार्थम् उष्णः एव ।

“तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः ।
विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ॥
बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः ।
दन्त्योऽल्पमूत्रकृद्ग्राही वातघ्निग्निमतिप्रदः ॥“ (धन्वन्तरिकोषः)
१. अस्य तिलस्य तैलं सर्वाङ्ग-अभ्यङ्गार्थम् अत्यन्तं श्रेष्ठम् ।
२. तिलतैलं सर्वस्य अपि तैलस्य मूलद्रव्यम् ।
३. “तैलेऽनुक्ते तिलतैलं स्यात्” इति उक्तम् अस्ति आयुर्वेदशास्त्रस्य वैद्यकीयपरिभाषायाम् । तन्नाम केवलं तैलम् इति यत्र कुत्रापि उक्तम् अस्ति चेत् तेन तैलशब्देन तिलतैलम् एव ग्राह्यम् इति अर्थः ।
४. पञ्चकर्म, कर्णपूरणं, नस्यं, धारा, उष्णादिषु चिकित्सासु तिलतैलम् एव उपयुज्यते ।
५. पुनः पुनः जायमानस्य वेदनासहितस्य पक्वातिसारस्य उत्तमम् औषधं तिलतैलम् । भोजनात् पूर्वं चमसमितं तिलतैलं सेवनीयम् ।
६. अस्थिभङ्गे, क्षतव्रणे च तिलतैलं शीघ्ररोपकम् ।
७. कृष्णवर्णीयः तिलः पुण्यकरः, श्वेतवर्णीयः तिलः रुचिकरः ।
८. श्राद्धादिषु कर्मसु पितृतर्पणार्थं कृष्णवर्णीयः तिलः एव उपयुज्यते ।
९. गणहवने उपयुज्यमानेषु अष्टद्रव्येषु अपि कृष्णवर्णीयः तिलः अन्यतमः ।
१०. कृष्णवर्णीयः तिलः रक्षोघ्नः, पापघ्नः च इति प्रभावीद्रव्यम् अस्ति ।
११. सङ्क्रमणस्य मधुरः तिलः हासं द्योतयति चेत्, श्राद्धस्य तिलः वेदनां द्योतयति । एवम् उभयद्योतकः अयं तिलः ।
१२. चतुर्विधेषु तिलेषु कृष्णवर्णीयः तिलः अत्यन्तं श्रेष्ठः । श्वेतवर्णीयः तिलः अपि उत्तमः एव ।
१३. रक्तवर्णीयः तिलः, वनतिलः च हीनः, उपयोगार्थम् अनर्हः अपि ।
१४. शरीरे वातः वृद्धः चेत् तिलतैलम् उत्तमं शामकम् औषधम् ।
१५. अयं तिलः तैलांशयुक्तः त्रिदोषहरः च ।
१६. अयं तिलः बलवर्धकः, केशवर्धकः, कान्तिवर्धकः, स्तन्यवर्धकः, अग्निदीपकः च ।
१७. अयं तिलः दन्तदार्ढ्यकरः, व्रणरोपकः, मूत्रकरः , मेध्यः च ।
१८. तिलस्य पिण्याकः मधुरः रुचिकरः च । किन्तु सः नेत्रस्य विकारकः, कफस्य वातस्य च विकारकः, मलावष्टम्भकः च ।
१९. तिलस्य पिण्याकः धेनूनां पुष्टिकरः आहारः ।
२०. तिलात् निष्कासितं क्षारं मधु दधि च योजयित्वा सेवन्ते चेत् मूत्रावरोधः अपगच्छति ।
२१. तिलनालात् निर्मितः क्षारः मांसभक्षणजन्यः अजीर्णः आहारः ।
२२. रक्तजेषु अर्कस्रोगेषु, अस्थिरोगेषु च तिलः नवनीतेन सह उपयोक्तव्यः ।
२३. शनिग्रहस्य उपशान्त्यर्थं तिलः उत्तमः परिहारकः । अष्टमशनिना, पञ्चमशनिना, सार्धसप्तशनिना च पीड्यमानाः तिलतैलेन स्नात्वा देवालयेषु तिलतैन दीपान् ज्वालयन्ति ।
२४. हेमन्ते (जनवरि फेब्रवरि मासयोः) तैलांशयुक्तस्य आहारस्य सेवनम् आयुर्वेदोक्तम् । तदवसरे अग्निशान्त्यर्थं, बलवर्धनार्थं तिलः अत्यन्तं हितकरः ।

चित्रशाला[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिलः&oldid=482800" इत्यस्माद् प्रतिप्राप्तम्