योगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)

परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –

कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥

वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –

यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)

अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन । श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं भागत्रते

योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)

योगस्याङ्गानि[सम्पादयतु]

योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

योगस्याधिकारी[सम्पादयतु]

कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥ (गीता – ६/१७)

योगफलम्[सम्पादयतु]

योगात् परं वलं नास्ति । योगात् परो वन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिध्दसिध्दान्तपध्दतौ –

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।
शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥ (५/२१)

श्रीमद्भगवद्गीतायामपि शीकृष्णेन उक्तं यत् –

तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ (६/४६)

तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्

मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥(२/१०)

योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुध्द निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिध्दीनां प्राप्तिर्भवति ।

योगभेदाः[सम्पादयतु]

योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –

मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।
एक एव चतुर्धायं महायोगोऽभिधीयते ॥
  1. मन्त्रयोगः
  2. हठयोगः
  3. लययोगः
  4. राजयोगः

उपसंहारः – समीक्षा[सम्पादयतु]

इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।

इतरसम्प्रदायेषु योगाचरणम्[सम्पादयतु]

बौद्धमतम् – प्राचीनेन बौद्धदर्शनेन ध्यानस्थितयः मूर्तिरूपेण शिल्पिताः । योगस्य प्राचीनतमं चिन्तनं बुद्धस्य धर्मप्रवचनेषु सन्दृश्यते । बुद्धेन कृतः नवीनं बोधः ध्यानस्य तादात्म्यताम् अवधानपूर्वकम् आचरणेन सह संयुक्तिः । बुद्धस्य बोधनासु प्राचीनब्राह्मणग्रन्थेषु च दृष्टे योगे तत्सम्बन्धि चिन्तने महान् भेदः लक्षितः । ध्यानस्थितिर्नान्तिमा, बुद्धस्तु ध्यानस्य अन्तिमावस्थापि न् मुञ्चति । सम्पूर्णप्रमाणेन संवेदनाराहित्यस्य स्थाने न्यूनस्तरस्य मनसः क्रियाशीलता अपेक्षते । मुक्तेः संवेदनया सह अवधानपूर्विका जागृतिः भवेत् । बुद्धः प्राचीनयोगाङ्गीकृतमृत्योरानन्तरीं मुक्तिं नाङ्गीकरोति । ब्राह्मणयोगिनः मते मोक्षस्तु जीवने अद्वैतध्यानावस्थितौ प्राप्ते मृत्युनि जायमानः साक्षात्कार एव । वस्तुतः प्राचीनब्राह्मणरूपकेषु योगमभिलक्ष्य मृत्यौ लभ्यमाना मुक्तिः बुद्धेन नवीकृता अन्यव्याख्याद्वारा । तेनोल्लिखिता आकरा जीवन्मुक्तसाधूद्दिष्टाः ।

योगाचारो बौद्धधर्मः[सम्पादयतु]

योगाचाराभिधा सृतिः चतुर्थशतकात् पञ्चमशतकावधौ भारते विकसितयोः तत्त्वज्ञानमनश्शास्त्रयोः अङ्गभूता शाखा । बोधिसत्त्वेन क्रान्तमार्गप्राप्युन्मुखाचरणरूपयोगेन युतः इत्यतः योगाचार इत्याख्यां प्रापत् । योगाचारपन्थाः ज्ञानोदयप्राप्तिवर्त्मा भूत्वा योगं बोधयति ।

छान् (सियोन्\झेन्) बौद्धपन्थाः[सम्पादयतु]

झेन् (इयमाख्या चीनीभाषास्थितछान् शब्दमूला, संस्कृतभाषायाः ध्यान इति शब्दस्यापभ्रंशः) इत्ययं महायानबौद्धपथः अङ्गः । महायानशाखा च योगसामीप्येन प्रसिद्धा । पश्चिमे, झेन् इत्यस्याः परिकल्पनायाः बहुधा योगेन सह समन्वयः कृतः । ध्यानस्य इमे द्वे अपि शाखे सहजतया साम्यं भजतः । इयं सङ्गतिः, ध्यानसम्बद्धा झेन् इति बौद्धशाखायाः मूलं योगस्याचरणेषु वर्तत इत्यतः अवधानहारी । योगस्य केचन परिगणिता अंशाः बौद्धपथे तत्रापि झेन् शाखायै महत्त्वभूता भवन्ति ।

भारतीय-टिबेट्देशीयश्च बौद्धपन्थाः[सम्पादयतु]

टैबेटिकबौद्धमताय योगः प्रधानोंऽशः । निङ्ग्मा इत्याख्यसम्प्रदाये ध्यानस्य आचरणं वर्धमानगहनतया युत-नवयानैः अथवा वाहनैः विभज्यते । चरमषट्कं योगयानाभिधया प्रथितम् । यथा- क्रियायोगः, उपयोगः, योगयानं, महायोगः, अनुयोगः, अत्त्युच्चस्तरस्याचरणम् अतियोगश्च । सर्मा इत्याख्यसम्प्रदाये महायोगातियोगयोः विकल्पेन अनुत्तरयोगवर्गेण सह क्रियायोग-उपयोगाख्ययोगाश्च विद्यन्ते । अन्येषु तन्त्रयोगस्य आचरणेषु श्वासहृदययोः लयेन सह क्रियमाणा १०८ शारीरिकभङ्गयोऽपि अन्तर्गताः । निङ्ग्मा इत्याख्यसम्प्रदायेन आचर्यमाणा यन्त्रयोगाख्या पद्धतिः श्वासस्य प्रक्रियया ध्यानगततादात्म्यतया, पालके केन्द्रीक्रियमाणनिर्दिष्टक्रियासहितकलापैश्च संयुता वर्तते । टैबेटिकार्वाचीनयोगिनां शारीरिकभङ्गयः लुखाङ्गनगरस्थ दलायिलामाख्यजनस्य निदाघसमयदेवालयस्य भित्तिषु चित्रिताः । चाङ्ग् महोदयेन रचितः टिबेटियन् योगसम्बन्धी ग्रन्थः व्यक्तेः शरीरे उत्पद्यमाना उष्णता चान्दलिः “साकल्येन टिबेट्देशीययोगस्य मूलाधार” इति प्रमाणीकरोति । तन्त्रशास्त्रस्य सैद्धान्तिकपरिणामान् सम्बद्ध्य प्राणमनोरूपसुव्यक्तध्रुवयोः समन्वयेन टिबेट्योगः संयुत इति चाङ्ग् ब्रवीति ।

जैनदर्शनम्[सम्पादयतु]

द्वितीयशतकस्य सम्बद्धजैनग्रन्थस्य तत्त्वार्थसूत्रस्यानुसारं योगः मनसः श्वासस्य दैहिकानां सर्वासां क्रियाणां सङ्ग्रहः । उमास्वतीत्याख्या योगम् अस्रव अथवा कर्मफलेन सह मुक्तिप्राप्तिमार्गसहकारिषु अन्यतमसम्यक्चरित्रस्यापि निमित्तमिति मनुते । स्वनियमसारग्रन्थे आचार्यकुन्द्कुन्दः योगभक्तिं मुक्तिपथि विद्यमाना श्रद्धा इति, सैव भक्तेः उन्नतावस्था इति प्रतिजानीते । आचार्यहरिभद्रहेमचन्द्रौ तपश्चर्यायाः पञ्चप्रमुखसङ्कल्पान् गृहस्थाश्रमस्य् द्वादशलघुसङ्कल्पान् च योगाङ्ग इत्यामनन्ति । एतस्मात् प्रो. राबर्ट् जे झैडेन्बास् सदृशाः भारतमधिजिगीषवः जैनमतं पूर्णरूपेण धर्मवत् वर्धितं योगस्य चिन्तनायाः व्यवस्थेति परिकल्पनापत्तिरस्ति । डा. हेन्रिच् झिम्मर् नाम्नस्तु योगव्यवस्थायाः मूलम् आर्याणामपेक्षया प्राचीनं सत् तया वेदां प्रमाणरूपेण नाङ्गीकृता इत्यतः तस्याः जैनमतवत् असाम्प्रदायिकसिद्धान्तेषु परिगणना दृश्यत इति विवदिषति । जैनशिल्पशास्त्रं जैनतीर्थङ्करान् पद्मासने कार्योत्सर्गयोगभङ्गिषु ध्यायतः चित्रयति । महावीरश्च मूलबन्धासनावस्थितौ आसन्न एव कैवल्यज्ञानं ज्ञानोदयञ्चालभत इति श्रूयते । इदञ्च आदौ आचाराङ्गसूत्रे तदुत्तरं कल्पसूत्रे च लिखितं दृश्यते ।

पतञ्जलेः योगसूत्रस्थपञ्चयमाः अथवा निर्बन्धा जैनमतस्थपञ्चप्रधानसङ्कल्पैस्सह गूढसम्बन्धयुताः सन्तः जैनमतेन प्रभाविता इव लक्ष्यन्ते । योगसिद्धान्तजैनमतयोः मिथः प्रभावानुमोदकः लेखकः विवियन् वर्तिङ्ग्टन् “योगः जैनमताय स्वार्ण्यमङ्गीकरोति, जैनमतोऽपि योगस्याचरणं जीवनस्याङ्गं कृत्वा तं प्रत्यर्पयतीति उल्लिखति । सिन्धूपत्यकायाः चिह्नानि शिल्पशास्त्राणि च जैनमतसम्बद्धयोगसम्प्रदायादपि पूर्वसम्प्रदायस्य स्थितौ अङ्गीकार्यसाक्षीः प्रयच्छन्ति । इतोऽपि निर्दिष्टतया, तत्त्वज्ञाः पुरातत्त्वशास्त्रज्ञाश्च मुद्रिकायां चित्रितानां ध्यानस्थितीनाम् अनेकतीर्थङ्कराणाञ्च अर्थात् वृषभनाथस्य ‘कार्योत्सर्ग’स्थितिः महावीरस्य ‘मूलबन्धासन’स्थितिः, तैः सह पार्श्वनाथप्रतिमासदृशं, स्थितैः सर्पैः आवृतं ध्यानावस्थितविग्रहं चित्रयन्ति याः मुद्रिकाः, तासां मध्ये विद्यमानविपरीतसमानतां दृष्टवन्तः । एते न केवलं सिन्धूनागरिकताजैनमतयोः आन्तरीं सम्पर्कमुपवर्णयन्ति, तेन सह योगस्यानेकाचरणेभ्यः जैनमतस्य उपायनमपि संसूचयन्ति ।

जैननियमाः ग्रन्थस्थानाम् आकराश्च[सम्पादयतु]

जैनानां प्राचीनशास्त्रीयग्रन्थे आचाराङ्गसूत्रे, नियमसारतत्त्वार्थसूत्रसदृशेषु ग्रन्थेषु योगः अनभिज्ञानां तपस्विनाञ्च अन्वययोग्या जीवनशैलिरिति सूचना अभिलक्ष्यते । योगविषये जैनानां परिकल्पनम् इतोऽपि विस्तरेण कैश्चित् ग्रन्थैर्विवृतः । ते च –

  • पूज्यपादः(५ शतकं CE)
  • इष्टोपदेशः
  • आचार्यहरिभद्रसूरिः (८ शतकं CE)
  • योगबिन्दुः
  • योगदृष्टिसमुच्चयः
  • योगसाधकः
  • योगविमिशिका
  • आचार्यजोयिन्दुः (८ शतकं CE)
  • योगसारः
  • आचार्यहेमचन्द्रः (११ शतकं CE)
  • योगशास्त्रम्
  • आचार्यः अमितागतिः (११ शतकं CE)
  • योगसारप्रभृत

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योगः&oldid=299567" इत्यस्माद् पुनः प्राप्तिः