नियमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योगशास्त्रस्य प्रणयिता पतञ्जलिः
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः (यो.द. २/३२)।

पवित्रता –सन्तोष- तपः – स्वाध्याय ईश्चरप्रणिधानादयः पञ्चनियमाः भवन्ति । शौचं द्विविधम्-वाह्यशौचम् । गोमूत्र –गोमयादिप्राशने मैत्र्यादिभावनया अतः करणस्य रागद्वेषादीनां निवृत्तिर्भवति । तदेव आभ्यन्तरशौचम् । प्राप्तवस्तुनः अधिकाभिलाषाभावः सन्तोषः । दुः खेषु सुखेषु च सर्वदा प्रसन्नचित्तं सन्तोषः । सन्तोषद्वारा लोकोत्तरसुखस्य प्राप्तिर्भवति । धर्मरक्षार्थं कृच्छ्रचान्द्रायणादिव्रतपालनं स्वाध्यायः । भगवन्नामस्मरणजपादिरपि स्वाध्यायः । इष्टदेवस्य साक्षाद् दर्शनं स्वाध्यायस्य फलम् । कायेन वाचा मनसा इन्द्रियैर्वा फलाभिसन्धिवर्जितमीश्वरस्मरणम् ईश्वरसमर्पणं वा ईश्वरप्रणिधानम् । ईश्वरप्रणिधानस्य फलं भवति समाधिसिध्दिः । परतत्त्वे ब्रह्मणि सततमनुरक्तिः नियम इति त्रिशिखाब्राह्मणोपनिषदि उक्तम् । तद्यथा – अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः । (२९)

नियमा अपि पञ्च वर्तन्ते-

एषां पालनेन आन्तरशुद्धिर्भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

फलकम्:Yoga फलकम्:Indian Philosophy

"https://sa.wikipedia.org/w/index.php?title=नियमः&oldid=480516" इत्यस्माद् प्रतिप्राप्तम्