हठयोगः
हठयोगः शरीरशुध्देः उपरि गुरुत्वं प्रददाति । अतएव उक्तम् –शरीरमाद्यं खलुधर्मसाधनम् । अस्मिन् योगे शरीरशुध्देरुपायो वर्णितः । शरीरं यन्त्रम्, शरीरं धारयति आत्मरुपी यन्त्री । शरीरस्य मनो –बुध्दि –अहंकारादयः आत्मनः विभूतयः शक्तयो वा । शरीरशुध्दौ मनः शुध्दिर्भवति । शुध्दं मनः आत्मस्वरुपोपलब्धौ सहायकं भवति । हठयोगस्य सप्ताङ्गानि सन्ति । तदुक्तम् यथा-
- षट्कर्मासनमुद्राः प्रत्याहारश्च प्राणसंयामः ।
- ध्यानसमाधी सप्तैवाङ्गानि स्युर्हठस्य योगस्य ॥
षट्कर्म- आसन्-मुद्रा प्रत्याहार –प्राणायाम –ध्यान –समाधि-प्रभृतीनि हठयोगस्य सप्ताङ्गानि । षटकर्मद्वारा शरीरशोधनं भवति । आसनद्वारा दृढता प्राप्यते । मुद्राद्वारा स्थिरता अनुभूयते । प्रत्याहारद्वारा धीरता उत्पद्यते । प्राणायामेन लाघवं भवति । ध्यानेन आत्मनः प्रत्यक्षं भवति । समाधिद्वारा निर्लिप्तता मोक्षप्राप्तिश्च भवति । हठयोगेन शरीरस्य स्वास्थ्यविषयको विशेषो लाभो भवति ।
शब्दार्थः
[सम्पादयतु]ह नाम रविः । तन्नाम अस्माकं दक्षिणनासपुटे सञ्चार्यमाणः वायुः । पिङ्गला इति नाम - यमुनानदी अस्य सङ्केतः । ठ नाम चन्द्रः । तन्नाम वामनासिकापुटे सञ्चार्यमाणः वायुः । इडा इति नाम - गङ्गानदी अस्य सङ्केतः । एतौ सहजश्वासोच्छ्वासक्रियां स्थगयित्वा सुषुम्नानाडौ (सरस्वतीनदी अस्य सङ्केतः) संयोगं प्राप्य उपरि सञ्चरणमेव 'ह' 'ठ'योः योगः । अस्याः क्रियायाः पूर्वभाविरूपेण आसनानि तदनन्तरं नादानुसन्धानम् समाधिः इत्यादयः सर्वाः क्रियाः संयोज्य हठयोगः इति निर्दिश्यते ।
मूलम्
[सम्पादयतु]श्री आदिनाथः इति ख्यातः शिवः एव अस्य मूलगुरुः देवता च । सः कदाचित् एतां विद्यां पार्वत्यै रहस्येन बोधयन् आसीत् । समीपे जलाशये स्थितः कश्चन मीनः स्वस्य स्वाभाविकं चाञ्चल्यस्वभावं परित्यज्य एकाग्रचित्तः सन् इमम् उपदेशं शृण्वन् आसीत् । लोकमाता पार्वती मीनं परमकरुणया पुत्रवत् पश्यन्ती शिवम् प्रार्थयत् - 'अनया विद्यया मीनम् अनुगृह्णातु' इति । अयं मीनः एव अग्रे मत्स्येन्द्रनाथरूपेण लोके अस्याः विद्यायाः प्रचारम् अकरोत् । अस्य शिष्यः एव गोरक्षनाथः / गोरकनाथः । अस्यां परम्परायां प्राप्तजन्मः स्वात्मारामः नाम योगी हठदीपिकाग्रन्थं संस्कृतेन अरचयत् । अयमेव अस्य शास्त्रस्य मूलप्रमाणग्रन्थः । गोरक्षपद्धतिः, शिवसंहिता, घेरण्डसंहिता इत्यादयः उपलभ्यमानाः अन्ये ग्रन्थाः । हठदीपिकाग्रन्थस्य ज्योत्स्नानामकं व्याख्यानम् उपलभ्यते । इदं ब्रह्मानन्दनामकः योगी अलिखत् ।
हठयोगस्य अङ्गानि
[सम्पादयतु]हठयोगस्य प्रथमम् अङ्गं वर्तते आसनम् । अस्य अभ्यासतः पूर्वम् अहिंसादयः दश नियमाः यमः इति, तपादयः दश नियमाः च उक्ताः सन्ति । तेषां मूलाधारेण एव अग्रे गमनं शक्यम् ।
आसनम्
[सम्पादयतु]देहस्य अङ्गोपाङ्गानि क्रमबद्धरीतौ विशिष्टभङ्गौ संस्थापनमेव आसनम् । एतस्य अभ्यासेन रोगमुक्तिः प्राप्यते । शरीरं मनः च एकस्यां स्थितौ स्थिरतया स्थातुम् अवरोधकः भवति रजोगुणः । आसनाभ्यासः एनं रजोगुणं नाशयति । शरीरं मनः च जडतां यां प्राप्नोति तस्य कारणं भवति तमोगुणः । आसनाभ्यासेन तमोगुणः अपि नष्टः भवति ।
आसनानां सङ्ख्या भवति अनन्ता । एतेषु ८४ असनानि आदिनाथेन निर्दिष्टानि सन्ति । आसनेषु द्विविधम् । उपरि उक्तप्रयोजनानां प्राप्त्यर्थं करणीयानि आसनानि - मयूरासनम्, पश्चिमोत्तानासनम्, सर्वाङ्गासनम् .... ।
प्राणायामादीनाम् अभ्यासाय स्थिरतया सुखेन अधिककालम् उपवेष्टुम् आसनानि - सिद्धासनम्, पद्मासनम्, स्वस्तिकासनम्, भद्रासनम् .... ।
आसनानाम् अभ्यासस्य अनन्तरं शवासनम् करणीयम् । एतस्य अभ्यासेन शरीरं मनः च विश्रान्तिं प्राप्नुवन्ति ।
प्राणायामः
[सम्पादयतु]प्राणायामस्य आरम्भात् पूर्वं शरीरे विद्यमानानां कफमेधादिदोषाणां निवारणं कर्तव्यम् । तन्निमित्तं षट्कर्माणि उक्तानि सन्ति - धौति-नेति-बस्ति-त्राटक-नौलि-कपालभाति च ।
प्राणाः नाम श्वासः । श्वासः बहिः यदि स्यात् वायुः इति उच्यते । अन्तः विद्यते चेत् प्राणाः इति कथ्यते । शरीरमानसिकक्रियाणां मूलजीवशक्तिः । श्वासोच्छ्वासानां नियन्त्रणेन सद्विनियोगेन च शरीरचित्तयोः सर्वेषां क्रियाणां नियन्त्रणमेव प्राणायामः । प्राणशक्तेः नियन्त्रणम् । अस्मिन् रेचक-पूरक-कुम्भकनामकाः तिस्रः क्रियाः विद्यन्ते । मन्दं समगतौ च निःश्वासः यत् क्रियते सः रेचकः । मन्दं समगतौ च उच्छ्वासः यत् क्रियते सः पूरकः । एतत् क्रियाद्वयमपि निरन्तरं प्रचलति एव । किन्तु अवधानपूर्वकं नियन्त्रणम् अत्र लक्ष्यम् । अस्य क्रमबद्धाभ्यासस्य अनन्तरं कुम्भकः अभ्यसितव्यः । पूरकस्य अनन्तरं अन्तः वायोः रक्षणम् अन्तर्कुम्भकः, रेचकस्य अनन्तरं वायोः अस्वीकरणं बाह्यकुम्भकः इति उच्यते । प्राणनिरोधद्वारा चित्तनिरोधप्राप्तिः एव हठयोगस्य मार्गः ।
अस्माकं चित्तवृत्तीनां कारणद्वयं भवति । बीजरूपेण विद्यमानाः सुप्तसंस्काराः, प्राणस्य प्रेरणा च । एतयोः अन्यतरस्य निग्रहेण अपि उभौ निगृहीतौ भवतः । प्राणनिरोधद्वारा चित्तनिरोधः एव हठयोगस्य मार्गः । ज्ञानेन्द्रिय-कर्मेन्द्रियाणां यजमानः अस्ति मनः । तस्य प्रभुः अस्ति मरुत् (प्राणाः) । एतेन प्राणायामस्य महत्त्वं ज्ञायते ।
मुद्रा
[सम्पादयतु]देहे स्थिरीकृतां प्राणशक्तिं निर्दिष्टस्थलेषु विनिवेश्य ततः च्युतः यथा न स्यात् तथा कीलनम् उद्दिष्टानाम् अग्रिमक्रियाणां निमित्तं तस्य उपयोगश्च मुद्रा इति निर्दिश्यते । शाम्भवी मुद्रा, खेचरी मुद्रा , वज्रोळी, अमरोळी इत्यादीः मुद्राः विव्रीतवान् अस्ति आदिनाथः । पुण्यशाली, आत्मसंयमी शिष्यः योग्यगुरोः मार्गदर्शनेन एतासां सदुपयोगं कृत्वा धन्यतां प्राप्तुम् अर्हेत् । एतासु महत्त्वपूर्णा अस्ति शक्तिचालिनी मुद्रा । अस्माकं शरीरस्य मेरुदण्डे नाडीजालानां मध्ये अतिसूक्ष्माणि षट् चक्राणि सन्ति । अधः विद्यमाने मूलाधारचक्रे कुण्डलिनीनामिका काचित् सुप्ता शक्तिः निगूहिता अस्ति । हठयोगी शक्तिचालिनीनामकेन विशेषाभ्यासेन सुप्तशक्तिं जागरयति । सुषुम्नाद्वारा शक्तिम् उत्सञ्चारयति । तस्मात् देहस्य अन्तः अद्भुताः सूक्ष्माः क्रियाः प्रचलन्ति । ततः अलौकिकाः दिव्यानुभवाः शक्तयश्च तेन प्राप्यन्ते ।
नादानुसन्धानम्
[सम्पादयतु]समाधेः सिद्ध्यर्थम् आदिनाथः बहु विधान् उपायान् सूचितवान् अस्ति । तेषु प्रमुखतमः अस्ति नादानुसन्धानम् । भ्रमरः मकरन्दम् अन्विष्यन् पुष्पात् पुष्पं प्रति अटन् भवति । यदा अभीप्सितं मकरन्दं प्राप्येत तदा निश्चलः सन् सर्वं विस्मृत्य रसपाने तल्लीनः भवति । एवं तन्मयावस्था एव समाधिः इति स्थूलतया वक्तुं शक्यते । अस्यां स्थितौ चित्तं चाञ्चल्यं परित्यज्य अन्तः श्रूयमाणं दिव्ये नादे एव तल्लीनं भवति ।
नादः द्विधा - आहतनादः - मुखेन उच्यमानाः शब्दाः, गानम्, वाद्यैः उत्पद्यमानः नादः च आहतनादः एव । बाह्यवस्तुसम्पर्कं विना स्वयं शरीरस्य अन्तः ध्यानावस्थायां श्रूयमाणः नादः अनाहतनादः । सुषुम्नानाडौ प्राणाः प्रविश्य सञ्चरणावसरे अनाहतनादाः श्रूयन्ते । आदौ स्थूलनादाः श्रूयन्ते । तस्मिन्नेव तल्लीनतां प्राप्तवता अग्रे सूक्ष्मनादाः श्रूयन्ते । अन्ते सः महासमाधिम् आप्नोति । तदा तस्य अज्ञानं दुःखं कर्मबन्धनञ्च विनश्यन्ति । निश्चिन्ता-निरातङ्का-निराधारा-निश्चला स्थितिः प्राप्यते । सः स्वस्य सहजस्वरूपे जीवन्मुक्तस्थितौ तिष्ठति । अयमेव शिव-शक्तियोगः । इयमेव हठयोगस्य अन्तिमा सिद्धिः ।
सिद्धयः
[सम्पादयतु]सुदीर्घे, कठिने अस्मिन् साधनामार्गे एकैकस्मिन् अपि स्तरे (आसन-प्राणायाम-मुद्रा-नादानुसन्धान) विविधाः सिद्धयः योगिना प्राप्यन्ते । शरीरं वज्रमिव दृढतां प्राप्नोति, इन्द्रियाणि शतगुणितम् अधिकां शक्तिं प्राप्नुवन्ति, दूरगमनम्, दूरदर्शनम्, दूरश्रवणम्, परकायप्रवेशः इत्यादयः सिद्धयः प्राप्यन्ते । सिद्धयः समीचीने मार्गे प्रगतिः आसाद्यमाना अस्ति इति दर्शनाय सूचिताः । किन्तु ततः आकृष्टाः सन्तः लक्ष्यच्युताः ये भवेयुः ते योगभ्रष्टाः इति कथ्यन्ते । तथा न भवेत् । महासमाधिप्राप्तिः एव लक्ष्यं भवेत् ।