राजयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


याज्ञवल्क्यस्मृतौ एवम् उल्लिखितमस्ति -

राजत्वान् सर्वयोगानां राजयोगः प्रकीर्तितः - इति ।

अरण्ये विद्यमानानां सर्वेषामपि प्राणिनां ज्येष्ठः अस्ति सिंहः । अतः एव सः मृगराजः इति निर्दिश्यते । एवं मन्त्रयोग-हठयोग-लययोग इत्यादिनां योगानाम् अपेक्षया प्रमुखतमः अस्ति अष्टाङ्गयोगः । अतः एव अयं योगराजः, राजयोगः

राजन्तं दीप्यमानं तं परमात्मानमव्ययं प्रापयेद्देहिनां यस्तु राजयोगस्सकीर्तितः ।

स्वयंप्रकाशः सन् सूर्यः इव राराजमानं परमात्मानं प्रापयति अयं योगः इत्यतः राजयोगः इति उक्तम् ।

चित्तम्[सम्पादयतु]

योगः चित्तवृत्तिनिरोधः - पातञ्जलयोगसूत्राणि अ १ श्लो २

चित्तवृत्तेः निरोधः एव योगः । चित्तं नाम किम् ? अस्मिन् पञ्च अंशाः विद्यन्ते -
१ विविधानाम् आलोचनानाम् आश्रयरूपं 'मनः' (Mind)
२ निश्चयात्मिका बुद्धिः (Intellect)
३ पूर्वतनान् अनुभवान् आवश्यकतायां सत्यां बहिरानयति स्मृतिः (Memory)
४ सर्वम् अवगच्छन् शरीरे स्थितः पुरुषः
५ इदं मम इति सम्बन्धं कल्पयन् अहङ्कारः (Ego-sense)
एतैः सर्वैः युक्तः अन्तःकरणः एव चित्तम् ।

चित्तस्य विधाः[सम्पादयतु]

चित्तं जलपूर्णं सरः इव । वातस्य कारणतः, वस्तुनः पतनस्य कारणतः, अधस्तात् बुद्बुदोद्गमनेन च तरङ्गाः उत्पद्यन्ते । एवमेव चित्ते विविधैः कारणैः उत्पद्यमानानि विभिन्नानि रूपाणि एव वृत्तिः इति निर्दिश्यन्ते । १ क्षिप्तम् - रजोगुणेन आवृत्तं चित्तं सर्वदा विविधैः विषयैः आकृष्टं भूत्वा सदा चाञ्चल्यं प्रदर्शयति ।
मूढम् - तमोगुणेन युक्तं चित्तम् आलस्ययुक्तं सत् म्लानं तिष्ठति ।
विक्षिप्तचित्तम् - सत्त्वगुणेन आवृतं चित्तं किञ्चित्कालं यावत् शान्तं प्रसन्नञ्च तिष्ठति । ततः पुनः अन्यगुणानां प्रभावेण चाञ्चल्यं प्राप्नोति ।
एकाग्रस्थितिः - एकस्मिन्नेव विषये स्थिरा स्थितिः एव 'एकाग्रता' ।
निरुद्धस्थितिः - सर्वाः वृत्तयः यत्र निरुद्धाः सा स्थितिः ।

विविधाः चित्तवृत्तयः[सम्पादयतु]

विपर्ययवृत्तिः[सम्पादयतु]

प्रत्यक्ष-अनुमान-शब्द-प्रमाणैः प्राप्यमानं यथार्थज्ञानम् । वस्तु यथा अस्ति तत् तथा अजानन् अन्यथा अवगमनमेव विपर्ययवृत्तिः

प्रमाणवृत्तिः[सम्पादयतु]

दूरतः रज्जुं दृष्ट्वा सर्पः इति यत् चिन्त्यते सः विपर्ययः । समीपतः परीक्षणानन्तरं इयं रज्जुः इति अवगमनमेव प्रमाणवृत्तिः

विकल्पवृत्तिः[सम्पादयतु]

'रामस्य धेनुः' इति यदा श्रूयते तदा रामस्य वशे विद्यमानं वस्तु इति भावः उदेति । 'रामस्य चैतन्यम्' इति यदा श्रुण्मः तदा रामात् पृथग्भूतं किञ्चन वस्तु न । चैतन्यं रामस्य स्वरूपमेव विद्यते । एवं पत्येकं वस्तु न चेदपि शब्दैः तथा भावः यथा अवगम्यते सा विकल्पवृत्तिः

निद्रा[सम्पादयतु]

कस्यापि अनवगमने 'अभाव'स्य अवगमनहेतुः एव निद्रावृत्तिः

स्मृतिः[सम्पादयतु]

पुरा प्राप्तान् अनुभवान् अभेदेन यत् स्मारयति सा स्मृतिवृत्तिः
एवं सर्वदा चित्ते काचित् वृत्तिः भवति एव । तस्याः वृत्तेः सारूप्यः भवति पुरुषः । (वृत्तिसारूप्यमितरत्र १-४)
सर्वासां वृत्तीनां निरोधः यदा क्रियते तदा पुरुषः स्वस्वरूपे प्रतिष्ठितः भवति । (तदाद्रष्टुः स्वरूपेऽवस्थानम् १-३)
चित्तवृत्तयः द्विधा - क्लिष्टा अक्लिष्टा च । क्लिष्टा नाम क्लेशयुक्ता इति । क्लेशाः पञ्चधा -
अविद्या - यत् अनित्यं तत् नित्यमिति, या अशुचिः सा शुचिः इति, यत् वस्तुतः दुःखं तत् सुखमिति भ्रान्तिः, यः न आत्मा सः एव आत्मा इति अवगमनम् अविद्या ।
अस्मिता - पुरुषः द्रष्टा, दर्शनमेव अस्य शक्तिः । बुद्धिः (अन्तःकरणम्) तु दर्शनस्य साधनमात्रम् । साधनस्वरूपमेव तदीया शक्तिः । एतत् द्वयम् एकमिति अवगमनमेव अस्मिता ।
रागः - सुख-सुखसाधनयोः विषये इदम् अपेक्षितम् इति इच्छा एव रागः ।
द्वेषः - दुःख-दुःखसाधनयोः विषये इदम् मास्तु इति यः विरोधभावः अस्ति सः एव द्वेषः ।
अभिनिवेशः - कदापि मृतः न भवेयं सर्वदा एवमेव तिष्ठेयम् इति प्रबलः अभिलाषः एव अभिनिवेशः ।
अस्माभिः अनुभूयमानः सर्वे अपि क्लेशाः एताभिः वृत्तिभिः युक्ताः एव भवन्ति ।
एतान् क्लेशान् याः वृत्तयः निवारयेयुः ताः एव अक्लिष्टवृत्तयः । इयं प्रक्रिया चित्तशोधनम् इति उच्यते ।

निरोधोपायौ[सम्पादयतु]

चित्तवृत्तिनिरोधाय उपायद्वयं सूच्यते ।

अभ्यासः[सम्पादयतु]

चित्तस्य गतेः निरोधाय स्थितेः प्राप्त्यै च क्रियमाणाः प्रयत्नाः तस्य पोषकरूपेण क्रियमाणानि योगाङ्गाचरणानि अभ्यासः इति निर्दिश्यन्ते ।

वैराग्यम्[सम्पादयतु]

रागस्य अभावः एव वैराग्यम् । रागस्य स्थाने द्वेषः न उचितः । रागद्वेषरहिता तटस्था स्थितिः एव वैराग्यम् । इहलोके परलोके वा प्राप्यमाणानां विषयभोगविषये अनास्था एव वैराग्यम् ।
वैराग्येन सह अभ्यासः, अभ्यासेन च सह वैराग्यम् एव चित्तवृत्तिनिरोधस्य उपायः । ‎

"https://sa.wikipedia.org/w/index.php?title=राजयोगः&oldid=372318" इत्यस्माद् पुनः प्राप्तिः