लययोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


प्रकृतिपुरुषयोः शृङ्गाराद् ब्रह्माण्डस्य पिण्डस्य चोत्पत्तिः जाता । श्रीगुरुपदेशेन शाक्तिसहितपिण्डस्य ज्ञानलाभो भवति । ततः कौशलपूर्णक्रियया पुरुषे प्रकृतेः लयो भवति लययोगः । सहस्रारे पुरुषः तिष्ठति । कुण्डलिनी नाम्नी महाशक्तिः आधारपद्मे प्रसुप्तावस्थायां तिष्ठति । योगः तां जागृत्य पुरुषस्य सविधं नीत्वा तत्र संयोजयति । लययोगो मनसः एकाग्रतानिमित्तं वहवो आनन्ददायकः पन्थानः वर्णिताः सन्ति । यथा- मन्त्रयोगे रुपकल्पनद्वारा ध्यानं क्रियते, हठयोगे भगवतः ज्योतिः कल्पनद्वारा ध्यानं क्रियते । तथैव लययोगे एतादृशी कल्पना न विद्यते । योगी योगसाधनद्वारा अन्तर्जगति अलौकिकविन्दुं पश्यति । विन्दुं स्थिरिकृत्य परमात्मनः ध्यानं करोति । तदेव विन्दुध्यानमुच्यते । एतदेव लययोगस्य वैशिष्ट्यम् । लययोगे नवाङ्गानि विद्यन्ते । तदुक्तं यथा – अङ्गानि लययोगस्य नवैवेति पुराविदः । यम- नियम- स्थूलक्रिया-सूक्ष्मक्रिया –प्रत्याहार –धारणा- ध्यान लयक्रिया समाध्यादीनि नवाङ्गानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लययोगः&oldid=409634" इत्यस्माद् पुनः प्राप्तिः