अष्टाङ्गयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अष्टाङ्गयोगः

अष्टाङ्गयोगःयोगः

Portal:Hinduism

प्रवेशद्वारम्:योगदर्शनम्
प्रवेशद्वारम्:योगप्रवेशः

अष्टाङ्गयोगः ( /ˈəʃhtɑːnɡəjɡəh/) (हिन्दी: अष्टाङ्ग योग) अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः । पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि ।।२.२९।। इति । अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति [१] । एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि । अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति । पतञ्जलिमुनिः अष्टांगयोगस्य भागद्वयम् अकरोत् । बहिरङ्गः, अन्तरङ्गश्चेति [१]

१. बहिरङ्गः :- अष्टाङ्गयोगस्य बहिरङ्गभागे यम-नियम-आसन-प्राणायाम-प्रत्याहाराः अन्तर्भवन्ति । शरीरादीनां बाह्यलक्ष्यानि साधयितुम् बहिरङ्गयोगस्य साधना भवति ।

२. अन्तरङ्गः :- अष्टाङ्गयोगस्य अन्तरङ्गभागे धारणा-ध्यान-समाधयः अन्तर्भवन्ति । अन्तरङ्गभागस्य एव नामान्तरं ‘संयमः’ इति । अन्तरङ्गयोगस्य पृष्ठे साधकस्य लक्ष्यं वस्तुनिष्ठं नापितु आत्मनिष्ठं भवति, यत् आत्मचिन्तनेन सिद्ध्यते ।

साधकाय राजयोगस्य प्रत्येकसोपानम् आगामिसोपानस्य कृते पृष्ठभूमिकात्वेन कार्यं करोति । तेषां सोपानानां निश्चितं सीमाङ्कनं न भवति । यतो हि सोपानस्य स्थितेः ज्ञानं केवलम् अनुभवेनैव भवितुम् अर्हति । राजयोगस्य उत अष्टाङ्गयोगस्य साधानायाः प्रारम्भिके काले साधकः यदि साधकसमूहेन सह निवसेत्, तर्हि योग्येन वातावरणेन तस्य विकासः शीघ्रं भवति [२] । अतः योगिनः वदन्ति यत्, प्रारम्भिके काले योग्याचार्यस्य सान्निध्ये योगाभ्यासेण सर्वासां समस्यानां नाशः भवति इति ।

पातञ्जलयोगसूत्रस्य परिचयः[सम्पादयतु]

योगशास्त्रस्य प्रणेता पतञ्जलिः

पातञ्जलयोगसूत्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्" इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररूपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।

योगसूत्राषां भाष्यं महर्षिव्यासेन कृतमासीत्, तदेव प्रमाणतमो वर्ततेऽद्य।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

योगशास्त्रपरिचयः[सम्पादयतु]

अस्मिन् योगशास्त्रे चत्वारः पादाः सन्ति । तेषां नामानि क्रमाद् भविष्यन्ति -समाधिपादः, साधनपादः विभूतिपादः, कैवल्यपादश्चेति । प्रथमे पादे भगवान् पतञ्जलिः -‘अथ योगानुशासनम्’,[३] इति शास्त्रारम्भस्य प्रतिज्ञां करोति । अनन्तरं योगस्य परिभाषा अस्ति -"योगश्चित्तवृत्तिनिरोधः" [४] इति । चित्तवृत्तयः-प्रमाणविपर्ययविकल्पादयः । एतेषां निर्वर्तनं योगशब्दार्थः । समाधिशब्दस्यार्थः -सम्यक् आधानम् इति, अर्थात् चित्तस्य स्वात्मस्वरूपे अवस्थापनमिति । योगवासिष्ठे समाधिलक्षणमेवमभिहितम्-
'इमं गुणसमाहारमनात्मत्वेन पश्यतः
'
अन्तः शितलता यस्य समाधिरिति कथ्यते इति ।

द्वितीये साधनपादे -" तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" (यो० सू०-१) इत्यादि सूत्रद्वारा चञ्चलचित्तपुरुषाणां तपः स्वाध्यायादि क्रियायोगः एवं यमनियमादिबहिरङ्गसाधनभूतानां तत्त्वानामुल्लेखः वर्णितः । अत्र तपः इति शब्देन चान्द्रायणादिक्लेशकारकस्य तपसः अर्थावबोधो न भवति, यतः चान्द्रयणादयः शरीरे क्लेशजनकत्वात् तेन चित्तस्य ऐकाग्य्रं न तिष्ठति । अत्र तपः शब्दार्थः इत्थंभूतः भवति-हितकारकं स्वल्पं सात्विकभोजनं तथा शीतोष्णसुखदुःखादीनां सहनं एवमिन्द्रियाणां निरोधात्मकं यद्भवति तत्तपः इत्युच्यते । योगशास्त्रे तपः प्रसन्नकरणात्मकं वर्तते न तु पीडात्मकम् । स्वाध्यायस्यार्थः-मोक्षशास्त्राध्ययनं या नियमपूर्वकं प्रणवादिजपानुष्ठानमिति । ईश्वर-प्रणिधानं नाम परमात्मनः अनुचिन्तनम् अथवा परमात्मनि सर्वकर्मणां समर्पणम् इति भवति । सर्वेषु क्रियायोगेषु ईश्वरप्रणिधानं नाम क्रियायोगः उत्तमः इति स्वीक्रियते । "यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्" इति ईश्वरप्रणिधानयुक्तः पुरुषः सर्वकर्माणि ईश्वारार्पितसेवाबुध्या करोति इत्यादयः विषयाः प्रतिपादिताः । तृतीये विभूतिपादे -जन्मान्तरज्ञानं, भूतभविष्यदर्थकं ज्ञानं, अन्तर्हितम् इत्यादि अनेकप्रकाराः सिद्धयः उपन्यस्ताः । चतुर्थे कैवल्यपादे -"जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः" [५] इति सूत्रेण पञ्चानां सिद्धीनां वर्णनं करोति । देवतानां सिद्धिः जन्मना एव जायते । एवं पक्षिणामाकाशे उड्डयनं पशूनां जलतरणमित्यादि जन्मतः एव प्रसिद्धः । ओषधेभ्यः सिद्धिः प्राप्यते । आयुर्वेद, रसेश्वरदर्शनादिषु सिद्धिरियं वर्णिता । मन्त्रेण एवं तपोबलेन सिद्धीनां प्राप्तिवर्णनं तन्त्रादिशास्त्रेषु मिलिष्यति । समाधेः सिद्धिः शास्त्रस्यास्य गौणविषयभूता भविष्यति । यमनियमादि अष्टाङ्गोपासनेन यदा योगवृक्षः फलति तदा पूर्णभावनया समाधिरुपफलपरिपकानन्तरं प्रकृति-पुरुषयोः भेदात्मकः साक्षात्कारः सिध्यति । तदानीं असंगः पुरुषः स्वस्वरूपावस्थानेन तिष्ठतीति कृत्वा आत्यन्तिकदुःखविनाशरूपः मोक्षः सिध्यति । अस्मिन् योगशास्त्रे षड्विंशतितत्त्वानि भवन्ति । यथा सांख्याभ्युपगतानि पञ्चविंशतितत्त्वानि, एतेषामतिरिक्तत्वेन एकः ईश्वरः अस्तीति ईश्वरतत्त्वमपि पतञ्जलिरयं स्वीकरोति इत्यतः अस्य नाम सेश्वरवादी सांख्यः इति । ईश्वरस्य लक्षणमेव प्रतिपादयति पतञ्जलिः क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो० सू० १-२४) इति ।

वैदिकी जीवनपद्धतिः धर्मार्थकाममोक्षरूपिणि पुरुषार्थचतुष्टये आश्रिता वर्तते । अन्तिमः पुरुषार्थः एव जीवनस्य अन्तिमम् उद्देश्यम् अस्ति । तदर्थमेव दर्शनशास्त्राणां प्रवृत्तिर्जायते यद्यपि सर्वाणि दर्शनानि स्व-स्वसिद्धान्तानुसारं मोक्षस्य निरूपणमकुर्वन् तथापि योगदर्शनं मोक्षस्य कृते साक्षात्कृतयत्नो विधीयते । मोक्षस्य कृते एव योगस्य उदयः सञ्जातः । इदं तात्पर्यं ‘योग’ पदस्य व्युत्पत्त्याऽपि स्पष्टमस्ति । “युज् समाधौ” धातोः योगशब्दस्य निष्पत्तिः संजाता । आत्मनः परमात्मनि विलय एव योग उच्यते । यदा त्रिविधदुःखानाम् एकान्तिकी आत्यन्तिकी च निवृत्तिर्भवति, तदा आत्मा स्वरूपे विलीनो भवति । तत्पश्चात् जननमरणादयः पुनर्न जायन्ते ।

अस्य आत्मसाक्षात्कारस्य शास्त्रीयं मार्गदर्शकं योगशास्त्रमस्ति । समाधेरवस्थायाः अपरः पर्यायो योगः एवास्ति । चित्तवृत्तिः बाह्मजगतः अपवार्य आन्तरतत्त्वे स्थिरयेत् इत्याकारकोऽयं योगमार्गोऽत्र प्रतिपादितः । योगदर्शनं वैदिकदर्शनमस्ति यतो हि वेदेषु उपनिषत्सु च योगस्य सोपायं वर्णनं प्राप्यते । प्राचां ऋषीणां त्रैकालिकज्ञानस्य मूलमिदं योगदर्शनमस्ति, अतोऽस्य प्राचीनता असन्दिग्धा प्रतीयते । यदा वेदानाम् अपौरुषेयत्वं परीक्ष्यते तदा योगः एव तेषां अपौरुषेयत्वस्य साधक इति सिद्ध्यति । यतो हि ऋषयोऽपि योगेन एव मन्त्राणां साक्षाद्दर्शनं कृतवन्तः । ते मन्त्रप्रणेतारो नासन् ।

अस्य अलौकिकवेदज्ञानजन्ययोगदर्शनस्य क्रियान्वयनं समाधिं विना नैव सम्भवति, अतः योगोवेदादपि प्राचीनं प्रतीयते । यद्यपि योगोऽपि एकं विशिष्टं ज्ञानमस्ति तथा च वेदाः अपि ज्ञानरुपाः सन्ति । ज्ञानस्य कदापि विनाशो नैव जायते । वेदाः अनादिज्ञानरूपाः वर्तन्ते । तेषामालोके योगमार्गस्य दर्शनम् अभवत् येन पश्चात् अदृष्टज्ञानम् अन्तर्निहितं ज्ञानं वा पुनः प्रकाशितम् । वैदिकदर्शनेषु योगस्य महत्त्वपूर्णं स्थानमस्ति । अवैदिकैः जैनबौद्धादिदर्शनैरपि अस्य महत्त्वं स्वीकृतं, स्वसम्प्रदायेषु च सादरं योगस्य प्रतिष्ठापना विहिता । उदाहरणार्थं जैनदर्शनस्याचार्येण ’उमास्वामिना हेमचन्द्रेण’ च योगप्रक्रियाया विषयो विस्तरेण प्रतिपादितः । हठयोगानुगामिनि नाथसम्प्रदायेऽद्यापि योगस्य व्यावहारिकः अभ्यासो विधीयते ।

योगदर्शनस्य विकासः[सम्पादयतु]

योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् । तद्र्चना योगसूत्रनाम्ना प्राप्यते । “ अथ योगानुशासनम्” इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति । अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् । अत एव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ताः पूर्वम् उपदिष्टाः । याज्ञवल्क्यस्मृतिग्रन्थे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ । महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरूपणं कृतम् ।

महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति । यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् | स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति | अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत । पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते । यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति | यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि ।

योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चित्तवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गानां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरूपाणां अवशिष्टानां विशिष्टयोगाङ्गानां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तीनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि-निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषयाः विस्तरेण निरूपिताः सन्ति ।

  1. समाधिपादः
  2. साधनापादः
  3. विभूतिपादः
  4. कैवल्यपादः

पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्ति व्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुम् अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकम् “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।

योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते । यथा –भोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृत “योगसुधाकराख्ये”, नागोजिभट्ट विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति ।

उपर्युक्ताः सर्वाः टीका अनुभविभिः योगसाधकैः रचिताः सन्ति । योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते । स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रन्थे विस्तृतभूमिकायां योगस्य स्वरूपम् उपस्थाप्य ग्रन्थस्य उपादेयता संवर्धिता । इयं टीका गीताप्रेस्, गोरखपुरतः प्रकाशिताऽस्ति ।

योगस्वरूपम्[सम्पादयतु]

“योगश्चिवृत्तेर्निरोधः “ इति योगस्य परीभाषा योगसूत्रकारेण उदाहृता । चित्तञ्च क्षिप्त –मूढ –विक्षिप्त –एकाग्र –निरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति । क्षिप्तभूमिः रजोगुणबहुला वर्तते । एषाऽवस्था दैत्य-दानव –उन्मत्तजनानां च भवति । मूढभूमिः तमोगुणबहुला भवति । इयं राक्षस-पिशाच-मदोन्मत्तानां जायते । विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति । इयं प्रथमभूस्थितानां योगिनां देवानां च चित्तभूमिरस्ति । इयं निरुद्धसत्त्वप्रधाना मन्यते । चित्तस्य सर्वासु वृत्तीषु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चित्तं निरुद्धं भवति । एषैव अन्तिमा भूमिरस्ति । चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –(१) प्रमाणवृत्तिः (२) विपर्ययवृत्तिः (३) विकल्पवृत्तिः (४) निद्रावृत्तिः (५) स्मृतिवृत्तिश्चेति । इमा रागद्वेषादिक्लेशानां कारणरूपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम् –क्लिष्टा अक्लिष्टाश्चेति ।

प्रमाणानि[सम्पादयतु]

योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति । अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते ।

  • विपर्ययः –वस्तुनो विपरीतम् अथवा मिथ्याज्ञानं विपर्ययोऽस्ति ।
  • विकल्पः –शब्दज्ञानेनोत्पन्नः किन्तु वस्तुशून्यो विकल्पः कथ्यते । यथा चैतन्यमेव पुरुषस्य स्वरूपमस्ति ।
  • निद्रा - वस्तुनोऽभावस्य ज्ञापयित्री वृत्तिः निद्रा इत्युच्यते ।
  • स्मृतिः - अनुभूतविषयाणां तस्मिन्नेव रूपे स्मरणं स्मृतिरिति कथ्यते ।

आसां वृत्तीनां विरोधादेव आत्मस्वरूपस्य दर्शनं भवति । अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते । आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण च भवति । वैराग्येण विवेकस्य उदयो भवति । अभ्यासेन च चित्तं सत्त्वे प्रतिष्ठते ।

अङ्गानि[सम्पादयतु]

चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति । तत्कृते योगाङ्गानां अभ्यासो विधीयते ।

योगस्य अष्टौ अङ्गानि अभिमतानि-

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

मुख्याः विषयाः[सम्पादयतु]

समाधिः[सम्पादयतु]

चित्तवृत्तेर्निरोध एव समाधिरुच्यते । समाधिर्द्विधा वर्तते –सम्प्रज्ञातसमाधिः, असम्प्रज्ञातसमाधिश्चेति ।

सम्प्रज्ञातसमाधिः[सम्पादयतु]

कस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्यं जाग्रतावस्था च इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति । अस्य समाधेश्चत्वारो भेदाः सन्ति –(१) वितर्कानुगतः (२) विचारानुगतः (३) आनन्दानुगतः (४) अस्मितानुगतश्च । एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति ।

असम्प्रज्ञातसमाधिः[सम्पादयतु]

वृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति । इयं निर्बीजसमाधिरपि उच्यते । अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, न च कर्माशयाः ।

असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रत्ययश्च । अविधावशात् निरोधस्समाधिः ‘भवप्रत्यय’ नाम्ना विज्ञायते ।अत एव रक्त-मांस-मेद –अस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवा ‘विदेह’ संज्ञका भवन्ति । श्रद्धा –वीर्य- स्मृति – समाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते । इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति । अत्र अविद्यायाः विनाशेन क्लेशाः अपि विनश्यन्ति । अतः चित्तं ज्ञाने प्रतिष्ठते ।

चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपाः भवन्ति । यथा-रोगः, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि । चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादिनां चानुभवन्ति । अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः । सर्वेषु प्राणिषु- मैत्रीभावः, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा च करणीयाः ।

असमाहितचित्ताः अपि जनाः तपः-स्वाध्याय, ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरूपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते । क्लेशाः प्रायेण अविद्यायाः आच्छादिताः भवन्ति । तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते । क्लेशः पञ्चधा प्रतिपादितः –अविद्या, अस्मिता, रागः, द्वेषः, अभिनिवेशश्च । अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते । द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते । सुखस्य उत्कटेच्छा रागो भवति । दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः । मृत्योर्भयश्चाभिनिवेशो भवति ।

परिणामविचारः[सम्पादयतु]

परिणामः त्रिविधः । धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्चेति ।

  • धर्मपरिणामः -धर्मे पूर्वधर्मतिरोभावेन धर्मान्तरप्रादुर्भावः धर्मपरिणामः ।
  • लक्षणपरिणामः - विद्यमानधर्मेषु लक्षणमेकं त्यक्त्वा लक्षणान्तरस्वीकरणेन यः परिणामः सः लक्षणपरिणामः ।
  • अवस्थापरिमाणः - वर्तमानं यल्लक्षणं तस्य अवस्थान्तरं त्यक्त्वा अन्यावस्थायां परिणामत्वेन वर्तमानत्वम् ।

अविद्याविचारः[सम्पादयतु]

विद्यायाः अभावः अविद्या इति व्युत्पत्त्या निर्मक्षिकम् इत्यत्र अव्ययीभावसमासेन मक्षिकानामभावः यथा प्रतीयते तथा पूर्वपदप्रधानग्रहणेन अविद्या पदशब्दार्थः विद्याभावः इति सिध्यति । अथवा न विद्या अविद्या इति विग्रहे नञ् तत्पुरुषसमासः प्रयुज्यते तर्हि विद्याविरोधित्वेन अन्यः अर्थः उच्यते । यथा, अब्राह्मणः अराजपुरुषः इत्यादिषु ।

पुरुषस्य कैवल्यम्[सम्पादयतु]

एकतायाः नाम कैवल्यमिति । प्रकृतेः कार्यभूतमहत्तत्वादीनां विलयेन, एवं पुरुषेण सह प्रकृतेः आत्यन्तिकवियोगेन एव प्रकृतेः एकाकित्वं सिद्धम् । पुरुषस्य कैवल्यमेतद् भवति यत् आत्मा स्वात्मनि वर्तमानानि समस्तोपाधिकस्वरूपाणि त्यक्त्वा स्वमूलस्वरूपे स्थायित्वेन वर्तमानत्वमिति ।

योगस्य तत्त्वानि[सम्पादयतु]

योगदर्शने प्रतिपादितः ईश्वरः मुक्तजीवः कैवल्यमुपगतो योगी वा नास्ति अपितु तदपेक्षया भिन्नो विद्यते । मुक्तजीवः अथवा केवली पुरुषः पूर्वसांसारिकबन्धनेभ्यो मुक्तो भवति किन्तु ईश्वरस्तु सदैव मुक्तो भवति । प्रकृतौ लीनः पुरुषोऽपि ईश्वरो नास्ति । ईश्वरः सर्वदा इच्छा-ज्ञान-क्रियारूपाभिः शक्तिभिः सम्पन्नो भवति । एताः शक्तयोऽपि ईश्वरे स्वाभाविक्य एव सन्ति । अनादिकालादेव ईश्वरे एताः विद्यन्ते । ईश्वरश्चैतत्प्रभावात् एव ऐश्वर्यसम्पन्नोऽस्ति । जीवानुग्रह ईश्वरस्य प्रधानः गुणोऽस्ति ।

प्रणवः अर्थात् ओङ्कारः ईश्वरस्य वाचको वर्तते । तस्य ईश्वरस्य सम्प्राप्तिः स्वाध्यायेन योगसम्पत्त्या वा सम्भवति । ईश्वरप्रणिधानेनैव चित्तस्य विक्षेपाः नश्यन्ति । समाहितचेताः योगाभ्यासी ईश्वरचिन्तनेन निर्मलां बुद्धिं लभते । तेन तस्मिन् ऐश्वर्यस्य उदयो भवति । यद्यपि ऐवर्यस्य प्राप्तेरनन्तरं बहवो विध्ना उपतिष्ठन्ति किन्तु ईश्वरप्रणिधानेन तेषां नाशो भवति । एवं समाधिस्थो भूत्वा योगी ईश्वरं चिन्तयेत् तदैव तस्य कैवल्यलाभो भवति । ईश्वरत्वस्य स्वीकृतेरेव योगदर्शनं सेश्वरसांख्यमिति व्यवाह्रियते ।

ईश्वरः[सम्पादयतु]

योगदर्शनं ईश्वरं विश्वसिति । तत्र कारणानि –

  • वेदैः ईश्वरसत्त्वम् अङ्गीक्रियते । वेदाश्च शब्दप्रमाणम् । अतः सृष्टिकर्ता ईश्वरः अङ्गीकर्तव्यः ।
  • ईश्वरसत्त्वे अनुमानमपि प्रमाणम् । यदि सर्वस्यापि मूलम् अन्विष्यते तर्हि सर्वस्यापि ज्ञानस्य मूलम् ईश्वर इति बुद्ध्यते ।
  • प्रकृति-पुरुषयोः संयोगवियोगयोः कारणं किञ्चित्स्यादेव । सः हेतुरेव ईश्वरः ।

पतञ्जलि – ईश्वरः[सम्पादयतु]

ईश्वरः क्लेशकर्मविपाकसंस्कारैः रहितः । मुक्तपुरुषैर्भिन्नः । देशकालातीतः । सर्वज्ञः, सर्वशक्तः,सर्वव्यापी,परिपूर्णः,ज्ञानस्वरूपी,गुरुः,वेदानामुपदेशकश्च । “औम्” इतीदं तस्य सङ्केतः । ईश्वरः जगतः सृष्टिस्थितिलयानां न हेतुः । सः विशेषपुरुषः । आत्मानि न शिक्षति । सः मुक्तिं न प्रयच्छति । क्लेशान् अपनुद्य गुरुरिव मार्गं दर्शयेत् । मोक्षस्तु पुरुषेण स्वप्रयत्नेन साध्यः । देवः तत्साधने केवलं सहकरोति ।

प्रमुख्यग्रन्थाः[सम्पादयतु]

ग्रन्थः कर्ता
योगसूत्रम् पतञ्जलिः
व्यासभाष्यम् (योगसूत्रटीका) व्यासः
भास्वती (व्यासभाष्यस्य टीका) हरिहरानन्दः आरण्यकः
मणिप्रभाटीका (योगसूत्रटीका) रामानन्दयतिः
योगचन्द्रिका (योगसूत्रटीका) अनन्तपण्डितः
योगसूत्रवृत्तिः (योगसूत्रटीका) भावगणेशः
योगसुधाकरः (योगसूत्रटीका) सदाशिवचन्द्रसरस्वती
लघ्वीवृत्तिः (योगसूत्रटीका) नागोजीभट्टः
तत्त्ववैशारदी वाचस्पतिमिश्रः
योगसारः (तत्त्ववैशारद्याः टीका) विज्ञानभिक्षुः
योगवार्तिकम् विज्ञानभिक्षुः
पातञ्जलरहस्यम् राघवानन्दसरस्वती
भोजवृत्तिः/भोजमार्तण्डः भोजराजः

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६
लकुलीश-योग-विश्वविद्यालयः
https://www.lyu.ac.in
अहमदाबाद लोटस-व्यू, बालाजी-मन्दिरस्य समीपे, निरमा-विश्वविद्यालयस्य सम्मुखं, एस.जी. हाईवे, छारोडी, अहमादाबाद, गुजरात - 382481

यमः[सम्पादयतु]

अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ।।२.३०।। इति पातञ्जलयोगसूत्रे यमाः प्रोक्ताः । अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः चेति यमाः [६]

अहिंसा[सम्पादयतु]

अहिंसा अर्थात् प्रेम, अन्यस्य अहितं न करणीयं, जीवहत्या न करणीया, अन्येभ्यः कष्टं नोत्पादनीयं, शत्रुतायाः विचाराः मनसि नोद्भवेयुः इत्यनुसन्धेयम् [२] । अहिंसा त्रिधा भवति । बौद्धिकी, वाचिकी, शारीरिकी चेति ।

१. बौद्धिकी अहिंसा

‘आत्मवत् सर्वभूतेषु’ इत्यस्य अनुसन्धानं विधेयम् । अर्थात् सर्वेषु भूतेषु एकस्य आत्मतत्वस्य एव दर्शनं करणीयम् । बौद्धिकहिंसा यदा मानवस्य व्यवहारे अन्तर्भवति, तदा अन्यस्मात् प्राप्तं कष्टम्, अपमानं च तस्य बुद्धौ उत्तेजनां नोद्भावयति ।

२. वाचिकी अहिंसा

कठोरवचनैः प्रत्येकमनुष्यः आहतः भवति । शस्त्रेण जातः आघातः कालान्तरे विस्मर्तुं शक्यते, परन्तु वाचिकशस्त्रेण आहतं मनः दीर्घकालं यावत् पीडाम् अनुभवति । अतः कटुवचनैः अन्यस्य अपमानं, वधस्य आज्ञादानम्, अनिष्टं कर्तुं परामर्शदानं च वाचिकहिंसात्वेन परिगण्यते । एतेषां परित्यागं कृत्वा मधुरवचनं, प्रियकार्यं, हितकारीबोधनम्, उत्साहवर्धकवचनं च अहिंसायाः मार्गाय उत्तमं मन्यते ।

३. शारीरिकहिंसा

यदि बौद्धिकी-वाचिकहिंसायाः अभ्यासः भवति, तर्हि शारीरिकी अहिंसा स्वतः एव सिद्ध्यति ।

‘अहिंसा प्रतिष्ठायां तत् सन्निधौ वैर त्यागः’ अर्थात् अहिंसायां सुदृढे साधके परिव्याप्तः वैरभावः स्वतः एव नष्टः भवति । साधकः यदा अहिंसायां प्रतिष्ठितः भवति, तदा तं परितः एकस्याः आभायाः रचना भवति । यः कोsपि मनुष्यः तस्याम् आभायां यदा भवति, तदा सः अहिंसायाः विचारैः स्वयमेव परिपूर्णः भवति । अहिंसायाः सिद्धेः मापदण्डः अस्ति यत्, अहिंसकमनुष्यस्य समीपम् आगत्य हिंसकपशवः, हिंसकमनुष्याः च अहिंसायाः अनुगामिनः भवन्ति ।

सत्यम्[सम्पादयतु]

भारतीयसंविधानस्य ध्येयवाक्यम् अस्ति यत्, ‘सत्यमेव जयते’ इति । परन्तु एषः केवलं भारताय नापि तु मनुष्येभ्यः सन्देशः वर्तते । बुद्ध्या, वचसा, कर्मणा च यत् समानं भवति तदेव सत्यम् अङ्गीक्रियते [७] । सत्यं द्विविधं प्रोक्तम् । बौद्धिकं, वाचिकं चेति ।

१. बौद्धिकसत्यम् :- राग-द्वेषरहितः बुद्ध्या जातः निश्चयः एव सत्यत्वेन परिगण्यते । धर्म-अधर्मयोः, वाद-प्रतिवादयोः यः सन्तुलितनिर्णयः भवति, तदेव सत्यम् । सः सन्तुलितनिर्णयः बुद्ध्याः कार्यम् अस्ति । अतः बुद्धौ निश्चयात्मकता एव बौद्धिकसत्यम् अस्ति ।

२. वाचिकसत्यम् :-

सत्यं ब्रूयात् प्रियं ब्रूयात्, मा ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः ।।

उक्तस्य श्लोकस्य आशयः अस्ति यत्, सत्यं वदन्तु, परन्तु तत् सत्यं प्रिय(मधुर)शब्दैः युक्तं स्यात् । अप्रियं सत्यं मा वदतु । प्रिय(मधुर)शब्दैः युक्तम् असत्यम् अपि मा वदतु ।

बौद्धिकसत्यस्य प्रतिष्ठानेनैव वाचिकसत्यस्य स्थितिः सुदृढा भवति । अन्यथा लोभेन, क्रोधेन, मोहेन, रागेण, द्वेषेण, भयेन च वशीभूतः मनुष्यः मिथ्याभाषणं कर्तुं बाद्ध्यः भवति । विचारे, वचने च सम्भूतस्य सत्यस्य व्यवहारे अनुसरणम् एव शारीरिकसत्यत्वेन परिगण्यते ।

सत्यस्य पालनेन साधके एकस्याः अद्भुतशक्त्याः आविर्भावः भवति । साधकस्य मनः गङ्गाजलवत् निर्मलं भवति । सत्यस्य साधकः स्वेप्सितानि वस्तूनि प्राप्तुं समर्थः भवति । तस्य वाणी सिद्धवाणी भवति । यस्य कस्यापि स्थितेः बुद्ध्या निश्चयं कृत्वा तं निश्चयं वाण्या प्रकटं कृत्वा वाण्यनुसारं व्यवहारः एव पूर्णसत्यत्वेन परिगण्यते । सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इत्यनेन सूत्रेण सिद्ध्यति यत्, सत्यनिष्ठव्यक्तेः वचनानि सर्वदा फलीभूतानि भवन्ति इति ।

अस्तेयम्[सम्पादयतु]

अन्यस्य अधिकारस्य वस्तुनः मनसा, वाण्या, शरीरेण च अचौर्यम्, अनयनम् एव अस्तेयत्वम् [८] । अस्तेयं त्रिविधम् । बौद्धिकं वाचिकं शारिरीकञ्च ।

१. बौद्धिक-अस्तेयम् :- ‘परद्रव्येषु अनभिध्याम्’ अर्थात् अन्यस्य द्रव्येषु कुदृष्टपातः अपि न करणीयः, अन्यस्य वस्तुनः/द्रव्यस्य विषये चिन्तनम् अपि न करणीयम् इति ।

२. वाचिक-अस्तेयम् :- स्वस्य वचनेन अपि चौर्यकर्मणि, लुण्ठनकर्मणि च अन्ये न प्रेरणीयाः । सामान्यतः दृश्यते यत्, मनुष्यः अन्यस्य द्रव्यं प्राप्तुम् असमर्थः अस्ति, तर्हि सः अन्यान् प्रेरयित्वा धनप्राप्त्यै प्रयासं करोति । तदपि वाचिक-अस्तेये अन्तर्भवति । उपदेशकाले, पाठनकाले च तथ्यम् अज्ञात्वापि तद्विषये मिथ्याकथनं, प्रश्नस्य अपूर्णोत्तरं, प्रश्नस्य उत्तरमेव न दीयते इत्यादयः वाचिक-अस्तेयस्य उल्लङ्घत्वेन परिगण्यन्ते ।

३. शारीरिक-अस्तेयम् :- विचार-वचनाभ्यां सह शारीरिकक्रियया अपि अन्यस्य द्रव्यस्य, वस्तुनः च चौर्यं, लुण्ठनं न क्रियते, तत् शारीरिकम् अस्तेयम् उच्यते । छल-बल-दलैः, स्वामिनः आज्ञया विना वस्तुनुनः उपरि स्वीकरणं, स्पष्टतया शारीरिक-अस्तेयं कथ्यते । बस्-याने स्थित्वा यस्य स्थलस्य कृते चिटिका गृहीता, तस्मात् स्थलात् अग्रे गमनम् अपि अस्तेये अन्तर्भवति ।

ब्रह्मचर्यम्[सम्पादयतु]

भारतीयसंस्कृतौ एव एषः शब्दः प्राप्यते [२] । अनेन भारतीयमूल्यानां गहनतायाः ज्ञानं भवति । अन्यासु भाषासु ब्रह्मचर्यशब्दस्य अनुवादः स्यात्, परन्तु ब्रह्मचर्यशब्दस्य समानार्थिशब्दत्वेन तस्य गणना न भवति । सामान्यतः व्यवहारे ब्रह्मचर्यम् अर्थात् असम्भोगः एव परिगण्यते । परन्तु महासमुद्रे स्थिता हिमस्य लघ्वी गिरिका द्रष्टुं शक्यते, परन्तु समुद्रस्य अन्तः सा गिरिका न अपि तु पर्वतमालिकाः भवन्ति । यां गिरिकां वयं पश्यामः, सा गिरिका तु पर्वतमालायाः १०% अपि भवति । अन्तः स्थिता विशालपर्वतमाला ९०% भवति । तथैव ब्रह्मचर्यस्य ९०% ज्ञानम् (अर्थः) योगरूपिसमुद्रे निहितम् अस्ति [२]

एतेन ब्रह्मचर्येण, देवादेवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ।।४४.१०।। उद्योगपर्व महाभारतम्

अर्थात्, ब्रह्मचर्यम् इहाभ्युदयस्य मोक्षप्राप्तेश्चापि साधनमिति । ब्रह्मणः स्वरूपे विचरणम् अर्थात् ब्रह्मणः स्वरूपस्य मननम् एव ‘ब्रह्मचर्य’ शब्दस्यार्थः । ब्रह्मचर्यं त्रिविधं प्रोक्तम् । बौद्धिक-वाचिक-शारिरीकाणि चेति ।

१. बौद्धिकब्रह्मचर्यम् :- यस्य कस्यापि विषयस्य भोग-भावनाः मनसि नोद्भवनम् एव बौद्धिकब्रह्मचर्यम् । नारीस्मरणं, स्त्रीचर्चां, सौन्दर्याकर्षितः सन् वारं वारं स्त्रीदर्शनं, भोग-विलासस्य चर्चाचिन्तने, मैथुनं च न करणीयम् इत्येतानि बौद्धिकब्रह्मचर्ये अन्तर्भवन्ति ।

२. वाचिकब्रह्मचर्यम् :- वाचिकब्रह्मचर्ये केवलं वाणीसंयमस्य एव बाहूल्यम् अस्ति । अश्लीलगीतानां गायनं, एकान्तेषु अश्लीलचर्चा, स्त्रीसौन्दर्यस्य स्तुतिः च न करणीयम् इत्येतानि वाचिकब्रह्मचर्ये अन्तर्भवन्ति ।

३. शारीरिकब्रह्मचर्यम् :- यः साधकः बौद्धिक-वाचिकब्रह्मचर्यस्य पालनं करोति, तस्य कृते शारीरिकब्रह्मचर्यं सरलं भवति । उपस्थादिभिः कर्मेन्द्रियैः शारीरिकब्रह्मचर्यस्य पालनं भवति । स्त्रीस्पर्शः, आलिङ्गनं, चुम्बनं, विपरितलैङ्गिकैः सह सम्पर्कः च न करणीयः इत्येतानि एव शारीरिकब्रह्मचर्ये अन्तर्भवन्ति ।

अपरिग्रहः[सम्पादयतु]

सत्यान्वषकः, अहिंसकः साधकः परिग्रहं कर्तुं न शक्नोति । परिग्रहः अर्थात् वस्तुसङ्ग्रहः । परमात्मा परिग्रहं न करोति । सः स्वावश्यकतायाः अनुसारं नित्यम् आवश्यकवस्तूनि जनयति [२] । अतः साधकस्य तस्मिन् परमात्मनि दृढविश्वासः आवश्यकः यत्, परमात्मा तस्य आवश्यकतायाः वस्तूनि नित्यम् उत्पन्नं करिष्यति एव इति । शब्द-स्पर्श-रूप-रस-गन्धादीनां सम्बद्धानां भोगवस्तूनाम् असङ्ग्रहः एव अपरिग्रहः कथ्यते [२] । अपरिग्रहः त्रविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-अपरिग्रहः :- गुणदोषादीनां निर्णेत्री बुद्धिः यदा ग्रहण-रक्षणादिनः अकल्याणकारिविषयान्, हिंसादीनि पापानि, काम-क्रोध-लोभ-मोह-भयादिनः च अस्वीकारं करोति, तदा साधकाय बौद्धिक-अपरिग्रहः सिद्ध्यति ।

२. वाचिक-अपरिग्रहः :- सर्वात्मना वाणीसंयमः वाचिक-अपरिग्रहत्वेन परिगण्यते । यथा – असत्यं, छल-कपटयुक्ताः शब्दाः, निन्दाकरणम्, वाण्याः दुरुपयोगः च अपरिग्रहे वर्ज्यः अस्ति । मौनं वाचिक-अपरिग्रहस्य महासाधनम् अस्ति ।

३. शारीरिक-अपिग्रहः :- स्वस्य आवश्यकतानुसारं धन-धान्यस्य, वस्त्र-भूमेः च उपार्जनं, संग्रहणं शारीरिक-अपरिग्रहत्वेन परिगण्यते । ‘तेन त्यक्तेन भुञ्जीथाः’ इत्यादेशानुसारं प्राप्तवस्तुनः त्यागभावेन उपयोगः करणीयः । स्वपरिवारस्य मोहवशेनापि पदार्थानां संग्रहः न करणीयः ।

नियमः[सम्पादयतु]

शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २.३२ ।। इति पतञ्जलियोगसूत्रे प्रतिपादितं वर्तते । शौचम्, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानं च नियमाः प्रोक्ताः [६]

शौचम्[सम्पादयतु]

शौचम् त्रिविधं बौद्धिक-वाचिक-शारीरिकञ्चेति [२]

१. बौद्धिक-शौचम् :- काम-क्रोध-मोह-द्वेष-ईर्ष्या-अभिमान-कुविचारादीनां त्यागेन, दया-सहजता-नम्रता-अहिंसा-सत्यादीनां निरन्तरधारणेन च बुद्धिः शुद्धा भवति ।

२. वाचिक-शौचम् :- कठोरवचन-निन्दा-छल-असत्यवचानानां त्यागः, सत्य-मधुरवचन-स्नेह-सान्त्वादीनां सेवनं च वाचिकशौचत्वेन परिगण्यते ।

३. शारीरिक-शौचम् :- मृत्तिका-गोमय-गाजनीमृत्तिका-उबटन-त्रिफला-रीठादीनां जलेन सह उपयोगं कृत्वा शरीरस्य निर्मलीकरणम् एव शारीरिक-शौचं भवति । विरेचन-बस्ति-नेति-धौति-वमन-दन्तधावन-ब्रह्मदन्तधावन-जलनेति-आदीनां माध्यमेन शरीरस्य आन्तरिकभागानां शुद्धिः अपि शारीरिकशौचे अन्तर्भवति । सात्विकं, न्यायपूर्णार्जितधनेन प्राप्तं, परिमितम् अन्नं शरीरशौचार्थम् अत्युत्तमम् उक्तम् अस्ति । हिंसा-चौर्य-व्यभिचार-मांस-मदिरा-मैथुन-आदीनां परित्यागः एव शारीरिक-शौचम् उच्यते ।

सन्तोषः[सम्पादयतु]

सुखे-दुःखे, लाभे-हानौ, यशे-अपयशे, सिद्धौ-असिद्धौ, अनुकूलतायां-प्रतिकूलतायां च सर्वदा सन्तुष्टिः एव सन्तोषः उच्यते [२] । सन्तोषः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-सन्तोषः :- इच्छायाः दासः संसारस्य दासः भवति । यः स्व-ईच्छां दासीं भावयति, सः संसारस्य स्वामी भवति । अतः लोभ-मोह-राग-द्वेष-आदीनां त्यागं कृत्वा सन्तोषस्य आश्रयः कर्तव्यः ।

२. वाचिक-सन्तोषः :- चाटुकारिता-मिथ्यावचनयोः त्यागः वाचिक-सन्तोषः उच्यते । कटुवचनानि श्रुत्वा, अपमानितः भूत्वा अपि आवेशेन दुर्वचनानां मुखात् निर्गमनम् एव वाचिक-सन्तोषत्वेन परिगण्यते ।

३. शारीरिक-सन्तोषः :- शारीरिकहिंसा-व्यभिचार-चौर्य-बलात्कार-अत्याचार-कुकर्मादीनां त्यागः एव शारीरिकसन्तोषत्वेन परिगण्यते । दीनानां, दुःखितानां, रुग्णानां सेवा, ब्रह्मचर्यपालनं, अनुष्ठानम् इत्यादीनां सेवनं शारीरितसन्तोषः उच्यते ।

तपः[सम्पादयतु]

मनसा, इन्द्रियैः च संयमेन धर्मपालनम् एव तपः उच्यते । धर्मपालनाय कष्टं सोढव्यं, बुभुक्षा, पीपासा, शैत्यम्, औष्ण्यम् इत्यादीनि अपि सोढव्यानि भवन्ति [२] । तपस्त्रिविधम् । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।

१. बौद्धिकं तपः :- मन-बुद्धि-चित्तयोः शान्तिः, स्वच्छता, पवित्रता, मानसवृत्तीनां निग्रहणं बोद्धिकतपः उच्यते ।

२. वाचिकं तपः :- क्रोधः, असत्यभाषणम्, अपमानास्पदानि वाक्यानि, घृणापूर्णवचनम् इत्यादीनां त्यागः वाचिकं तपः उच्यते ।

३. शारीरिकं तपः :- बुभुक्षायाः, पीपासायाः, शैत्यस्य, उष्णतायाः च सहनम् एव शारीरिकं तपः उच्यते । आत्मदर्शिनां, गुरूणां, विदुषानां च सेवा-सत्कारः, शुद्धता, सरलता, ब्रह्मचर्यपालनम्, अहिंसा इत्यादीनां सद्गुणानां दृढावलम्बनम् एव शारीरिक-तपत्वेन परिगण्यते ।

स्वाध्यायः[सम्पादयतु]

कल्याणकारिशास्त्राणाम् अध्ययनम्, इष्टदेवानां नामजपः, मन्त्रपाठः, स्तोत्रादीनां पठनम्, सत्साहित्यानां पठनं पाठनं च स्वाध्यायत्वेन परिगण्यते [२] । स्वाध्यायः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-स्वाध्यायः :- ॐकारस्य , गायत्रीमन्त्रस्य, गुरुमन्त्रस्य च निरन्तरं मननम् एव बौद्धिक-स्वाध्यायत्वेन परिगण्यते ।

२. वाचिक-स्वाध्यायः :- मन्त्राणोच्चारणं, प्रार्थानां, स्तुतिपठनं, पुराणानां कथनम् इत्यादीनां नित्यास्वादनम् एव वाचिकस्वाध्यायत्वेन परिगण्यते ।

३. शारीरिक-स्वाध्यायः :- सर्वप्रकारकेषु अध्ययनेषु शरीरं साधनत्वेन सर्वदा भवत्येव । स्तुतीनां, श्लोकानां, प्रार्थनानाम्, ईश्वरकथानां च लेखनं शारीरिकस्वाध्यायत्वेन परिगण्यते ।

ईश्वरप्रणिधानम्[सम्पादयतु]

साधकः आदिनं मनसा, वचसा, शरीरेण च यानि कर्माणि करोति, तानि सः ईश्वराय समर्पयति । सा समर्पणस्य प्रक्रिया एव ईश्वरप्रणिधानत्वेन परिगण्यते [२] । ईश्वरप्रणिधानं त्रिविधं प्रोक्तं । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।

१. बौद्धिक-ईश्वरप्रणिधानम् :- साधकस्य बुद्ध्या जायमानाः क्रियाः ईश्वरप्राप्तेः लक्ष्यं साधितुम् एव भवन्ति । यथा – तर्कः, निश्चयः, विश्वासः, स्मरणम् इत्यादयः । मनसि पूर्णनियन्त्रणं कृत्वा बुद्धिः मनसः विषयान् प्रति गमनं स्थगयति । तां बुद्धिम् एव चित्ते विलीनां कृत्वा साधकः इन्दियाणां व्यापारान् उपशामयति । एषा प्रक्रिया एव बौद्धिक-ईश्वरप्रणिधानम् उच्यते । बौद्धिकप्रणिधाने साधकस्य मनसि एकं गहनं चिन्तनं भवति यत्, यत् किमपि अहं कुर्वन् अस्मि उत यत् किमपि मया क्रियमाणमस्ति, तत् सर्वम् अहम् ईश्वरस्य आदेशनैव कुर्वन् अस्मि इति ।

२. वाचिक-ईश्वरप्रणिधानम् :- वाणीद्वारा ईश्वरस्य गुणानां वर्णनं, स्तुतिगानं, प्रार्थानागानं, ॐकारस्य गानं, गायन्त्रीमन्त्रजपः इत्यादीनि कार्याणि वाचिक-ईश्वरप्रणिधानत्वेन परिगण्यन्ते ।

३. शारीरिक-ईश्वरप्रणिधानम् :- साधकस्य शरीरं रोगादिभ्यः दुर्बलं भवेत् चेत्, साधकः बौद्धिक-ईश्वरप्रणिधानं, वाचिक-ईश्वरप्रणिधानं च कर्तुम् असमर्थः भवति । बुद्धिः चिन्तनादिषु कार्येषु असमर्था भवति, वाक् अपि ईश्वरस्य गुणगाने, स्तुतिपाठे च असमर्था भवति । अतः शारीरिक-ईश्वरप्रणिधानस्य मुख्यता वर्तते । मनसा, वाचा, शरीरेण च यानि कर्माणि भवन्ति, तेषाम् ईश्वराय समर्पणम् एव शारीरिक-ईश्वरप्रणिधानत्वेन परिण्यते ।

आसनम्[सम्पादयतु]

साधकः यदा उपविशति, तदा सः स्थिरतायाः, सुखस्य च अनुभवं करोति चेत्, तत् आसनम् उच्यते । स्थिरसुखमासनम् [१] इत्येदं सूत्रं पतञ्जलिमुनिना योगसूत्रे प्रतिपादितं वर्तते । तद्यथा पद्मासनम्, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनमुष्ट्रनिषदनं, समसंस्थानं, स्थिरसुखं, यथासुखं चेत्येवमादीनि आसनानि प्रोक्तानि । यः कोsपि साधकः एकस्मिन् आसने एकप्रहरं (घण्टात्रयम्) यावत् सुखेन उपवेष्टुं शक्नोति, सः साधकः आसनं सिद्धं करोति [२] । योगपरम्परानुसारम् आसनानां प्रणेता स्वयं भगवान् शङ्करः अस्ति । चतुरशीतिलक्षयोनिषु जीवः भवति, अतः शिवेन चतुरशीतिलक्षानि आसनानि प्रणितानि [२]शिवेन प्रणितेषु सर्वेषु आसनेषु कालक्रमे अधिकतमानि आसनानि लुप्तानि । अतः केवलं चतुरशीतिः आसनानि एव प्रचलितानि सन्ति । तेषु अपि त्रयस्त्रिंशत् आसनानि एव मुख्यानि इति योगिनां मतम् ।

प्राणायामः[सम्पादयतु]

तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः [२] इत्यनेन सूत्रेण पतञ्जलिमूनिना योगसूत्रे प्राणायामस्य निरूपणं कृतम् अस्ति । आसने स्थिरतायां प्राप्तायां सत्यां श्वास-प्रश्वासयोः स्वाभाविकगतेः नियमनं कृत्वा तयोः समनता स्थापनस्य प्रक्रिया एव प्राणायामत्वेन परिगण्यते । रेचक-कुम्भक-पूरकाणां प्रक्रिया एव प्राणायामत्वेन परिगण्यते [२] । प्राणायामस्य प्रक्रियायां स्थानस्य, समयस्य, आसनस्य, विधेः च अति महत्वं भवति । प्राणायामस्य प्रक्रियायाः अनेके विधयः सन्ति । तेषु केचन विधयः अधः निरूपिताः ।

१. सहजप्राणायामः

२. सम-शीतोष्णप्राणायामः

३. भस्त्रिकाप्राणायामः

४. कपालभातिप्राणायामः

५. शीकलीप्राणायामः

६. शीतकारीप्राणायामः

७. उज्जायीप्राणायामः

८. अहिंसकप्राणायामः

९. नाडीशोधनप्राणायामः

१०. भ्रामरीप्राणायामः

प्रत्याहारः[सम्पादयतु]

प्रत्याङ्रूत्युपसर्गाभ्यां "हृञ् हरणे" इत्यस्माद्धातोः प्रत्याहारशब्दः निष्पन्नः । भोजनस्य अन्तः इति अस्य शब्दस्य अर्थः भवति । रूप-रस-गन्ध-शब्द-स्पर्शाः इन्द्रियाणां भोजनम् अस्ति । इन्द्रियाणि एतेषां निरन्तरं भोजनं कुर्वन्ति भवन्ति । मनः इन्द्रियाणि यन्त्रत्वेन उपयुज्य एव विषयाणाम् उपभोगं कुर्वन्ति । तेन चेतनया सह विषयाणां सम्बन्धः भवति । प्रत्याहारस्य प्रक्रियया सः सम्बन्धः विच्छिन्नः भवति । एतस्य फलस्वरूपतः चित्तम् अन्तर्मुखि भवति । प्रत्याहारस्य साधनानि मानसिकशक्तीः जनयन्ति । ततः मनः येभ्यः मार्गेभ्यः जगतः भ्रमणं करोति स्म, तेभ्यः मार्गेभ्यः एव अन्तर्जगत् प्रवेष्टुं शक्नोति [२]

साधकः यदा धारणायाः सोपानम् आरोहति, तदा सः प्रत्याहारं साधयति । तेन विना सः धारणां कर्तुम् असमर्थः भवति ।

धारणा[सम्पादयतु]

देशबन्धश्चित्तस्य धारणा [३] इति पतञ्जलिमूनिना योगसूत्रे प्रतिपादितं वर्तते । बाह्ये उत शरीरे कुत्रापि एकस्मिन् स्थाने चित्तस्य केन्द्रीकरणम् एव धारणात्वेन परिगण्यते [२] । नाभिचक्रं, हृदयकमलम् इत्यादयः शरीरस्य आन्तरिकदेशाः सन्ति । आकाशः, सूर्यः, चन्द्रमाः, मूर्तिः, देवता इत्यादयः बाह्यदेशाः भवन्ति । एतयोः आन्तरिकबाह्यदेशयोः एकस्मिन् स्व चित्तस्य केन्द्रीकरणम् एव धारणा भवति । एकं पदार्थं मनसि संधार्य साधकस्य चित्तं तत्र केन्द्रितं भवेत् चेत्, मनसः सा स्थितिः धारणा उच्यते ।

धारणा मनसः विकासशक्तिः वर्तते । धारणया विना योगः सम्भवः न भवति । धारणायाः अर्थः संयमः अपि भवति । अतः धारणायां मनसः विचरणस्य स्थानं सीमितं, निश्चितं च भवति । धारणायां पञ्चतत्वधारणा योगसाधनायाः क्षेत्रे अति प्रसिद्धा प्रक्रिया वर्तते । तस्यां पञ्चतत्वधारणायां पृथ्वी-जल-अग्नि-वायु-आकाशेत्येतेषां पञ्चतत्वानां धारणा भवति [२]

ध्यानम्[सम्पादयतु]

स्वस्य आन्तरिकजीवनेन सह लयः, सामञ्जस्य स्थापनं च एव ध्यानम् उच्यते [२] । चेतनायाः विकासः, इन्द्रियाणाम् अतिक्रमणं च ध्यानेन एव भवतः । स्वस्य विस्मरणं, शून्यत्वं, पलायनं च कर्तुं ध्यानप्रक्रिया नास्ति । वस्तु-विषयकेन्द्रिताः मनसः याः अनुभूतयः भवन्ति, ताभ्यः अनुभूतिभ्यः ध्यानमार्गेण मनः उदासीनं भवति [२]

ध्यानं शरीरे अलौकिकीं गहनाम् अवस्थां निर्माति, यया शरीरस्य विभिन्नाङ्गानि भारमुक्तानि, रोगमुक्तानि च भवन्ति । निद्रावस्थायाम् अस्माकं मनः विश्रान्तिं प्राप्तुं न शक्नोति, यतो हि निद्रावस्थायाम् अस्माकं मनः स्वपनादीषु कार्येषु रतं भवति । ध्यानावस्थायां यदा मनः सम्पूर्णं लीनं भवति, तदा तत् विश्रान्तिं प्राप्नोति [२] । साधकः यदा ध्यानस्य एतादृशीम् अवस्थां प्राप्नोति, तदा सः घण्टात्रयस्य निद्रया अपि विश्रान्तिम् अनुभवति । ध्यानस्य असङ्ख्याकाः पद्धतयः सन्ति । तासु अत्र काश्चन निर्दिष्टाः ।

१. सङ्कल्पध्यानम्

२. श्वासध्यानम्

३. चिदाकाशध्यानम्

४. मन्त्रध्यानम्

५. अन्तर्मौनम्

६. अजपाध्यानम्

समाधिः[सम्पादयतु]

समाधिः मनुष्यजीवनस्य स्वाभाविकं लक्ष्यम् अस्ति । इन्द्रियाणां ज्ञानं न भवेत् इत्येव समाधिः [२] । समाधेः लक्षणं ज्ञानम् अस्ति । पूर्णज्ञानस्य अवस्था एव समाधिः उच्यते । प्रत्येकः मनुष्यः समाधेः अधिकारी भवति । समाध्यवस्थायां साधकः चेतनायाः परमबिन्दुपर्यन्तं गच्छति, तस्मात् बिन्दोः परं कापि चेतना न भवति । सा अवस्था चेतनायाः गहनतमः स्तरः भवति, यया साधकस्य व्यक्तित्वबोधः अपि समाप्तः भवति । समाध्यवस्थायां ज्ञानस्य अपि आवश्यकता न भवति । यतो हि समाधौ आत्मा एव वाहनरूपेण कार्यं करोति [२] । सा स्थितिः चित्तस्य समानतायाः, उन्नत्याः च स्थितिः भवति, यस्यां शान्तिः, शक्तिः, ज्ञानं च स्वतः आगच्छन्ति ।

यदा साधकः निरन्तरं साधनां कुर्वन् समाध्यवस्थायां ध्यानस्य गहनतां प्रति गच्छति, तदा सः द्वाभ्यां महत्वपूर्णस्थितिभ्याम् उपसृत्य गच्छति [२] । ते स्थिती चेतनानिषेधः, चेतनाविस्तारश्च ।

१. चेतनानिषेधः :- एतस्याम् अवस्थायाम् इन्द्रियाणाम् एकस्मिन् बिन्दौ अपकर्षः (निषेधः) भवति । एकवारम् इन्द्रियाणाम् अपकर्षणे जाते सति साधकः द्वितीयावस्थां प्रति गच्छति ।

२. चेतनाविस्तारः :- एतस्याम् अवस्थायां चेतनायाः आन्तरिकविस्तारः भवति । एतस्याम् अवस्थायां मनः प्रतीवकवत् भवति । समाधेः आस्वादनान्तरम् अपि साधकः सांसारिकं जीवनं यापयितुं शक्नोति । तस्य सम्मुखं यानि वस्तूनि, सम्बन्धाः च भवन्ति, तेषां विषयेषु साधकस्य दृष्टिकोणः परिवर्तितः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.ashtanga.com/

http://www.ashtangayoga.info/

http://www.ashtangayoga.info/practice/

http://kpjayi.org/

http://www.yogapoint.com/info/ashtanga.htm


सन्दर्भः[सम्पादयतु]

  1. १.० १.१ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला . दिव्य संस्कृति प्रतिष्ठान - देहली. p. १४. 
  2. २.०० २.०१ २.०२ २.०३ २.०४ २.०५ २.०६ २.०७ २.०८ २.०९ २.१० २.११ २.१२ २.१३ २.१४ २.१५ २.१६ २.१७ २.१८ २.१९ २.२० २.२१ २.२२ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. १५. 
  3. यो० सू०, पतञ्जलिः, १-१
  4. यो० सू०, पतञ्जलिः, १-२
  5. यो० सू०,पतञ्जलिः, ४-१
  6. ६.० ६.१ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला . दिव्य संस्कृति प्रतिष्ठान - देहली. p. १४. 
  7. योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. १८-२०. 
  8. योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. २१-२२. 
"https://sa.wikipedia.org/w/index.php?title=अष्टाङ्गयोगः&oldid=479936" इत्यस्माद् प्रतिप्राप्तम्