कैवल्यविचारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
योगशास्त्रस्य प्रणेता पतञ्जलिः

कैवल्यार्थमेव योगदर्शनस्य प्रवृत्तिर्भवति । अष्टाङ्गयोगस्य अभ्यासेन चित्तस्य स्थैर्योपरान्तमेव वैराग्यस्य उदयो भवति । वैराग्यस्य पश्चात् क्रमशः सम्प्रज्ञातः अथवा असम्प्रज्ञातः समाधिः प्राप्यते । समाधेरनन्तरं योगी साधको योगजसिद्धीनां दर्शनं करोति, किन्तु योगी तासाम् उपेक्षां कुर्वाणः कैवल्यं प्रति अग्रेसरो भवति । यतो हि योगजसिद्धयस्तु योगे विध्नरुपाः एव भवन्ति । तदनन्तरं विवेकज्ञानस्यापि बन्धकत्वात् स्त्वगुणः परिहीयते । तेनैव पञ्चक्लेशानां कारणानि नश्यन्ति । क्लेशकारणानि दग्धबीजानि इव यदा निरर्थकानि भवन्ति, तदा दुःखानाम् ऐकान्तिकी आत्यन्तिकी च निवृत्तिर्भवति । इयमेव कैवल्यावस्था वर्तते । अस्याम् अवस्थायाम् चिच्छक्तिः आत्मनः स्वरुपे अवस्थिता भवति । इदमेव कैवल्यं मुक्तिर्वा कथ्यते । योगशास्त्रं कर्मप्रधानदर्शनम् अस्ति । कर्माभावे समाधिः कैवल्यं च सम्भवं नास्ति । कर्मणां जननी अविद्याऽस्ति । कर्म चतुर्धा प्रतिपादितम् –कृष्णः, शुक्लकृष्णः शुक्लः अशुक्ल अकृष्णश्चेति । योगिनां कृते तस्यैव कर्मणः औचित्यं स्वीक्रियते येन तेषां नित्तवृत्तिः स्थिरा भवेत् । योगिनां कर्माणि अशुक्ल- अकृष्णानि भवन्ति फलस्वरुपं ते कर्मफलेषु आसक्ता न भवन्त्ति । न च ते निषिद्धानि कर्माण्येव कुर्वन्ति । अवशिष्टानि कर्माणि सामान्यप्राणिभिः आचरणीयानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कैवल्यविचारः&oldid=366646" इत्यस्माद् पुनः प्राप्तिः