अस्तेयम्
श्रीमदभगवद्गीता | |
---|---|
अस्तेयं नाम चौर्यकर्मणः निवृत्तिः । मनुष्यः धनाभावेन पीडितः लोभवशात् चौर्यकर्मणि प्रवृत्तो भवति । स्तेयकर्म अपि अनेकविधं भवितुम् अर्हति । केनापि अलक्षितं निभृतं कस्यापि धनादीनां हरणं चौर्यम् इति कथ्यते । सशस्त्रदलसाहाय्येन आक्रम्य पश्यतः सपरिवारस्य कस्यचिद् धनादीनां लुण्ठनं भवति द्वितीयः प्रकारः । तृतीय प्रकारः भवति तस्करकर्म नाम विधिनियमान् उल्लङ्घ्य शासनस्य कररुप्ं राजस्वम् अदत्वा मादकद्रव्यादिनिषिध्दवस्तूनां विदेशेभ्यः आनयनम् । सर्वाणि एतानि कर्माणि दण्डार्हाणि ।
आधुनिकन्यायव्यवस्थानुसारं कस्यापि अपराधः यावत् सप्रमाणं न सिध्यति तावत् स अपराधी इति न गण्यते । एवं व्यवहारतः चौर्थं न अपराधः, अपि तु तस्मात् निग्रहणम् अपराधः इति भवति आधुनिकी धारणा । एतावता केवलं विधिनियमाः दण्डभयं वा अपराधप्रवृत्तिम् अवरोध्दुं न क्षमाः ।
भारतीयधर्मानुसारं कस्यापि मनः प्रवृत्तिं संस्कृत्य अपराधनिवृत्तिः सुशका । यथा परद्रव्यं लोष्टवत् मन्तव्यम् । चौर्यकर्म पापावहम् इति उपदिश्यते ।क्षणमेकं मन्यामहे यत् तव कुकृत्यं न केनापि दृष्टम्, तथापि सर्वव्यापिना ईश्वरेण तु तद् अवलोकितम् एव । पापकर्मणः फलम् अस्मिन्नेव जन्मनि अथवा परस्मिन् जन्मनि भोक्तव्यम् एव स्यात् । इत्यादिभिः संस्कारप्रदैः उपदेशैः मनुष्यः पापकर्मतः विरन्तुं शक्नोति ।
अथा परोक्षरुपेणापि स्तेयकर्म अनुष्ठातुं शक्यते । यथा (१) देवैः मानवैश्च यज्ञद्वारा परस्परं भावयद्भिः श्रेयः अवाप्तव्यम् इत्युच्यते । किन्तु देवेभ्यः तेषां भागम् अदत्वा तैः दत्तं भागं यः भङ्क्ते स स्तेनः मन्तव्यः इत्युक्तं श्रीमदभगवद्गीतायाम् । तद्यथा –
- तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२ ॥
अथवा (२) मनुष्येण स्वर्जितात् धनात् कुटुम्बपोषणार्थं पर्याप्तं धनमेव स्वोपभोगाय प्रयोक्तव्यम् । शेषं जनताजनार्दनाय समर्पयितव्यम् । एवंरीत्या यः न व्यवहरति स स्तेनः इति अभिधानम् अर्हति । तत्रोक्तम्-
- यावद् भ्रियेत् जठरं तावत् स्वत्वं हि देहिनाम् ।
- अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ।
तथैव (३) वाङ्मयचौर्यमपि निषेधितं मनुना । तत्रोक्तम्-
- वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिः सृताः ।
- तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥४-२५६॥
यदि अहिंसा एवं सत्यम् इति प्रमुखौ सिध्दान्तौ अधिकृत्य विवादः समुत्पद्यते तर्हि अस्तेयम् इति तृतीयः सिध्दान्तः अपि विवादात् कथं मुक्तः स्यात् ? अथैकदा द्वादशवर्षपर्यन्तं महति दुर्भिक्षे आपतिते असह्यां यातनाम् अनुभवता महर्षिणाविश्वामित्रेण कस्यापि श्वपचस्य गृहात् मृतश्वानस्य जङ्घास्थिमांसं स्वप्राणरक्षार्थं चोरितम् । तद् दृष्ट्वा श्वपचः चौर्यकर्म तथा अभक्ष्यभक्षणम् अभिलक्ष्य विश्वामित्रं प्रबोधितुं प्रायतत् । तदा विश्वामित्रः ब्रूते-
- पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
- न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥ इति ।
एवं वाक्ताडनं कृत्वा अग्रे अवोचत् – जीवनं मरणाद् श्रेयो जीवन् धर्ममवाप्नुयात् । इति । यदि जीवनम् अवशिष्यते तर्हि एव धर्मविचारः सुशकः । अतः धर्मं विचार्य अपि मरणात् जीवनं श्रेयस्करम् इति । वस्तुतः केवलं जीवनधारणं न पुरुषार्थरुपेण प्रशस्तं विद्वद्भिः । तत्र केनापि सुभाषितकारेण उक्तम्-
- काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ।
अथवा वीरपत्नी विदुला माता स्वपुत्रम् अपदिशति-
- मुहूर्तं ज्वलितं श्रेयः न च धूमायितं चिरम् । इति ।
एवं केवलं जीवनधारणात् तेजस्विता प्रशस्ता तिष्ठति । परंतु आत्मनः कल्याणार्थं मनुष्यदेहः एव साधनम्, अतः ‘आत्मानं सततं रक्षेद् दारैरपि धनैरपि’ इत्यपि उपदेशः पठ्यते । संक्षेपेण निष्कर्षोऽयं निष्पद्यते यद् इमं दुर्लभं नरदेहं हुत्वा किमपि श्रेष्ठं शाश्वतस्वरुपं लक्ष्यं प्राप्येत चेत् तदा अलौकिकत्यागस्य अस्य सार्थकं स्यात् । राष्ट्रस्य धर्मस्य सत्यस्य यशसः आत्मसम्मानस्य परिरक्षार्थं यदि प्राणानाम् आहुतिः प्रदीयते तर्हि तद अभिनन्दनार्हं स्यात् । कस्मिन् प्रसङ्गे प्राणत्यागः श्रेयस्करः , कस्मिन् प्रसङ्गे असमीचीनः इति निर्णेतुं कार्याकार्यशास्त्रं विचारणीयं स्यात् । भीष्मः श्रीकृष्णं ब्रूते (म. भा. शान्ति. ५५-१६)
- समयत्यागिनो लुब्धान् गुरुनपि च केशव ।
- निहन्ति समरे पापान् क्षत्रियः स हि धर्मवित् ॥ इति ।
शिष्टाचारविरहितं लोभाविष्टं पापिनं गुरुम् अपि युध्दे यः क्षत्रियः हन्ति स एव परमार्थतः धर्मज्ञः इति कथ्यते ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]