कृष्णजन्माष्टमी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीकृष्णः
बालकृष्णः
कृष्णम् अलङ्कुर्वती माता यशोदा (राजारविवर्मणः चित्रम्)
दधिकुम्भभञ्जनस्पर्धा

श्रीकृष्णस्य जन्मोत्सवः कृष्णजन्माष्टमी इति आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः भारतस्य सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । कृष्णस्तु भगवान् स्वयम् दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।

सः एव आदिपुरुषः, परब्रह्मा, पुरुषोत्तमः । स्मृतिषु, पुराणेषु, इतिहासेषु, काव्येषु, प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः तं देवतानां परमं च दैवतम् इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-पशु-पक्षि-वृक्ष-वनस्पत्यादीन् अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, महाभारतस्य सूत्रधारः, महावीरः, धर्मप्रभुः, धर्मनिरतानां पाण्डवानां बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, गीतोपदेशं कृतवान् योगाचार्यः श्रीकृष्णः


श्रीकृष्णः श्रावणमासे जातः इति कुत्रचित्, भाद्रपदमासे इति अन्यत्र, सिंहमासे इति अपरत्र उक्तम् अस्ति ।

भाद्रपदमासस्य कृष्णपक्षस्य अर्धरात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणीनक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम् इति श्रीकृष्णः एव अवदत् इति भविष्योत्तरपुराणं वदति ।
अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥ इति हरिवंशे उक्तम् अस्ति ।
प्राजपत्येन संयुक्ता अष्टमी सा यदा भवेत् । श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ।। इति वदति स्कान्दपुराणम्
अष्टम्यां तिथौ रोहिणीनक्षत्रे अर्धरात्रसमये जातः इत्ययम् अंशः सर्वसम्मतः अस्ति ।

जन्माष्टम्यां पूजाकर्तारः अर्धरात्रसमये एव पूजाम् आचरन्ति । मध्यरात्रपूजा एव प्रशस्ता इति । अशक्ताः अर्धरात्रितः पूर्वं वृषभलग्ने अपि पूजाम् आचरन्ति । सिंहराशि-अष्टमीतिथि-रोहिणीनक्षत्र-बुधवासर-हर्षणयोग-कौलवकरणयुक्तायाम् अर्धरात्रौ चन्द्रोदयावसरे वृषभलग्ने कृष्णाष्टमीपूजा क्रियते । अस्मिन् दिने पूजाकर्तारः उपवासम् आचरन्तः सायं पुनरपि स्नात्वा अह्निकादिकं समाप्य श्रीमद्भागवतस्य, हरिवंशस्य, विष्णुपुराणस्य, भगवद्गीतायाः वा पारायणं कुर्वन्ति । अनन्तरम् उपर्युक्ते श्रीकृष्णजन्मसमये सम्प्राप्ते षोडशोपचारपूजां कुर्वन्ति । नैवेद्यार्थम् अपि भक्ष्य-भोज्य-चोष्य-लेह्य-पानीयसहितं षड्रसोपेतं शास्त्रीयं सर्वविधं पदार्थं समर्पयन्ति । पूजार्थमपि शास्त्रीयाणि सर्वविधफल-पुष्प-पल्लव-तोरणानि भवन्ति । विशेषतया गोक्षीरं, क्षीरान्नं, परमान्नं, गुडयुक्तपृथुकं, नवनीतं, शुण्ठिगुडमिश्रणं च समर्पयन्ति । वेदमन्त्रैः, शास्त्रवाक्यैः, इतिहासपुराणसूक्तिभिः, अष्टोत्तरशत-सहस्रनामभिः, स्तोत्रैः, गीत-नृत्यैः आराधयन्ति ।

अर्घ्यप्रदानम्[सम्पादयतु]

क्षीरोदार्णवसम्भूत ह्यत्रिनेत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सह्तः शशिन् ॥
आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम् ।
तत्प्रणाशाय गोविन्द प्रसीद पुरुषोत्तम ।
इति वदन्तः अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जागरणं कृत्वा अनन्तरदिने प्रातः नित्यकर्मणाम् अनन्तरं श्रीकृष्णस्य उत्तराराधनं कृत्वा ब्राह्मणभोजनं कारयित्वा स्वर्ण-गो-वस्त्रादीनां दानं कुर्वन्ति । कुत्रचित् देवक्याः प्रसवगृहम् प्रकल्प्य तत्र पूर्णकुम्भम्, आम्रपर्णानि, पुष्पाणि, धूपदीपादिकं संस्थापयन्ति । प्रकोष्ठस्य भित्तिषु देवगन्धर्वाणां, वसुदेवदेवकी-नन्दयशोदादीनां, गोपिकानां, कंसस्य रक्षकभटादीनां, यमुनानद्याः, कालियस्य अन्येषां नागानां, गोकुलस्य इतरासां घटनानां च चित्राणि लिखन्ति । मध्याह्ने तिलजलेन वा महातीर्थेन वा स्नान्ति । मध्यरात्रसमये सङ्कल्पपूर्वकं मन्त्रसहितं शय्यायां शयितौ देवकीकृष्णौ कल्पयन्ति । अनन्तरं स्वर्णस्य वा रजतस्य वा विग्रहे प्राणप्रतिष्ठां कृत्वा भगवतः जातकर्म नामकरणादिकं कुर्वन्ति । चन्द्रोदयावसरे रोहिणीसहिताय चन्द्राय अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जागरणं कृत्वा अपरस्मिन् दिने प्रातः श्रीकृष्णस्य उत्तराराधनं कृत्वा दानादीन् विधीन् निर्वहन्ति ।

सर्वत्रापि कृष्णाष्टम्यवसरे सार्वजनिकरूपेण दधिकुम्भभञ्जनस्पर्धां, कृष्णवेषस्पर्धां, भगवद्गीतायाः वा कृष्णस्तोत्राणां वा कण्ठपाठस्पर्धां, शोभायात्रां च आयोजयन्ति ।

"http://sa.wikipedia.org/w/index.php?title=कृष्णजन्माष्टमी&oldid=262231" इत्यस्माद् पुनः प्राप्तिः