काव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
साहित्यग्रन्थकारकृतिकालपरिमाणपरिचयः

काव्यं (Kavyam) इत्येतत् साहित्यप्रकारः अस्ति । कवेः कर्म काव्यम् । कविः तु दार्शनिकः । काव्यस्य परिभाषाः अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति वाक्यं रसात्मकं काव्यम् इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। रस, छन्दोभिः अलङ्कारैः युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते । कवितायाः (Kavita) परिभाषाऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति वाक्यं रसात्मकं काव्यम् अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता इति कथ्यते। रस,छन्द।छन्दालंकारैः युक्ता कविता आनन्दोत्पत्तिं करोति। महात्मना तुलसीदासेन उक्तं यत् ---कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।। अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् काव्यं साहित्यं कथ्यते। आनन्दो वै काव्यम् अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति।

काव्यग्रन्थानां प्रकाराः[सम्पादयतु]

काव्यशास्त्रप्रणाल्यां मुख्यतः षड् विधा ग्रन्था दृश्यन्ते। काव्यसर्वाङ्गविवेचकाः, कव्यालङ्कारमात्रविवेचकाः, ध्वनिसम्बद्धाः (समर्थकाः, विरोधिनः), रससम्बद्धाः, नाट्यसम्बद्धाः, विचारग्रन्थाः च।

दण्डिनः काव्यादर्शः, वामनस्य काव्यालङ्कारसूत्रवृत्तिः, रुद्रटस्य काव्यालङ्कारः, भोजस्य सरस्वतीकण्ठाभरणं, कुन्तकस्य वक्रोक्तिजीवितं, मम्मटस्य काव्यप्रकाशः, हेमचन्द्रस्य काव्यनुशासनम्, वाग्भटस्य वाग्भटालङ्कारः, वाग्भटस्य काव्यानुशासनम्, मलयजपण्डितस्य साहित्यसारः, जयदेवस्य चन्द्रालोकः, विश्वनाथस्य साहित्यदर्पण:, जगन्नाथस्य रसगङ्गाधरः काव्यसर्वाङ्गविवेचकाः ।

उद्धटस्य काव्यालङ्कारसङ्ग्रहः, अजितसेनस्य अलङ्कारचूडामणिः, राजराजस्य राजराजीयं, धर्मदासस्य विदग्धमुखमण्डनं, शोभाकरस्य अलङ्काररत्नाकरः, अप्यदीक्षितस्य कुवलयानन्दश्चित्रमीमांसा च विश्वेश्वरस्य अलङ्कारकौस्तुभः अलङ्कारप्रदीपः, अलङ्कारमुक्तावली च, नरसिंहाचार्यस्य अलङ्कारेन्द्रशेखरः, केशवस्य अलङ्कारशेखरश्चालङ्कारमात्रसम्बद्धग्रन्थाः।

आनन्दवर्धनस्य ध्वन्यालोकः, पुञ्जराजस्य ध्वनिप्रदीपः, मम्मटस्य शब्दव्यापारविचारः, अप्पयदीक्षितस्य वृत्तिवार्तिकञ्चेति ध्वनिसम्बद्धग्रन्थाः । भट्टनायकस्य हृदयदर्पणः, महिमभट्टस्य व्यक्तिविवेकः, मुकुलभट्टस्याभिधावृत्तिभर्तृका च ध्वनिपरिहारग्रन्थाः ।

रुद्रभट्टस्य शृङ्गारतिलकं, भानुदत्तस्य रसमञ्जरी, रसतरङ्गिणी च, शिवरामत्रिपाठिनो रसरत्नहारश्च रसमात्रसम्बद्धग्रन्थाः।

भरतस्य नाट्यशास्त्रं, धनञ्जयस्य दशरूपकं, सागरनन्दिनो नाटकलक्षणरत्नकोशः, रामचन्द्रगुणचन्द्रयोर्नाटयदर्पणः, विद्यानाथस्य प्रताप्ररुद्रयशोभूषणं, शारदातनयस्य भावप्रकाशनम्, रूपगोस्वामिनो नाटकचन्द्रिका च नाट्यग्रन्थाः ।

रुद्रटस्य सहृदयलीला, क्षेमेन्द्रस्य कविकण्ठाभरणं, सुवृत्ततिलकमौचित्यविचारचर्चा च, राजशेखरस्य काव्यमीमांसा, अरिसिंहामरचन्द्रयोः काव्यकल्पलता, देवेश्वरस्य कविकल्पलता, विश्वेश्वरस्य कवीन्द्रकणभरणं रामानन्दस्य रसिकजीवनं च विचारग्रन्थाः।

सम्प्रदायाः[सम्पादयतु]

रस-अलङ्कार-रीति-ध्वनि-वक्रोक्ति-औचित्याख्याः षट् काव्यशास्त्रसम्प्रदायाः क्रमेण भरत-भामह-वामन-आनन्दवर्धन-कुन्तक-क्षेमेन्द्रसमर्थिताः । तत्र रससम्प्रदायो हि काव्ये इतरतत्त्वोपेक्षयाऽपि रससिद्धिं वाञ्छति । "वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्" इत्यस्य मार्गः । यद्यपि कमनीयमपि वपुः श्वित्रेणैकेन दुर्भगं भवति तथापि गुणसन्निपाते स्वल्पो दोषो न सङ्ख्यानाय भवति । सत्यपि सौन्दर्ये सर्वेषामेवाङ्गानां संयुक्तशक्तौ यथा तत्र वदनस्यैव प्रधान्यं भवति तथैव काव्यं हि रसगुणालङ्काररीतिप्रभृतिसंस्कृतशब्दार्थयोरेव भवति, किन्तु तत्र जीवतत्त्वं तु रस एव । गुणा हि रसस्यैव धर्माः, अलङ्कारा अपि तस्यैव शोभातिशयहेतवः । रीतयोऽपि तस्यैव साधिकाः।

अलङ्कारसम्प्रदायानुसारेण अलङ्कृतावेव शब्दार्थौ काव्यं न तु तद्धीनौ। न कान्तमपि निर्भूषं विभाति कामिनीमुखम् । निरलङ्कृतशब्दार्थयोः काव्यत्वमनुष्णस्यानलत्वमिव ।

रीतिवादनो हि पदरचनाकौशलमेव काव्यस्य जीवतत्वं मन्यन्ते, विशिष्टपदरचना रीतिः । वैशिष्टयञ्च गुणात्मकतया।

ध्वनिप्राधान्यवादिनां मते ध्वनिरेव काव्यस्यात्मा। तस्य हि शब्दार्थौ शरीरं गुणा हि काव्यात्मनो ध्वनेर्धर्माः, अलङ्कारास्तु भूषणान्येव; रीतिरपि तस्यैव निर्वाहिका।

वक्रोक्तिवादिनां मते वैचित्र्यभङ्गिभणितिरेव काव्यस्यात्मा । इतराणि तु तस्याङ्गान्येव।

औचित्यवादिमते सर्वेषामेव समन्वितमौचित्यमेव काव्यस्य साधकं भवति । अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।

वस्तुतस्तु विभागोऽयं न पारमार्थि कोऽपि तु केवलमोपाधिक एव । रसत्वं काव्यात्मकत्वं न हि कोऽपि परिजिहीर्षति । रस एव काव्यस्य जीवितं गुणालङ्काररीतयस्तु तदुत्कर्षहेतव एव । अलङ्कारा अपि रसमेवालङ्कुर्वन्ति किञ्चात्मैवालङ्कार्यो भवति । रीतिवादिनां मतेऽपि पदरचनाया वैशिष्ट्यं गुणात्मकयैव । गुणाश्च रसस्यैव धर्मा इति रससाधकस्यैव रचनाविशेषस्य काव्यत्वं भवति । वक्रोक्तेरपि साध्यं तु रस एव । ध्वनिरपि यद्यपि वस्त्वलङ्काररूपोऽपि भवति तथापि तस्य काव्यात्मत्वं रसापेक्षयैव भवति । तेन हि पर्यवसायितया रसादिध्वनेरेव काव्यात्मत्वं सिध्यति । नितान्तानौचित्ये हि न रससिद्धिः । अत एव साम्प्रदायिकविभागः केवलमौपाधिकः । रस एव काव्यस्यात्मा।

kabyavimarsha

काव्यलक्षणम्[सम्पादयतु]

मम्मटादयैः काव्यलक्षणम् उपस्थापितमस्ति। [१] [२] [३] [४] [५] [६] [७] [८] [९]

काव्यप्रयोजनम्[सम्पादयतु]

काव्यप्रयोजनम्

काव्यविभागाः[सम्पादयतु]

काव्यतत्वानि[सम्पादयतु]

अधोनिर्दिष्टानि काव्यतत्वानि

  1. काव्यगुणाः
  2. रीतिः
  3. काव्यपाकः
  4. अलङ्काराः
  5. काव्यदोषाः

इमान्यपि दृश्यताम्[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काव्यम्&oldid=481487" इत्यस्माद् प्रतिप्राप्तम्