रीतिसम्प्रदायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



रीतिशब्दः रीङ्धातोः निष्पन्नः । रीङ्गताविति काव्येषु रीतिशब्दो मार्गशब्दस्य पर्यायो विद्यते । महाराजेन भोजेनाप्युक्तम् –

वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः ।
रिङ् गताविति धातोः साव्युत्पत्त्या रीतिरुच्यते ॥

व्याख्यायाञ्च रीयन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्यायः । रीतिसम्प्रदायस्य प्रधानपुरुषो वामनोऽस्ति । स रीतेः स्पष्टीकरणमेवमकरोत् विशिष्टा पदरचनारीतिः, विशेषो गुणात्मा परं रीतिर्गुणावलम्बत्वेव गृह्यते । अत एव पूर्वं गुणविषयमवलम्ब्यैव विहङ्गमदृष्टया किञ्चित्प्रतिपादनीयम् । अग्न्पुराणेगुण विषये –

अत्न्ङ्कतमपि प्रीत्यै न काव्यं निगुर्णं भवेत् ।
वपुण्यललिते स्त्रीणां हारोभारायते परम् ॥ इति प्रतिपादितम् ।

आचार्यवामनेनापि

यदि भवति वचश्च्युतं गुणेभ्यो वपुरिवयौवनबन्ध्यमङ्गनायाः ।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥
इति प्रतिपादितम् ।

काव्येषु गुणानां किं स्थानमिति विषयमवलम्ब्य यद्यपि बहूक्तं तथापि काव्यप्रकाशकारेण मम्मटभट्टायार्येण यदुक्तं तदेव साम्प्रतं सर्वैः शिरोभिरुहयते । तच्च –

येरसस्याङ्गिनो धर्माः शौर्यांदय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचत्नस्थितयो गुणाः ॥ इति ।

गुणानां संख्या विषये नास्ति मतैक्यम् । भरतमुनिना दशगुणाः स्वीकृताः । अग्निपुराणे एकोनविंशतिर्गुणाः वामनेन च विंशतिः । रीतिश्च गुणाश्रिताः अतो रीतिविषयेऽपि तथैव विप्रतिपतयः सन्ति । यथा गुणानां संखाविषये नास्त्यैक्यं तथैव रीतिसंख्या विषयेऽपि नाद्यावधि निश्चित पन्थाः । अग्निपुराणे वैदर्भी गौडी पाञ्चालीलातीचीति चतस्रो रीतयः प्रतिपादिताः सन्ति । भामहेन केवलं गौडीवैदर्मी च रीतिद्वयमङ्गीकृतम् । परमुभयोरपि कियान्मेद इति न परिगणितः । दण्डी काव्यस्य यद्यप्यनेकान् मार्गान् स्वीकरोति परं तेषां नामोल्लेखं कृत्वैव वैदर्भीगौडीरीतेश्च प्राधान्यं स्वीकरोति । दण्डिना श्लेषादीनां दशगुणानां परिस्पन्दनं वैदर्भिरीतावेव स्वीकृतम् । वामनेन वैदर्भीगौडी पाञ्चाली चेति तिस्रो रीतयः स्वीकृताः । वैदर्भीरीतावेव स्वीकृतदशशब्दगुणानां, गौड्रीतावोजकान्तयोः पाञ्चाल्याञ्च माधुर्यसौकुमार्ययोः स्थितिरङ्गीकृताः ।

रुद्रटेनाग्निपुराणान्तर्गतव्याख्यानुरुपमेव वैदर्भीगौडीपाञ्चालीलाटी चेति चतस्त्रे रीतयः स्वीकृताः । राजशेखरश्च वामनानुरुपमेव तिस्रो र्तयः स्वीचकार । भोजराजेन षड्रीतय मम्मटेन रीतेः स्थाने उपनागरिका परुषा कोमलेति तिस्त्रो वृत्तयः स्वीकृताः ।

एतासां रीतीनां नामानि तत्तत्प्रान्तवर्तिभिः कविभिः शैल्यङ्गीकार्यत्वेन स्वीकृतानि । यथा दण्डिना प्रतिपादितम् । एवमेव वामनेन च – "विदर्भादिषु दृष्टत्वात् तत्समाख्ययो” । इति स्वीकृतम् । अत वैदर्भ (वरण्ड) प्रान्तीयाः वैदर्भी, गौड (पूर्वप्रान्तीयाः) गौडी, पाञ्चाल (पञ्जाब) प्रान्तीयाः पाञ्चाली लाट् (गुर्जरप्रान्तीयाः) लाटी, अवन्ति (मालव) प्रान्तीयाः आवन्ती मगध्धप्रान्तीया च मागध्ति प्रान्तविभागतया रीतीनां नामानि स्वीक्रियन्ते । यां रीतिं वामनः काव्यस्यात्मानं स्वीकरोति तामेव र्तिं रचनाशैलीं स्वीकुर्वता तस्य सिध्दान्तः कीदृगौचित्यं विभर्तीति विज्ञैर्विभावनीयम् ।

यद्यपि रीतिगुणयोर्निरुपणमग्निपुराणेऽप्यास्ति तथापि सम्प्रदायस्यास्य प्रधानं वामन एव स्विक्रियते । यतस्तेनैव रीतेः स्थानं काव्येष्वत्यादरेणाङ्गी कृतम् । रीतिरात्मा काव्यस्येति । परं यदा सूक्ष्मेक्षिकया निरीक्ष्यते तदा सर्वाऽप्ययं सिध्दान्तो न तर्ककर्कशशैलीं स्वीकर्तुं समर्थः । येन च ध्वन्यालोककारेण ध्वनिप्रतिपादनावसरे मम्मटभट्टेन च काव्यप्रकाशे भर्सितोऽयं मार्गः । तयोर्हिकथनमस्ति पद्यपि गुणाः आहोस्वित रीतयः काव्यस्य आत्मत्वेन स्वीक्रियन्ते चेतदैभिरङ्गीकृतं काव्यमेव काव्यं स्यात्परं नास्ति तत्र गुणानां रीतीनां च संख्या विषये मतैक्यम् । तर्हि सर्वे गुणाः सर्वाश्च रीतयः काव्यात्मत्वेन स्वीक्रियन्ते, आहोस्वित कलिचन् । यदि सर्वेगुणाः काव्यस्यात्मत्वेमाङ्गीक्र्यन्ते चेत्तदा गौडी रीतौ, पाञ्चालीरीतौ च गुणद्वयमेव । तदा सर्वेषां गुणानां अभावत्वात् काव्यत्वं न स्यात् । यदि केचन गुणा एव काव्यत्वेन स्व्क्रियन्ते, चेत्तदा यत्र केवलमोज एव भविष्यति रसादयोन स्युस्तदपि युष्माकं मते काव्यत्वं स्यात् । येनच “ अद्रावत्रप्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुलसत्येषधूम" इत्यादिषु स्थलेषु अप् काव्यत्वं स्थात् । अत एवैतानि सर्वाणि वस्तूनि विलोक्यैव मम्मटेन काव्यस्यात्मा रीतिः कथमपि भवितुं नार्हतीति प्रतिपादितम् । अतः केवलं रीतिमेवाङ्गीकृत्य न काव्यस्य काव्यत्वम् । परमेतत्तु अवश्यमेव स्वीकृतं वाग्देवतावतारेण यदलङ्कारापेक्षया काव्येषु गुणानां महतरं स्थानं चकास्ति । यद्यपि काव्यमीमासायां प्रतिपादितेन "इति वामनीयाः” इति वाक्येन प्रतिभाति यदन्येऽपि वामनमतानुयायिनः सन्ति । परमुपलब्धग्रन्थेषु मुकुलभट्ट एव वामनमतानुयायि प्रतीयते । यथा काव्यालङ्कारसूत्रस्य व्याख्यायां सहदेवेनापि तत्रोक्तम् –

वेदिता सर्वशास्त्राणां भट्टोऽभून्मुकुलाभिधः ।
लब्ध्वा कुतश्चिदादर्शं भ्रष्टाम्नायं समुध्दतम् ॥
काव्यालङ्कारशास्त्रं यत्तेनैतद्वामनोदितम् ।
असूया तन्न कर्तव्या विशेषालोकिभिः क्वचित् ॥

एभिर्वाक्यैः स्पष्टमेव परिलक्ष्यते यत् वामनीयरीति सिध्दान्तः प्रारम्भिकावस्थायामेव शैथिल्यम्भजत् । यदि वामनस्यानुयायिनः केचन आसन् त्तेऽपि मम्मटभट्टस्य प्राक्तना एवुयदा मम्मटेन वामनस्वीकृत-सिध्दान्तः समालोचित स्तदाऽस्य रीतिसिध्दान्तो लुप्रुप्राय एवासीत् । यतस्तदनन्तरं न कोऽपि विद्वान् दृष्टिपथमवतरति यः सिध्दान्तम्नमङ्गीकृत्य किञ्चिदवर्णयेत् । मन्ये हिन्दी साहित्ये रीतिकालीन कवयः रीतिसम्प्रदायं स्वीकृत्यैव सर्वमपि स्वकीयं साहित्यं निर्मितवन्तः, परं संस्कृत साहित्ये त्रयोदशशता द्यनन्तरं न ह्यस्य सिध्दान्तस्य सत्कारः सञ्जातः । न घ केनापि आलङ्कारिकेन काव्यस्यात्मा रीतिरङ्गीकृता । अपितु केवलं शरीर्सघटनात्मकं तत्वमेवेतत्स्वीकृतम् । यद्यपीयं रीतिपरम्परा बहुकालं यावत्प्रचलिताऽभूत परन्न तथा यथा वामनेनाङ्गीकृताऽऽसीत् । साहित्यदर्पणकारेण “ वाक्यं रसात्मकं काव्यमिति कथयता रीतेः खण्डनं कृतम् । तेन च शब्दार्थै तावच्छरीरं रस आत्मा, गुणा शौर्यादयः अलङ्काराः कुण्डलादिवद्दोषाः काणत्व – खञ्जत्वादिवत् , रीतिरवसंस्थानविशेषवत् एवं स्वीकृतम् ।

अतः एभिर्वाक्यैः स्पष्टमेव परिलक्षितं भवै यन्न हि शरीरस्य सघटनात्मकं तत्त्वं काव्यात्मत्वेन स्वीक्रियते । आत्मा तु स एव पदार्थः प्रोऽखण्डोऽरुपोनिर्देषिश्च स्यात् । आत्माविषये तैस्तैदार्शिनिकैरन्यैश्चाचायैः यत्किञ्चिदपि प्रतिपादितं तदेव सर्वैरपि स्वीकरणीयम् । अतोऽयं रीति सम्प्रदायो यदा सूक्ष्मेक्षिकया समालोच्यते तदा माप्रगपि न रोचते विद्वद्भ्यः ।

1 प्रस्तावना।
महत्त्वपूर्णम् इदं प्रस्थानम्।ध्वनिमतएन उदितेन अन्यानि मतानि अपसारितानि। रीतिमतस्य अपि सा एव दशा जाता।परम् अधुना यानि प्रस्थानानि संस्कृतकाव्ये विद्वद्भिः विचार्यन्ते तेषु रीतेः स्थानं विद्यते एव।
2 सङ्क्षेपतः इतिहासः।
अ) भरतात् प्राक्कालीनाः रीतिप्रतिपादनपराः ग्रन्थाः न उपलभ्यन्ते।तथापि रीतिमतस्य पुरस्कर्ता वामनः स्वग्रन्थे बहूनि पूर्वसूरिणां वचनानि उद्धरति।तानि भरतग्रन्थे न सन्ति। अतः इदं तर्क्यते यद् भरतात् पूर्वम् अपि रीतिविचारः आसीत्।
आ)भरतेन रूपकविषयाः मार्गाः प्रोक्ताः,गुणाः अपि प्रोक्ताः।तदानीं पृथग् गुणः एव सौन्दर्यहेतुः मतः।
इ) दण्डिनः काले नैकानां गुणानां मेलनं कृत्वा मार्गाः निर्मिताः।यथा वैदर्भमार्गः गौडमार्गः च। दण्डिना 10 गुणाः प्रोक्ताः।ते सर्वे यत्र सन्ति, सः वैदर्भमार्गः।तेभ्यः न्यूनसङ्ख्यया गुणाः यत्र सन्ति, सः गौडमार्गः।अत्र गुणानां समुदायस्य प्रभावः न चिन्तितः।
ई) वामनेन गुणानां समुदायप्रभावः रीतिनाम्ना ख्यापितः।
उ) वामनोत्तरं यदा ध्वनिमतमुदितं तदा रीतिमतमवसन्नम्।
ऊ) कुन्तकेन तस्य वक्रोक्तिप्रस्थाने रीतिमतस्य ईषत्पुनरुज्जेवनं कृतम्।

3 सङ्क्षेपतः रीतिमतम्।
रीतिरात्मा काव्यस्य। विशिष्टापदरचना रीतिः।विशेषो हि गुणात्मा। - वामनः। वामनः प्रथमः शास्त्रज्ञः येन काव्ये आत्मतत्वं विचारितम्।तस्य मते पृथग्गुणजन्यशोभातः गुणमेलनजन्या शोभा विशिष्टा उत्कृष्टा च।पृथग्गुणः--- पृथक्शोभा। गुणमेलनम्---पृथक्शोभानां मेलनम्+गुणमेलनजन्या शोभा।इत्थं सम्मेलनशोभा प्रतीयते, तस्य हेतुः रीतिः।एवं वामनेन गुणानां समुदायप्रभावः सुष्ठु प्रतिपादितः।

4 गुणविचारः - रीतेः आधारभूताः गुणाः।अतः रीतिप्रतिपादनावसरे तेषाम् अपि प्रतिपादनम् आवश्यकम्।दण्डिना 10 गुणाः प्रोक्ताः।वामनेन सा सङ्ख्या वर्धिता।तदर्थं पूर्वोक्तानां 10-गुणानां प्रत्येकं द्विधा भेदः कृतः - शब्दगुणः अर्थगुणः च इति।एतादृशेन गुणप्रतिपादनेन अन्य्यानि अपि कानिचन काव्यतत्त्वानि गुणे अन्तर्भूतानि यथा -
1 कान्तिगुणे रसानां समावेशः भवति।
2 समाधिगुणे वाच्यादीनाम् अर्थभेदानां समावेशः भवति।
3 माधुर्यगुणे अलङ्कारभेदानां समावेशः भवति।
वामनस्य प्रतिपादने अतिव्याप्त्यव्याप्त्यादयः दोषाः सन्ति, तथापि दण्डिकृतगुणवर्णनस्य अपेक्षया वामनकृतगुणवर्णनं विस्तृतं सुग्रथितं च।वामनमते रीतिप्रयोजकः गुणः।सः च रीतौ (काव्यस्य आत्मनि) वर्तते।शब्दार्थौ काव्यशरीरम्। अलङ्काराः शरीरे वर्तन्ते।गुणाः नित्याः, अलङ्काराःअनित्याः।

4 भामहमतेन रीतिः।
भामहः अलङ्कारमतस्य पुरस्कर्ता।‘ काव्यं ग्राह्यमलङ्कारात् 'इति तस्य मतम्।अतः सालङ्काराः गौडी रीतिः निरलङ्कार-वैदर्भरीतेः वरा इति तस्य मतम्। निरलङ्कारा रीतिः न शोभते।अतः एव रीतिः कापि भवतु तत्र अलङ्काराः एव प्रधानाः।

5 ध्वनिमतेन रीतिः।- ध्वनिमते वामनकृता गुणरीतिपरिभाषा न स्वीकृता।स्वकीया परिभाषा दत्ता।तया परिभाषया एव गुणरीत्योः ध्वनिमते व्यवस्था कृता।सा व्यवस्था ईदृशी- द्रुति-दीप्तिविस्तार-व्याप्तिरूपाः दशाः रसानुभूतिकाले अवश्यं जायन्ते।तत्र- गुणरीत्योः ध्वनिमते समन्वयः एवं भवति -

1 गुणाः वस्तुतः रसधर्माः।
2 रीतिः पदधर्मः यतः सा पदसङ्घटनरूपा। 3 रीतिः (पदसङ्घटनं) गुणानुरूपम् एव भवितुम् अर्हति।सा यदा तथा अस्ति तदा गुणव्यञ्जका भवति। तदा एव सा शोभते।
4 यत्र गुणनिरपेक्षा रीतिः भवति, तत्र सा गुणव्यञ्जका न भवति।
5 यदि गुणाः रसधर्मत्वेन न अङ्गीक्रियन्ते, तर्हि रीतितः (पदसङ्घटनतः) एव तेषां यथाकथचिद् व्यवस्था करणीया।यथा - 'वर्णयोजना मधुरा’ इति । परं नैषा गुणानां वास्तविकी व्यवस्था। गुणाः रसधर्माः एव भवितुमर्हन्ति।

6 रीतिमतस्य अवनतिः पुनरुज्जीवनं च। अ) ध्वनिमते उदिते, तत्र च रीतेः समन्वये जाते स्वतन्त्रं रीतिमतं तिरस्कृतम्।
आ) गुणाः रीतिप्रयोजकाः। परं ध्वनिकारेण विंशत्याः गुणानां स्थाने त्रयः एव गुणाः स्वीकृताः। तेन रीतेः आधारभूमिः सङ्कुचिता।
इ) 'गुणानां समुदाये काचन अन्या एव शोभा समुल्लसति। सा च शोभा पृथक्पृथग्गुणजन्यशोभाभ्यः भिन्ना अतिशयिता च' इति वामनस्य रीतिमतस्य आधारभूतः आशयः।सः तु ध्वनिकारेण प्रत्युक्तः।‘यथा जातिर्जातिमतो नान्या, समुदायश्च समुदायिनो नान्यः तथैव रीतयः न गुणालङ्कारव्यतिरिक्ताः।’ - आनन्दवर्धनः।
ई )वक्रोक्तिप्रतिपादकेन कुन्तकेन त्रयः मार्गाः प्रोक्ताः - सुकुमार-मध्यम-विचित्ररूपाः।वामनोक्ताः वैदर्भ-गौड-पाञ्चालरीतीनाम् एषु मार्गेषु समावेशः भवति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रीतिसम्प्रदायः&oldid=438367" इत्यस्माद् पुनः प्राप्तिः