पाञ्चालः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

पाञ्चालदेशः कुरुदेशस्य पूर्वभागे आसीत् । गङ्गानद्याः मध्यभागे तथा पर्वतप्रदेशे च व्याप्तः आसीत् पाञ्चालदेशः । इदानीन्तन-बुदाव्न-फरूकाबाद्-उत्तरप्रदेशस्य केषुकित् भागेषु व्याप्तः आसीत् पाञ्चालदेशः । उत्तरपाञ्चालदेशस्य राजधानी आसीत् आधिछात्रम् अथवा छत्रावतीनगरम् । इदानीन्तनबरेलीजनपदस्य रामनगरम् । दक्षिणपाञ्चालस्य राजधानी आसीत् कम्पिलनगरम् । इदानीन्तनफरूकाबाद्जनपदस्य कम्पिल्यानगरम् । सुप्रसिद्धं कन्याकुब्जनगरम् (कनौजनगरम्) अपि पाञ्चालराज्ये एव आसीत् । आरम्भकाले पाञ्चालराज्ये राजानां शासनम् एव आसीत् । कालान्तरे ते क्रि पू ५-६ शतके प्रजातन्त्रस्य अनुसरणम् आरब्धवन्तः । कौटिल्यस्य अर्थशास्त्रम् अपि ते राजशब्दोपजीवनाख्यं संविधानम् (राजप्रभुत्वम्) अनुसरन्ति स्म इति वदति ।

"https://sa.wikipedia.org/w/index.php?title=पाञ्चालः&oldid=366132" इत्यस्माद् प्रतिप्राप्तम्