काव्यदोषाः
शब्द- अर्थ –गुण् –रीति –वृत्ति –अलङ्कार – रस भावादीनां काव्यसमाग्रीशब्देन व्यवहारो भवति । शब्दादीनां निर्दोषत्वे एव काव्यस्य परमप्रयोजनभूतं रसानन्दं साधयितुं ते प्रभवन्ति । दीपस्य समीपे अधोदेशे यथा छाया समाक्रम्य तिष्ठति, तथा सर्वान् काव्यांशान् आवृत्य दोषाः प्रवर्तन्ते प्रायशः । तान् दोषान् सर्वान् अपनुद्य काव्य मनवद्यं विधातुं दोषाणामपि स्वरुपं परिपूर्णतया वेदितव्यं भवति । प्राचीनाः केचिदालङ्कारिकाः, अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम् इति काव्यलक्षणं व्याचख्युः । तेषां मते गुणसाहित्यमिव दोषराहित्यमपि काव्येऽवश्यमपेक्षितमस्ति । दण्डी तु –
- तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन ।
- स्याद्वपु स्सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥
इत्युक्त्वा काव्ये दोषाणामल्पानामपि स्थानं नास्तीति समुद्घोषयत् । अयमतिवाद इवाभाति । यतस्तादृशं काव्यमलभ्यमेव स्याद्यत्र दोषलेशस्पर्शाऽपि न भवेत् । महाकविनामपि काव्येषु तत्र तत्र दोषलेशा स्संदृश्यन्त एव । तावन्मात्रेण तानि महाकाव्यान्यकाव्यानीति वक्तुं न शक्यते । तेषु काव्येषु दोषमल्पमाच्छादयितुं समर्थं रसवत्त्वमपि सन्निहितमवश्यं भवेत् । ततश्च ये दोषा रसस्यापकर्षं साधयितुमसमर्थाः ते दोषा काव्यत्वमपि नाशयितुमसमर्था इत्येव विभावनीयम् । एवञ्च रसापकर्षसाधकादोषा एव वस्तुतो दोष पदवाच्या इति ज्ञायते । अत एव साहित्यदर्पणकारो विश्वनाथः, रसापकर्षका एव दोषा भवन्तीति दोषान् व्याचख्यौ । भरतो गुणानां निर्वचनं कुर्वन् – दोषविपर्ययात्मानो गुणाः – इति प्रत्यपादयत् । वामनस्तु निर्वचनं पूर्वोक्तं विपर्यस्य गुणविपर्ययात्मानो दोषाः इति व्याख्यातवान् । परं दोषेषु न केवलं गुणविपर्ययभूता एव दृश्यन्ते, केचित् केवलदोषा अपि दृश्यन्ते । अतो वामनस्य दोषनिर्वचनमसमग्रं प्रतिभाति ।
विद्यानाथस्तु – दोषः काव्यापकर्षस्य हेतुश्शब्दार्थगोचरः - इति निरवोचत् । यावच्छब्दार्थगतो दोषः काव्यापकर्षजनकस्तावत् रसापकर्षकोऽवश्यं दोषो भवतीति पुनर्न वक्तव्यं भवति । वस्तुतो रसापकर्षक एव प्रधानो दोषो भवति सर्वथा परित्याज्यश्च । शब्दमात्रसम्बन्धिनो दोषाश्शब्ददोषा भवन्ति । तत्र दुष्टस्य शब्दस्य परिवर्तनेनैव स दोषोऽपगच्छति । अर्थसम्बन्धिनो दोषा अर्थदोषा उच्यन्ते । एषु समानार्थकस्य शब्दान्तरस्य निवेशेन दोषो नापगच्छति । यत अर्थदोषः शब्देन सर्वथा न सम्बध्दो भवति । अर्थस्य विपरिवर्तनेनैव स दोषोऽपगच्छति ।
अर्वाचीनाः केचिदालङ्कारिकाः मुख्यार्थहतिं दोषपदार्थं मेनिरे । को नाम मुख्यार्थ इति विचार्य काव्यात्मभूतो रस एव मुख्यार्थ इति तदाश्रयतया वाच्यार्थोऽपि मुख्यार्थो भवितुमर्हतीति च व्याचख्युः । रसमये काव्ये रस एव काव्योद्देश्यभूतः । नीरसे तु काव्ये चमत्कारजनको वाच्यार्थ एव प्रधानो भवति । इति र्नामापकर्षः । ततश्च उददेश्यभूतयोः रसवाच्यार्थयो रसापकर्षजनका दोषा भवन्तीति पर्यवसितम् । उपर्युक्तं दोष निर्वचनमपि उद्देश्य प्रतीति विघातको दोष इति रुपेण प्रतिपादितम् । अयमपकर्षो रसवाच्यार्थयोरिव तदुपकारकेषु शब्देषु वर्णेषु रचनादिषु चावतिष्ठते । अत एव साहित्यदर्पणकारः, दोषाः पदे पदांशे वाक्ये रसे चाऽपि भवितु मर्हन्तीति, प्रत्यपादयत् ।
साहित्यदर्पणप्रोक्ता दोषा अत्र नाम्ना केवलं प्रस्तूयन्ते । तल्लक्षणानि तु तत एव ग्राह्यानि भवन्ति ।
पदवाक्यदोषाः
[सम्पादयतु]अत्रच पदवाक्यदोषाः निर्दिष्टाः ।
|
|
|
|
दोषाणां संख्याविषये मतभेदास्सन्ति । भरतो दोष विपर्ययात्मानो गुणा इति वर्णयन् दोषाणां प्राधान्यं संसूच्य शब्दार्थगत विभागमकृत्वा दशदोषान् प्रत्यपादयत् । दण्डी अपि तथैव दशदोषा नवोचत् । परं भरताभिमतानां दोषाणां दण्डिप्रोक्तानां च दोषाणां च मध्ये नाम्नि निर्वचने च भेदो दृश्यते । वामनस्तु काव्यसौन्दर्यापकर्षहेतून् दोषा नभावयत् । तेन दशशब्ददोषाः दशैवार्थदोषाश्च प्रतिपादिताः । भामहो भरतप्रोक्तानां दशदोषाणां, अपरा नेकादशदोषान् मेलयित्वा, एकविंशतिदोषान् कथयामास । रुद्रटस्य मते शब्दार्थगतत्व भेदेन दोषाः द्विविधा भवन्ति । शब्ददोषेषु पदगताष्षट्, वाक्यगतास्त्रयः, अर्थदोषेषु केवलार्थदोषानव उपमादोषाश्चत्वारः, आहत्य द्वाविंशतिदोषा रुद्रटेन प्रतिपादिताः ।
पूर्वलाक्षणिकाः शब्दार्थदोषान्, अलङ्कारदोषांश्च मिश्रयित्वा दोषसंख्यामवर्धयन्निति प्रतीयते । ध्वनिसिध्दान्तस्य प्रचारानन्तरं, गुणा रसोत्कर्षस्य, दोषा रसापकर्षस्य च हेतुभूता इति सिध्दान्तः परिव्याप्तो दृश्यते । अर्वाचीना लाक्षणिकाः शब्दार्थदोषैः सह रसदोषान् मेलयित्वा त्रिविधा अप्येते दोषा रसभञ्जका भवन्तीति व्याचख्युः । तेषु केचित् सूक्ष्मतरमपि विभागं विधाय, पद् –पदांश- वाक्य-वाक्यार्थ- रसदोषात्मना दोषाणां पञ्चविधत्व मङ्गीचक्रुः । प्रतापरुद्रीये षष्टिसंख्याका दोषाः प्रोक्ताः । तेषु पददोषाः १७, अर्थदोषाः १८, वाक्यदोषा २४, रसदोषः १ (रसभावादीनां स्वशब्दवाच्यता रुपः), एवं षष्टिदोषाः प्रतिपादिताः । काव्यप्रकाशे पुनः, पददोषाः १७, वाक्यदोषाः १६, अर्थदोषाः २३ रसदोषाः १०, आहत्य षट्षष्टिदोषाः प्रोक्ताः । साहित्यदर्पणे तु, पदवाक्यदोषाः १६, वाक्यमात्रदोषाः २३, अर्थदोषाः २१, रसदोषाः १५, आहत्य पञ्चसप्ततिदोषा व्याख्याताः । अत्र प्रोक्तैर्दोषैस्सह केचिदलङ्कारदोषा अपि प्रतिपादिताः । एवमन्येऽपि दोषा यथा सम्भवमूह्या इति, औचित्यमनुसृत्य सन्दर्भानुगुणतया परिशीलने केषांचित् दोषाणामदोषत्वं, गुणत्वं अनुभयात्मकत्वं च सम्भवतीति साहित्यदर्पणकारस्समभावयत् ।
सर्वे दोषा नित्या अनित्याश्चेति द्विधा विभक्तुं योग्या भवन्ति । च्युतसंस्कारादयो दोषास्सर्वदा दोषा एवेति ते नित्यदोषा भवन्ति । एते च न केनापि प्रकारेण दोषभिन्ना भवन्ति । अनित्यदोषास्तु सर्वदा दोषा न भवन्तीति कदाचिदेषां गुणत्वमपि भवितुमर्हति । पारुष्यदोषः श्रृङ्गारादिषु दोष एव, रौद्रादिषु पुनस्स एव गुणो भवति । अप्रयुक्तादयो दोषाः श्लेषाद्यलङ्कारेषु दोषा न भवन्ति । ततश्चैतादृशा दोषा अनित्यदोषा भवन्ति । लाक्षणिकोक्तेषु दोषेषु बहवो दोषा अनित्या एव ।
वाक्यमात्रदोषाः
[सम्पादयतु]१)अक्षरप्रतिकूलत्वम् | २) लुप्तविसर्गत्वम् | ३) अहतविसर्गत्वम् |
४) अधिकपदत्वम् | ५) न्यूनपदत्वम् | ६) कथित पदत्वम् |
७) अहतवृत्तता | ८) पतत्प्रकर्षत्वम् | ९) सन्धिविश्लेषता |
१०) अश्लीलता | ११) कष्टत्वम् | १२) अर्थान्तरैकपदत्वम् |
१३) समाप्तपुनरात्तता | १४) अभवन्मतसम्बन्धः | १५) अक्रमत्वम् |
१६) अमतपदार्थता | १७) वाच्यानभिधानत्वम् | १९) प्रसिध्दित्यागः |
२०) अस्थानस्थपदत्वम् | २१) अस्थानस्थ समासत्वम् | २२) सङ्कीर्णता |
२३) गर्भितत्वम् । |
अर्थदोषाः
[सम्पादयतु]१) अपुष्टत्वम् | २) दुष्क्रमता | ३) ग्राम्यता |
४) व्याहतत्वम् | ५) अश्लीलत्वम् | ६) कष्टत्वं |
७) अनवीकृतत्वम् | ८) निर्हेतुत्वम् | ९) प्रकाशित विरुध्दता |
१०) सन्दिग्धता | ११) पुनरुक्तत्वम् | १२) प्रसिध्दविरुध्दता |
१३) विद्याविरुध्दता | १४) साकांक्षता | १५) सहचर भ्राष्टता |
१६) अस्थानयुक्तता | १७) अविशेषविशेषत्वम् | १८) अनियमनियमत्वम् |
१९) विशेषाविशेषत्वम् | २०) नियमानियमत्वम् | २१) निर्मुक्तपुनरुक्तत्वम् |
रसदोषाः
[सम्पादयतु]१) रसस्य स्वशब्द वाच्यता | २) स्थायिभावस्य स्वशब्दवाच्यता | ३) सञ्चारिभावस्य स्वशब्द वाच्यता |
४) विरोधिरसाङ्गभूतानां विभावादीनां परिग्रहः | ५) अनुभावविभावाक्षेपः | ६) अनुभाव विभावकष्टकल्पनम् |
७) अकाण्ड प्रधानता | ८) अकाण्डच्छेदता | ९) रसस्य पुनः पुन र्दीपनम् |
१०) अङ्गिरसस्याऽपरिपोषः | ११) अनङ्गिभूतस्य रसस्य परिकीर्तनम् | १२) अङ्गि रसस्य अतिविस्तृतिः |
१३) दिव्याऽदिव्यप्रकृति विपर्ययः | १४) अर्थानौचित्यम् | १५) देशकालाद्यनौचित्यम् |
यद्यपि सर्वथा निर्दोषस्य काव्यस्य विरचनं दुर्घटं, तथापि यावच्छक्ति दोषान् परित्यज्य रसवत रसवतः काव्यस्य निर्माणे यत्नो विधेय इत्यत्र नास्ति संशयलेशः । सर्वेऽपि दोषाः परिहरणीया स्तत्राप्यनौचित्यं परमो दोषः । अत एवानौचित्यादृते रसभङ्गस्य कारण मन्यत् नास्तीति ध्वन्यालोके आनन्दवर्धन स्समुदघोषयत् ।