सामग्री पर जाएँ

भरतः (नाट्यशास्त्रप्रणेता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भरत मुनिः (Bharathamuni) ५०० ई पू काले जीवन् नाट्यशास्त्रम् लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञातः,न गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदाः सन्ति।केचन पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।

मूलतः भरतस्य ग्रन्थसय विषयः नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयोः विद्ययोः सम्मेलः आसीत्।अनयोः द्वयोः विद्ययोः अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्तः अद्यावधि अतुलनीयः अपराजितः च विद्यते।

सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वराः सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धारः काकलीनिषादः च)स्तः।भरतस्य ग्रन्थः उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूतः।

उपोद्घातः

[सम्पादयतु]

नाटकं तावद्भद्वति परा विद्या। तत्र नाटके क्रियापक्षं (प्रयोगपक्षम्) यथा भवति तथैव ज्ञानपक्षमपि भवति। ज्ञानपक्षस्याधारेण नाटकं भवति वेदस्तथा क्रियापक्षस्याधारेण शास्त्रम्। नाट्यवेदस्य क्षेत्रं तावद्भवति अभिज्ञानशकुन्तलादीनि आलेखानि यानि भरतमुनिना नाट्यशास्त्रस्यादितः अन्त्यं यावत् ’काव्यम्’-इति परिभाषितानि। एतेष्वेव भवति संसारे कर्तव्याकर्तव्यविधिनिर्देशविधानम्। तस्मादेव वेदस्य स्थानं शीर्षे निर्धारितम्- “प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते। एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता॥” इति। विधिनिषेधनिर्देशविधौ सहायपरकं भवति नाट्यशास्त्रम्। अयं जातो नट्यवेद-नाट्यशास्त्रयोर्भेदः। भरतस्य नाट्यशास्त्रे कदाचिदेवमेव संकेतः प्राप्यते यत् नाट्यप्रवृत्तिर्जगति सृष्टेरादिकालमेव सञ्जाता। अत एव नाट्यशास्त्रे स्थाने स्थाने नाट्यशास्त्रस्य प्रथमाचार्यः सृष्टिकर्ता स्वयम्भूः पितामह स्वीकृतः।  नाट्यतत्त्वम् ननु किमिदं नाट्यं नाम? नाट्यशब्दे मूलं तावद्धातुः ’नट’ इति। “अवस्पन्दः” “किञ्चित्स्पन्द” इति वा तदर्थः। अवस्पन्दः किञ्चित्स्पन्दः वा तथा स्यात् यः अर्थद्योतको भवेत्। किमिदं प्रतिपाद्यं वस्तु? अस्योत्तरमेवमुक्तं – रसाः भावाः कर्तव्यतावोधश्च। तत्र ष्यञ्प्रत्ययेन, ण्यत्प्रत्ययेन, ञ्यप्रत्ययेन च सिद्ध्यति नाट्यशब्दनिष्पत्तिः। ष्यञ्प्रत्ययेन निष्पन्नस्य नाट्यशब्दस्यार्थो भवति नटस्य गुणाः तथा कर्म (क्रिया), ण्यत्प्रत्ययनिष्पन्नस्य नाट्यशब्दस्यार्थस्तावद् नाट्यव्यापारः, किन्तु ञ्यप्रत्यययोगेन नटानामाम्नायमिति। अतो त्रीनर्थानेकत्रीकृत्य नाट्यशब्दस्यार्थो भवति नाटानां स्वाम्नायानुसारं विहिता अभिनयव्यापारः। अर्थोऽयं भरतमुनिनापि समर्थितः।  नाट्यशास्त्रे त्रयोदशाध्यायः नाट्यशास्त्रस्य द्वितीये तावदध्याये अष्टमे तावच्छ्लोके नाट्यमण्डपस्य त्रैविध्यं वर्णितं भरतेन - “इह प्रेक्षगृहाणां तु धीमता विश्वकर्मणा। त्रिविधः सन्निवेशश्च शास्त्रतः परिकीर्तितः॥” अत्र नाट्यमण्डपस्य आकारत्रयं भवति १. विकृष्टं नाम प्रेक्षागृहम्, २.चतुरस्रं नाम प्रेक्षागृहम्, ३. त्र्यस्रं नाम प्रेक्षागृहम्। एतेषां च प्रमाणमपि भवति त्रिविधं ज्येष्ठमध्यमाधमभेदेन। अत्र त्रयोदशे तावदध्याये प्रथममुच्यते यत् प्रेक्षागृहस्य भेदत्रयान् सम्यगवबुद्ध्य तत्पश्चात् कक्ष्यानिश्चयो विधेयः इति। द्वितीयाध्याये नाट्यमञ्चस्य द्वारसंस्थपनविषये उक्तं भरतेन- “रङ्गशिर्षं तु कर्तव्यं षड्दारुकसमन्वितम्। कार्यद्वारद्वयं चाऽत्र नेपथ्यगृहकस्य तु॥”

नेपथ्यगृहम् रङ्गशीर्षम् दारुस्थम्भाः ऊपरि दारु निचला दरु

रङ्गशीर्षं तु भवेत् अतिसज्जितं षड्दारुसमन्वितम्। तेन एव नेपथ्यगृहं प्रति गमनार्थं द्वारद्वयस्य निर्माणमावश्यकम्। इदानीमत्र त्रयोदशेऽध्याये उच्यते भरतेन मुनिना यदत्र तयोः द्वारयोर्मध्ये एव भाण्डस्य वाद्ययन्त्राणां विन्यासः करणीयः इति। कक्ष्याविभागो भवति रङ्गपीठस्य चतुसॄषु दिक्षु एव। किन्तु मत्तवारिणीरङ्गशीर्षयोर्मेलनेन या परिक्रमाभूमिः शिष्यते सा तु द्वितीया कक्षा बोद्धव्या। अर्थात् प्रथमा तावत् कक्षा एव रङ्गपीठम्। नाट्याभिनयसमये प्रस्तूयमानायाः घटनायाः सम्बन्धिनः नगर-वन-देश-पर्वतान् कक्षाद्वारेण एव प्रयोजयेत्। कक्ष्याविभागे ते एव आभ्यन्तरा उच्यन्ते ये हि पूर्वमेव मञ्चं प्रविष्टाः। एवमेव बाह्यास्ते ये अनन्तरं प्रविष्टाः। यस्यां दिशि भाण्डस्य मुखं भवेत् तस्यामेव दिशि नेपथ्यगृहस्यापि मुखं स्यात्। सा च पूर्वस्यां दिशि एव भवेत् इति नाट्यशास्त्रस्य नियमः। तेन द्वारेण यः नेपथ्यात् रङ्गपीठं प्रति गमिष्यति, स तु तेनैव मार्गेण प्रत्यागच्छेत्। तथैव विधानं प्रदत्तं नाट्यशास्त्रे भरतेन मुनिना- “निष्क्रमेद् यश्च य्स्माद् वै स तेनैव तथा व्रजेत्। यतस्तस्य कृतं तेन पुरुषेण निवेदनम्॥” इति। नाटके दिव्यपुरुषाणां यातायातं नगरे वा वने वा भवतु, उत, पर्वते सागरे वा, सदा तु आकाशयानेन एव उपस्थापितव्यम्। तदिदं गमनं एकवर्षाभ्यन्तरे भवतु, अन्यस्मिन् वा वर्षे; तथैव एकस्मिन्नेव द्वीपे भवतु द्वीपान्तरे वा भवतु तद्गमनम्। नाटके दिव्ययोनिपात्राणि एव भूमौ विचरन्ति, किन्तु गुप्तरूपेण प्रच्छन्नरूपेण वा। तस्मादेव देवयोनीनां सर्वस्मिन्नेव काले देशे च गमनं सुकरमेव। मनुष्याणां गमनागमनं तु भारतवर्षे एव सीमीतं भवति, आधिक्येन तु मनुष्याणां यातायातं हिमालयस्य श्रेष्ठं पर्वतं कैलासनामकं यावद्भवितुमर्हति। अत एव निर्दिष्टं भरतेन तदीये नाट्यशास्त्रे-

“भारते मनुष्याणां तु गमनं संविधीयते। हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे॥” इति। नाट्यशास्त्रे यक्ष-गुह्याक-कुवेराश्च हिमवतो वर्षस्य प्राणित्वेन स्वीकृताः। तथाहि भरतमुनिभणितिः नाट्यशास्त्रे- “यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये। रक्षोभूतपिशाचाश्च सर्वे हैमवताः स्मृताः॥” इति। गन्धर्वाणामप्सरसां च निवासः हेमकूटे पर्वते। नागानां समेषां तु निवासस्थलं निर्धारितं निषधपर्वतः। तत्रैव च वासुकिः शेषनागश्च निवसतः। पुनश्च, महामेरुपर्वते निवासः त्रयस्त्रिंशद्देवानाम्। ते हि त्रयस्त्रिंशद्देवाः- १२ आदित्याः (प्रत्येकस्य मासस्य एकैक आदित्यः) ११ रुद्राः ८ वसवः ३१ २ सन्धिदेवते (१- आदित्यः+रुद्रः २- रुद्रः+वसुः+रुद्रः)

३३ देवाः दैत्यानां दानवानां च कृते वासस्थानमस्ति निर्धारितं श्वेतपर्वते। शृङ्गवान्-पर्वते च निवासः पितरदेवस्य। अयमेवास्ति पर्वतश्रेष्ठः। अस्मिन्नेव दिव्ययोनयः प्राणिनो निवसन्ति। एतेषां दिव्यभावानां दिव्यचेष्टानां स्वचेष्टितानीति न मन्तव्यं, नापि तेषां पराक्रमं स्वपरक्रमं मन्यमानैर्मनुष्यैः तेषामनुकरणं विधातव्यम् इति नाट्यशास्त्रकारभणितिः। नाटके मनुष्याणां सर्वे एव गुणास्तु देवेषु आरोपणीया एव। किन्तु तेषाम् अनिमिषत्वस्योपस्थापनं नोचितं नाट्यमञ्चे-”तेषां त्वनिमिषत्वं यत् तत्र कार्यं प्रयोक्तृभिः” इति नाट्यशास्त्रे। तत्र देवानामनिमिषत्वप्रदर्शननिषेधकारणं तावदुच्यते भरतेन- “इह भावा रसाश्चैव दृष्ट्यामेव प्रतिष्ठिताः। द्रुष्ट्या हि सूचितो भावः पश्चादङ्गैर्विभाव्यते॥” इति। ये खल्वस्माकं भावाः सन्ति ते त्वस्माभिः दृष्ट्या एव अभिनीयन्ते। अतो दृष्ट्यभिनयाश्रितास्ते भावाः। एवमेव रसप्रसङ्गेऽपि। आङ्गिकाभिनयेन स एवाभिप्रायः अभिनीयते यद्धि पूर्वं दृष्ट्याभिनयेन सूचितम्। एवं नाट्यशास्त्रस्य त्रयोदशेऽध्याये प्रथमतः कक्ष्याविभागं प्रदर्श्येदानीं प्रवृत्तिं प्रदर्शयितुं प्रवर्तते मुनिर्भरतः- “पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनां तु लक्षणाम्” इति।  प्रवृत्तिः नाट्यप्रयोक्तृभिः प्रोक्ताः प्रवृत्तयश्चात्र चत्वारः - १. आवन्ती, २. दाक्षिणापत्या, ३. पाञ्चाली, ४. ऊढ्रमागधी च। ननु केयं वृत्तिरिति प्रश्ने प्रथमं वृत्तिस्वरूपं स्पष्टयति भरतमुनिः। पृथीव्यां नानादेशस्य ननाभाषावेषभूषणादिनां वैचित्र्यं वर्तत एव। अत्र तेषां वार्ताः नाटके ख्यापयति वृत्तिः। अपरतो निवृत्तिश्च भवति निवेदनम्। “प्रवृत्तिश्च भवति निवेदनम्” इति नाट्यशास्त्रे भरतमुनिनोक्तम्। पुनरत्र सन्देहोऽयमुदेति य पृथीव्यां तु देशस्य संख्या बह्वी एव। अपि चाप्यपरतः एतेषां प्रयोगव्यवहारोऽपि सादृश्यमेवावहति। तथापि कथं चत्वार एव भेदाः तदाचारभेदप्रदर्शिण्याः प्रवृत्तेरिति। अत्र नाट्यसास्त्रकृतोत्तरम् एवम् उपस्थाप्यते- “तत्तु सत्यम्, आसां सामान्यलक्षणप्रयोगः, किन्तु नानादेशविशेषो भाषाचारो लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य मया चतुर्विधत्वमभिहितं भारती, आरभटी,सात्त्वती, कौहिकी चेति” इति। नाट्यशास्त्रकृता तदीयग्रन्थस्य पञ्चविंशतितमेऽध्याये प्रमाणत्रयस्योल्लेखः कृतः। तदनुसारं लोक एवैकं प्रमाणम्। “लोको वेदस्तथाध्यात्मं प्रमाण्ं त्रिविधं स्मृतम्। वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम्॥” इति। अत्र प्रमाणत्रयं भवति १. लोकः, २. वेदः, तथा ३. अध्यात्मम्। पुनर्नाटकं भवति लोकात्मकम्। लोके यद्भवति सिद्धं तदेव नाटकेऽपि सिध्यति। लोके एतेषां चतुर्णामेव अनुमोदनमस्ति, तस्मादेव प्रवृत्तेः भेदाश्चत्वारः समुपस्थापिताः नाट्यशास्त्रकृता- १. भारतीवृत्तिः २. आरभटीवृत्तिः ३.सात्त्वतीवृत्तिः ४.कौशिकी वृत्तिश्च। वृत्तिमादाय प्रचलति चेत् प्रयोगः तस्मादेव प्रयोगात् तद्देशस्य परिचयो ज्ञायते। तत इदानीं प्रवृत्तीनां चतूर्णां वृत्तीनां व्याख्यानमुपस्थापयति नाट्यशास्त्रकारः।   दाक्षिणात्या दाक्षिणात्या हि लोका कौशिकीवृत्तेः प्रयोगमधिकं विदधन्ति। तथा नाट्यप्रयोगेषु नृत्यगीतवाद्यानामुपयोगस्तत्राधिक्येन भवति। तेषामाङ्गिकाभिनयोऽपि चातुर्यमाधुर्यललित्यसमन्वितं भवति। दाक्षिणात्यमित्युक्ते केषां क्षेत्राणां तावद्ग्रहणमिति स्पष्टीक्रियते नाट्यशास्त्रे- “महेन्द्रो मलयः सह्यो मेकलः कालमञ्जरः। एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः॥ इति। “कोसलास्तोसलाश्चैव कलिङ्गा यवनाः खसाः। द्रमिडन्ध्रमहाराष्ट्रा वैण्णा वै वानवासजाः॥” इति। महेन्द्र-मलय-सह्य-मेखल-कालमञ्जराः पर्वतः दाक्शिणात्ये देशेऽन्तर्भवति। कोसल-तोसल-कलिङ्ग-यवन-खस-द्रमिड-आन्ध्र-महाराष्ट्र-वैण्ण-वाराण्सीत्येतेऽपि दाक्षिणात्ये। अत्र कोस्लेत्यनेन दक्षिणकोसलो बोध्यव्यः । दाक्षिणात्यप्रदेशस्य विस्तारस्तावद् विन्ध्यपर्वतादारभ्य दक्षिणसमुद्रपर्यन्तम्। नियमोऽयं नित्य एव यदस्मिन् भूभागान्तर्वर्तिन्यः देशास्तु दाक्षिणात्या इति कथयिष्यन्ते।

आवन्तिका

[सम्पादयतु]

आवन्तिकावृत्तेः प्रयोगो भवत्याधिक्येन उज्जयिन्यां विदिशादेशे, सौराष्ट्रीयैः, मालववासिभिः, सैन्धवे देशे, सौवीरैः, आनर्त्ते, तथा च त्रैपुरैः मार्तिकावतैश्च। एतेषु देशेषु नाटकप्रयोगविषये विशेषमिदमस्ति यत् अत्रत्यैस्तु नाटके सात्त्वतीवृत्तिं तथा कौशिकवृत्तिं चाश्रित्य प्रयोगो विधीयते प्रयोगः। अन्यत्र प्रदेशेषु नैवं व्यवहारो भवति। तथाहि भरतमुनिभणितिः -

आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा।
सैन्धवास्त्वथ सौवीरा आनर्त्ताः सर्बुदेयकाः ॥ इति।

औढ्रमागधा

[सम्पादयतु]

औढ्रमागधीप्रवृत्तिस्तावद्व्यवह्रियते अङ्ग-वङ्ग-कलिङ्ग्-वत्स-उढ्रमागध-पौण्ड्र-नेपाल-अन्तर्गिर-बहिर्गिर-प्लवङ्गम-मलद-मल्लवर्त्तक-भार्गव-मार्गव-प्राग्ज्योतिष-पुलिन्द-वैदेह-ताम्तलिप्तक-प्राङ्ग-प्रवृत्त्यादिषु स्थलेषु।

  • पाञ्चाली प्रवृत्तिः

यानि तावत्स्थानानि पाञ्चालदेशे, शूरसेनदेशे, काश्मीरप्रदेशे, हस्तिनापुरे बाह्लीकप्रदेशे (आफगानिस्तानप्रदेशे वा) वर्तन्ते, तथा च ये देशाः शाकलमद्र-कुशनीर-गङ्गायाया उत्तरस्यां दिशि हिमवति पवते अवतिष्ठन्ते तेषु एव प्रदेशेषु प्रवर्तते पाञ्चाली-वृत्तिः।

“पाञ्चालाः सौरसेनाश्च काश्मीरा हास्तिनापुराः।
बाह्लीकाः शाकलाश्चैव मद्रकौशीनरश्च॥” इति।

पाञ्चालमध्यमायां प्रवृत्तौ वृत्तिर्भवति सात्त्वती आरभटी च। रङ्गपीठस्य जर्जरपूजाया अनन्तरं या परिक्रमा भवति तस्या द्वैविध्यमुक्तं नाट्यशास्त्रे। तत्र प्रथमस्तावत्प्रकारो यत्र प्रवेशः वामपार्श्वतः क्रियते, द्वितीये च प्रकारे प्रदक्षिणं न भवत्येव। अवन्त्यां दाक्षिणात्यां च प्रवृत्त्यां प्रदक्षिणं वामपार्श्वतः क्रियते। तद्विरुद्ध्यां पाञ्चाल्यां तथा औढ्रमागध्यां दक्षिणपाश्वतः प्रदक्षिणविधिः। अवन्त्यां दाक्षिणात्यां च पार्श्वद्वारो भवेदुत्तरी, पाञ्चाल्यां औढ्रमागध्यां च स दक्षिणी। प्रयोक्तारः आदौ एतान् सर्वान् विषयान् एकत्रीकृत्य प्रयोजयेत् कर्मणि, तदा तु ध्यानं तेषां अर्थयुक्तौ तथा पर्षदि तथा देशकालेऽपि इति निर्देशः नाट्यशास्त्रकारस्य। अपि च यस्मिन् देशे यस्याः प्रवृत्तेः विधानं विद्यते तत्र तस्यैवानुसरणं कर्तव्यम्। यदा च सर्वाः वृत्तयः प्रवृत्तयश्च एकत्रीभवन्ति तदा तु वृत्तिवाहुल्यं विचार्य कर्मणि प्रयोजयेत् विज्ञः। अत्रायं प्रयोगः पुनः द्विविधः १. सुकुमारः
२. आविद्धश्च
३. आविद्धानि
आविद्धानि हि तानि उच्यन्ते यत्र छिन्नभिन्नात्मकं भयंकरं युद्धं प्रस्तूयते। यद्भवति मायेन्द्रजालादिवृत्तपूर्णम्, यत्र च पुरुषपात्राणामधिक्यं स्यात्, नारीपात्राणाञ्च अनाधिक्यम्। अतोऽत्र सात्त्वती आरभटी च वृत्तिः। एतादृशं नाटकं भवति आविद्धम्। अस्य प्रयोगह् कर्तव्यः देवदानवराक्षसपात्रद्वरेण। शौर्यवीर्यबलसमृद्धः पुरुषोऽपि अत्र योजयितुं शक्यः।

सुकुमारः

[सम्पादयतु]

मनुष्यैरुपस्थाप्यन्ते सुकुमारप्रकृतिकानि नाटकानि हि- नाटकं, प्रकरणम्, भाणम्, तथा वीथिः, अङ्कश्च।

“नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च।
सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि॥” इति।

यत्र नाटकस्य वाह्यप्रयोगो विधीयते नाटकस्य, तत्र तु नाट्यशास्त्रोक्तदिशि नापि भवितुमर्हति रङ्गपीठम्। तत्र तु स्वामिन इच्छा एव बलीयसी।
एवं नाट्यप्रयोगमुक्त्वा धर्मीविभागं दशयति भरतमुनिः
“धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः
लोकैकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम्” इति।
धर्मी तावद्द्विविधा लौकिकी नाट्यधर्मी च। इतिप्रकारं नाटकभेदमुक्त्वा तद्भेदान् प्रदर्शयति नाट्यशास्त्रकारः।
 लोकधर्मी प्रवृत्तिः
लोकधर्मिप्रवृत्तौ नाटकं यद्भवति तत्र अभिनयस्तथा अभिनेयं स्वाभाविकमेव अविकृतं विद्यते। अत्र नाटकीयपात्राणि बहूनि एव भवन्ति। अत्र लोके साधारणतया घटिताः घटना एवोपस्थाप्यन्ते। अत्राङ्गहाराः लीलारहिता एव भवन्ति।

नाट्यधर्मी प्रवृत्तिः

[सम्पादयतु]

नाट्यधर्मिप्रवृत्त्यौ पात्राणि स्वाद्बहिरेव कल्प्यन्ते। अत्र गतिक्रिया वाद्यादिक्रियापि भवन्ति। अस्याङ्गहारे लीला भवन्ति, नट्यं ताललयादीनामपि तत्र विद्यमानत्वम्। त्रयोदशाध्यायस्यान्ततः अभिनयविषये कथयति भरतमुनिः यत् जनानां सहजो भाव एवाभिनयः इति। तस्मिन्नेव सहजे भावे अङ्गादीनामलंकाराणां समावेश एव नाट्यधर्मी प्रवृत्तिः। एवमत्र नाट्यशास्त्रीये त्रयोदशेऽध्याये प्रयुक्तानां कक्ष्याविभागविषयान् सम्यगवधार्य नाटकं प्रयोजयेत् धीमान् इति नाट्यशास्त्रकारनिर्देशः। एवं नाट्यशास्त्रे त्रयोदशे तावदध्याये ग्रन्थकृता भरतेन कक्ष्याविभागविषये सविस्तारं स्वमतमुपस्थाप्य प्रवृत्तिभेदान् तत्स्वरूपञ्च सम्यगुपस्थापितमिति शिवम्।

प्रणेतारः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]