काव्यविभागाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

काव्यस्य विभाग: अत्र उच्यन्ते ।

कस्मिंश्चित् शब्दे श्रुते सति कस्यचित् अर्थस्य प्रतीति: भवति । स चार्थ: वाच्य: लक्ष्य: व्यङ्ग्यश्चेति त्रिविध: । तत्प्रतिपादक: शब्दोऽपि क्रमेण वाचक: लक्षक: व्यञ्जकश्चेति ज्ञेयम् । 'अभिधापुच्छभूता लक्षणा’ इत्युक्त्यनुसारेण लक्षणा अभिधातो नातीव भिद्यते । तथा च काव्ये वाच्य: व्यङ्ग्यश्चेति द्वावर्थौ भवत इति वक्तुं शक्यते । केषुचित् वाक्येषु केवलं वाच्योऽर्थ: भवति, केषुचिच्च उभयविधोऽपि । परं तु कुत्रचिदपि केवलं व्यङ्ग्यस्यार्थस्य सद्भाव इत्ययं प्रभेदो न सम्भवति, यतो व्यङ्ग्यस्यार्थस्य प्रतीते: पूर्वं वाच्योऽर्थ: अवश्यं भवेत् । एवं च केवलं वाच्यस्यार्थस्य सद्भाव इति कश्चन प्रभेद: । वाच्यव्यङ्ग्ययोरुभयोरपि अर्थयो: सद्भाव इत्यपर: प्रभेद: ।

पूर्वोक्तयो: प्रभेदयो: उत्तरस्मिन् प्रभेदे द्वावर्थौ भवत: । तत्र प्रधानप्रधानभाव: अवश्यं सम्भवति । तयोर्द्वयो: अर्थयो: वाच्यस्यार्थस्य प्राधान्ये कश्चन प्रभेद:, व्यङ्ग्यस्यार्थस्य प्राधान्ये अपर इति विवेक: । एवं च त्रयोऽत्र प्रभेदा: सम्भवन्ति ।

  1. वाच्यार्थमात्रस्य सद्भाव: ।
  2. वाच्यव्यङ्ग्ययोरुभयो: सद्भाव: । तत्र व्यङ्ग्यस्य अप्राधान्यम् वाच्यस्य च प्राधान्यम् ।
  3. वाच्यव्यङ्ग्ययोरुभयोरपि सद्भाव: । तत्र व्यङ्ग्यस्य प्राधान्यम् वाच्यस्य च अप्राधान्यम् ।

आलङ्कारिका ईदृशं विभागत्रयमनुलक्ष्यैव काव्येऽपि प्रभेदत्रयं कुर्वन्ति । तच्च प्रभेदत्रयं ध्वनि:, गुणीभूतव्यङ्ग्यम्, चित्रं च । एतान्येव क्रमेण उत्तमम्, मध्यमम्, अधमं चेति शब्दान्तरेण निर्दिश्यन्ते ।

ध्वनिकाव्यम्[सम्पादयतु]

ध्वनिकाव्ये वाच्यव्यङ्ग्यरूपौ द्वावर्थौ भवत: । परं तु तयो: व्यङ्ग्य एवार्थ: प्रधानो भवति । तल्लक्षणं मम्मटेन काव्यप्रकाशे इत्थं निरूपितम् – 'इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनि: बुधै: कथित:’ ।

व्यङ्ग्येऽर्थे वाच्यादर्थात् प्रधाने सति ध्वनिरिति प्रभेद: सम्भवति । तस्यैव उत्तमं काव्यमिति नामान्तरं वर्तते । 'चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययो: प्राधान्यविवक्षा’ इत्यनेन आनन्दवर्धनस्य वचनानुसारेण यस्मिन् अधिकं चारुत्वं वर्तते स एवार्थ: प्रधानो भवति । ध्वनेरुदाहरणं यथा –

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती ॥

इदं पद्यं कुमारसम्भवस्य षष्ठे सर्गे वर्तते । अङ्गिरा: अन्यै: ऋषिभि: समेत: शिवेन प्रार्थितो हिमवन्तमुपेत्य 'पार्वतीं परमेश्वरो वरिष्यति’ इति कथयामास । अङ्गिरसि तथा कथयति सति हिमवत: पार्श्वे स्थिता पार्वती विनोदार्थं स्वहस्ते धृतस्य कमलस्य पत्राणि गणयामास इति वाच्योऽर्थ: । अस्मिन् वाच्येऽथेर् प्रतीतिगोचरे सति क्रमेण लज्जारूपो व्यङ्ग्योऽर्थ: प्रधानतया भासते । अत इदं ध्वनिकाव्यस्य उदाहरणम् । एवं ध्वनिकाव्ये वाच्योऽर्थ: अप्रधान:, व्यङ्ग्यश्च प्रधानो भवतीति मन्तव्यम् ।

गुणीभूतव्यङ्ग्यम्[सम्पादयतु]

अयं प्रभेद: तत्रैव सम्भवति यत्र वाच्यव्यङ्ग्यौ उभावपि अर्थौ भवत: । अस्य प्रभेदस्य नामश्रवणेनैव ज्ञायते यत् अत्र व्यङ्ग्योऽर्थ: गुणीभूतो भवतीति । गुणीभूत इत्यस्य गौण: अप्रधान इत्यर्थ: । तल्लक्षणं तावत् काव्यप्रकाशे मम्मटेन एवं निरूपितम् –

अतादृशि गुणूभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्”

अत्र अतादृशीत्यस्य वाच्यात् अनतिशायिनीत्यर्थ: । एवं च व्यङ्ग्ये अर्थे वाच्यात् अप्रधाने सति गुणीभूतव्यङ्ग्यं काव्यमिति कथ्यते । मध्यमं काव्यम् इति तस्यैव नामान्तरम् । प्राचीना: गुणीभूतव्यङ्ग्ये काव्ये अष्ठौ प्रभेदान् अङ्गीकुर्वन्ति । तदुक्तं मम्मटेन काव्यप्रकाशे –

अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्ठौ भिदा: स्मृता: ।
  1. अगूढव्यङ्ग्यम्
  2. अपराङ्गव्यङ्ग्यम्
  3. वाच्यसिध्यङ्गव्यङ्ग्यम्
  4. अस्फुटव्यङ्ग्यम्
  5. सन्दिग्धप्राधान्यव्यङ्ग्यम्
  6. तुल्यप्राधान्यव्यङ्ग्यम्
  7. काक्वाक्षिप्तव्यङ्ग्यम्
  8. असुन्दरव्यङ्ग्यं च

एतेषु अष्ठसु प्रभेदेषु अपराङ्गव्यङ्ग्यं दिङ्मात्रमुदाह्रियते

अत्युच्चा: परित: स्फुरन्ति गिरय: स्फारास्तथाम्भोधयः
तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नम: ।
आश्चर्येण मुहुर्मुहु: स्तुतिमिति प्रस्तौमि यावद्भुवः ।
तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिता: ॥

अत्र अपराङ्गव्यङ्ग्याख्य: गुणीभूतव्यङ्ग्यप्रभेद: अस्ति । अपराङ्गव्यङ्ग्यमित्यस्य अयमर्थ: यत् अपरस्य रसादे: वाच्यस्य वा वाक्यार्थीभूतस्य अङ्गं रसादि इति । अत्र रसादिपदेन रसभावतदाभासादि रसाद्यष्ठकं ग्राह्यम् । पूर्वोक्ते श्लोके वक्तृनिष्ठो भूविषयको रतिभावो व्यङ्ग्य: । स च राजविषयकरतिभावस्य अङ्गं वर्तते इति भूविषयकरतिभावस्य अपराङ्गव्यङ्ग्यत्वम् उपपद्यते ।

चित्रकाव्यम्[सम्पादयतु]

चित्रकाव्यस्य अधमकाव्यमिति नामान्तरम् । मम्मटेन काव्यप्रकाशे तल्लक्षणम् इत्थमभिहितं वर्तते- 'शब्दचित्रमर्थचित्रम् अव्यङ्ग्यमवरं स्मृतम्'।

चित्रमित्यस्य गुणालङ्कारसहितमित्यर्थ: । यत्र केवलं शब्दे वाच्ये वाथेर् चमत्कारो भवति व्यङ्ग्ये त्वथेर् नैव तत्रायं तृतीय: प्रभेद: सम्भवति । रूपकादिषु उपमाया व्यङ्ग्यत्वे सम्भवत्यपि तस्य क्षुद्रत्वात् परिगणनं न क्रियते । शब्दचित्रस्योदाहरणं यथा –

स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाय व: ।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥

अत्र शब्दविन्यासे एव चमत्कारो वर्तते । गङ्गानदीवर्णनपरके अस्मिन् श्लोके अनुप्रासाख्य: अलङ्कारो वर्तते । अर्थचित्रस्योदाहरणं यथा –

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ ॥

अस्मिन् पद्ये अर्थवैचित्र्यं दृश्यते । 'वागर्थाविव सम्पृक्तौ’ इत्यत्रार्थ: उपमालङ्काररूपो वर्तते ।

रसगङ्गाधरकारो जगन्नाथरीत्या काव्यविभागाः[सम्पादयतु]

रसगङ्गाधरकारो जगन्नाथ ईषद्विलक्षणया रीत्या काव्यविभागं करोति । तन्मतानुसारेण काव्यम् उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अधमं चेति चतुर्धा विभज्यते । उक्तं च रसगङ्गाधरे – 'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।' इति ।

उत्तमोत्तमकाव्यम्[सम्पादयतु]

चतुर्षु प्रभेदेषु प्रथम: प्रभेद: उत्तमोत्तमकाव्यम् । तल्लक्षणं यथा – 'शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्त: तदाद्यम् ।'

यत्र शब्द: अर्थश्च गुणीभूत: सन् चमत्कारपूर्णमर्थं अभिव्यङ्क्त: तत्रायं प्रभेद: सम्भवति । तदुदाहरणं यथा –

शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥

आत्रालम्बनं नायक:, समीपशयनेन आक्षिप्त: रहःस्थानादि: उद्दीपनम्, ईषन्मुकुलितनेत्रनिरीक्षणम् अनुभाव:, त्रपौत्सुक्यादिश्च व्यभिचारी । एतेषां संयोगेन नायकविषयिका नायिकानिष्ठा रति: अभिव्यज्यते ।

उत्तमकाव्यम्[सम्पादयतु]

उत्तमकाव्यस्य लक्षणम् एवं वर्तते –' यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद् द्वितीयम् ।' इति। उदाहरणं यथा –

राघवविरहज्वालासन्तापितसह्यशैलशिखरेषु ।
शिशिरे सुखं शयाना: कपय: कुप्यन्ति पवनतनयाय ॥

रामचन्द्रस्य विरहवह्निना सह्यपर्वत: सन्तापितो वर्तते । तस्मात् शिशिरेऽपि काले कपय: सुखं शयाना आसन् । परं तु ते कपय आञ्जनेयाय कुप्यन्तीति वाच्योऽर्थ: । विरहज्वालावृत: श्रीरामचन्द्र: आञ्जनेयसमानीतया जानकीकुशलवार्तया इदानीं शिशिरीकृत: । एवं तस्य शिशिरीकरणे आञ्जनेय एव कारणम् । शिशिरकाले अस्माकं शीतबाधाया निवर्तक: रामनिष्ठो यो विरहाग्नि: इदानीं तस्य शमनमेतेन कृतमिति कपय आञ्जनेयाय कुप्यन्तीति व्यङ्ग्योऽर्थ: । स च व्यङ्ग्य: कोपोपादकतया गुणीभूतोऽपि चमत्कारकारणं वर्तते । तस्मादिदम् उत्तमकाव्यस्य उदाहरणं भवति ।

मध्यमकाव्यम्[सम्पादयतु]

मध्यमकाव्यस्य लक्षणं तावदिदम् – यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कार: तत्तृतीयम् । इति ।

यत्र व्यङ्ग्यचमत्कारो वाच्यचमत्कारस्य जठरे निलीन: सन् स्पष्ठतया अनुभवगोचरो न भवत्रि तत्रायं तृतीय: प्रभेद: सम्भवति । तदुदाहरणं यथा – तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ठहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी । इति । अत्र उत्प्रेक्षालङ्कारो वर्तते । स एव चमत्कारहेतु: । गङ्गाया: श्वेतत्वम्, मैनाकस्य पातालतलस्पर्शित्वम् इत्यादे: व्यङ्ग्यस्य सद्भावेऽपि स व्यङ्ग्य: वाच्ये उत्प्रेक्षालङ्कारे निलीनो भवति । तस्मादिदं मध्यमकाव्यस्य उदाहरणम् ।

अधमकाव्यम्[सम्पादयतु]

अधमकाव्यस्य लक्षणं तावदिदम् – यत्रार्थचमत्कृत्य्पस्कृता शब्दचमत्कृति: प्रधानं तदधमं चतुर्थम् । इति । यत्रार्थचमत्कारेण पोषित: शब्दचमत्कार: प्रधानो भवति तत्र चतुर्थ: प्रभेद: सम्भवति । तदुदाहरणं यथा

मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे ।
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नम: ॥

अस्मिन् पद्ये विष्णुपक्षीय: शिवपक्षीयश्चेति द्वावर्थौ स्त: । अत्रानुप्रासप्रयोज्य: शब्दचमत्कार एव प्रधानतया भासते । तस्मादिदम् अधमकाव्यस्य उदाहरणम् ।

एवं काव्यविभागे विषये प्रधानतया मतद्वयं वर्तते । प्रथमं मतं मम्मटादीनाम्, द्वितीयं च जगन्नाथादीनामिति मन्तव्यम् ।

काव्यं प्रकारान्तरेणापि विभज्यते । तदुक्तम् दर्पणकारेण – 'दृश्यश्रव्यत्वभेदेन पुन: काव्यं द्विधा मतम्’ इति । एवं काव्यं दृश्यं श्रव्यं चेत्यपि देधा विभज्यते । दृश्ये रूपकम् उपरूपकं चेति द्वैविध्यं वर्तते । तयोराद्यं दशधा अन्त्यं तु अष्ठादशधा सम्भवति । श्रव्यकाव्ये गद्यं पद्यं चम्पूश्चेति प्रधानतया त्रैविध्यं वर्तते । तत्रापि सूक्ष्मा अवान्तरविभागा वर्तन्ते इत्यलं विस्तरेण ॥

बाह्य सम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=काव्यविभागाः&oldid=262207" इत्यस्माद् पुनः प्राप्तिः