सामग्री पर जाएँ

तुलसीदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तुलसीदास इत्यस्मात् पुनर्निर्दिष्टम्)
तुलसीदासः
Stamp on Tulsidas
कान्चि मन्दिरे तुलसीदासस्य मूर्तिः तुलसीपीठम्, चित्रकूटम्,भारतम्
जन्मतिथिः 1497 or 1532[]
जन्मस्थानम् राज्पुरनगरम्, उत्तरप्रदेशराज्यम्, भारतम्
पूर्वाश्रमनाम रामबोला
मृत्युतिथिः १६२३
मृत्युस्थानम् वाराणासी, उत्तरप्रदेशराज्यम्, भारतम्
गुरुः/गुरवः नरहरिदासः
तत्त्वचिन्तनम् वैष्णवसम्प्रदायः
सम्मानाः गोस्वामी, अभिनववाल्मीकिः,भक्तशिरोमणिः, इत्यादयः
साहित्यिककृतयः रामचरितमानसम्, विनयपत्रिका, दोहावली, कवितावली, हनूमान् चालीसा, वैराग्य सान्दीपनी, जानकी मङ्गलम्, पार्वती मङ्गलम् इतराणि च
उक्तिः

सीयराममय सब जग जानी।
करउँ प्रनाम जोरि जुग पानी ॥

(रामचरितमानस १.८.२)

गोस्वामी तुलसीदासः (१५११ – १६२३ ई.) हिन्दीसाहित्यस्य महान् कविः आसीत् । अस्य जन्म सीरी शूकरक्षेत्रे वर्तमानस्य उत्तरप्रदेशान्तर्गतस्य एटाजनपदस्य कासगञ्ज इत्याख्ये ग्रामे अभवत् । केचन विद्वांसः वर्तमाने चित्रकूटजनपदे राजापुरनामके ग्रामे अस्य जन्म  मन्वते । अन्ये केचन गोनर्दजनपदे (गोण्डा) विद्यमाने शूकरखेत इत्याख्ये ग्रामे अस्य जन्म मन्वते । जनाः इमं रामायणरचयितुः आदिकवेः वाल्मीकेः अवतारं वदन्ति । अनेन अवधीभाषायां (हिन्दीभाषायाः उपभाषा) रामचरितमानस इत्याख्यं काव्यं रामस्य जीवनचरित्रस्य उपरि आधारितं वर्तते । तस्य कथानकं मूलतः बाल्मीकेः रामायणात् स्वीकृतं वर्तते । सः रामचरितमानसे स्वयम् उद्धरति –

नानापुराणनिगमागमसम्मतं यद्
रामायणे निगदितं क्वचिदन्यतोऽपि ।
स्वान्तःसुखाय तुलसी रघुनाथगाथा-
भाषानिबद्धमतिमञ्जुलमातनोति ।। - (रामचरितमानस/बालकाण्ड/श्लोकसङ्ख्या-७)

रामचरितमानस इत्याख्यः ग्रन्थः उत्तरभारते महत्या श्रद्धया गीयते । जनाः अस्य अष्टयामेषु अखण्डपारायणं कुर्वन्ति । तथैव नवाह्नपरायणविधिः मासपरायणविधिः अपि प्रचलति ।

अधिकांशाः विद्वांसः तुलसीदासस्य जन्मस्थानं राजापुरं मन्यन्ते । केचन तु शूकरक्षेत्रम् अपि कथयन्ति । राजापुरम् इति उत्तरप्रदेशस्य चित्रकूटजनपदान्तर्गतः एकः ग्रामः वर्तते । तत्रैव सनाढ्यब्राह्मणस्य आत्मारामद्विवेदिनः तथा हुलसीदेवी इत्यनयोः पुत्रः तुलसीदासः १५११ वि.सं. श्रावणमासे शुक्लपक्षे सप्तम्यां तिथौ अभुक्तमूलनक्षत्रे जन्म अलभत् । जनश्रुतिः वर्तते यत् अयं शिशुः द्वादशमासं यावत् गर्भे एवासीत् इत्यतः अस्य शरीरम् अतीव हृष्ट-पुष्टम् आसीत् । अयं सदन्तः एव जातः तथा च जन्मसमनन्तरम् एव स्वेष्टस्य भगवतः रामस्य नामोच्चारणं चकार । अतः एव अस्य नाम स्थानीयभाषानुसारं रामबोला (रामम् अवदत् इत्यर्थवाची) जातम् । अस्य जन्मनः द्वितीये दिवसे एव अस्य जननी हुबलीदेवी दिवंगतवती । तदा कुले मूलनक्षत्रजन्यम् अन्यदनिष्टं न स्यादिति विचिन्त्य पिता इमं बालकं चुनिया इत्याख्यायै भृत्यायै दत्तवान् । स्वयं च पत्नी-पुत्रवियोगकारणात् विरक्तः जातः ।

बाल्यावस्था

[सम्पादयतु]

यदा रामबोला पञ्चवर्षीयः जातः तदा तस्य पालिका चुनिया अपि परलोकं गता । अधुना अयं बालकः अनाथः सन् इतस्ततः भ्रमति स्म । तदा भगवतः शिवस्य अनुकम्पया रामशैले तपश्चर्यमाणस्य श्रीमत्-अनन्तानन्दस्य प्रियशिष्यः नरहरिदासः अमुं रामबोलायाः विषये बहुचर्चां श्रुत्वा तम् अन्विष्टवान् । अपि च अनाथम् अमुं बालकं सनाथीकृत्य तस्य विधिपूर्वकं तुलसीरामः इति नामकरणं कृतवान् । एवं रामबोला तुलसीरामः जातः । तदनन्तरं नरहरिदासः अमुं बालकम् अयोध्यां नीतवान् । तत्र विक्रमसंवति १५६१, माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ (सरस्वतीपूजोत्सवदिने अथवा वसन्तपञ्चमीदिवसे) अस्य यज्ञोपवीतसंस्कारम् अकारयत् । तदा यज्ञोपवीतसंस्कारावसरे अपि अयं बालकः अपाठितः सन्नपि गायत्रीमन्त्रस्य स्पष्टोच्चारणम् अकरोत् । तद् दृष्ट्वा सर्वे आश्चर्यचकिताः समभवन् । अनन्तरं नरहरिदासः वैष्णवोचितान् पञ्चसंस्कारान् कृत्वा राममन्त्रस्य दीक्षाम् अददत् तथा च अयोध्यायामेव उशित्वा अस्य बालकस्य विद्याध्ययनम् अकारयत् ।

बालकः तुलसीरामः तीक्ष्णबुद्धिः आसीत् । सः गुरुमुखात् एकवारम् एव श्रुत्वा कण्ठस्थीकरोति स्म । किञ्चिद्दिनानन्तरं नरहरिदासः तुलसीरामः च शूकरक्षेत्रं (सोरो) गतवन्तः । तत्र नरहरिदासः अमुं बालकं रामकथाम् अश्रावयत्, परन्तु सः बालकः सम्यग्रूपेण नाधिगतवान् ।  

यदा बालकः तुलसीरामः उनविंशद्वयस्कः (२९) आसीत्, तदा तस्य विवाहः १५६३ विक्रमसंवत्सरस्य ज्येष्ठशुक्लत्रयोदश्यां यमुनापारे स्थिते ग्रामे अतिसुन्दर्या भरद्वाजगोत्रोत्पन्नया रत्नावल्या सह सञ्जातः । परन्तु तस्य वध्वागमनं न जातम् अतः सः कस्मैचित् दिनाय काशीं गतः । तत्र महात्मनः शेषसनातनस्य समीपम् उशित्वा वेद-वेदाङ्गानाम् अध्ययने निरतः । एकदा सः स्वपत्न्या सह मेलनार्थं व्याकुलः जातः । असह्यवियोगे सति गुरोः अनुमतिं प्राप्य स्वजन्मस्थानं राजापुरं प्रत्यागतः ।  पत्नी रत्नावली तु मातृगृहे आसीत् अतः तया सह मेलितुं रात्रिकाले एव यमुनानदीं तीर्त्वा तत्र गतवान् तस्याः शयनकक्षं च प्रविष्टवान् । पत्नी रत्नावली तु अकस्मात् तं दृष्ट्वा आश्चर्यचकिता जाता । सा लोकलज्जाभयात् तं स्वगृहं प्रतिगन्तुम् उक्तवती, तदा तुलसीरामः ताम् अपि सहगन्तुम् आग्रहीतवान् । तस्य एवम् अप्रत्याशितं अकालिकं दुराग्रहं दृष्ट्वा एकेन दोहाकाव्येन तं बोधितवती । तेन ज्ञानेन बुद्धः तुलसीरामः प्रसिद्धः तुलसीदासः सञ्जातः । तद् दोहाकाव्यम् एवम् आसीत् –

अस्थि चर्ममय देह यह, ता सों ऐसी प्रीति ।
नेकूं जो होती राम से, तो काहे भव भीत ?

अस्यार्थः संस्कृते एवं भवेत् –

अस्थिचर्ममयो देहस्तत्र प्रीतिर्यथा तथा ।
रामे स्याच्चेन्न भीतिः स्याद्भवलोके कदाचन ।। 

अनेन प्रेरितः  तुलसीदासः पत्नीं विहाय स्वग्रामं राजापुरं प्रत्यागतः । ततः स्वग्रामे एव ग्रामवासिनः रामकथां श्रावितुम् आरब्धवान् ।

भगवतः श्रीरामस्य दर्शनम्

[सम्पादयतु]

कञ्चित् कालं यावत् राजापुरे भूत्वा ततः काशीं गतः तत्रापि जनान् रामकथां श्रावितवान् । कथाक्रमे एव एखस्मिन् दिने मानववेषधारी प्रेतः मिलितः, सः तुलसीदासं हनुमतः निवासविषये निर्दिष्टवान् । तुलसीदासः हनुमता सह मिलित्वा तं रघुनाथस्य भगवतः रामस्य दर्शनं कारयितुं प्रार्थिवान् । हनुमान् निर्दिष्टवान् यत् चित्रकुटनगरे भगवतः रामस्य दर्शनं भविष्यति इति । एवं श्रुत्वा तुलसीदासः चित्रकुटाय प्रस्थितवान् । चित्रकूटं प्राप्य मन्दाकिन्याः तटे रामघट्टे स्वकीयम् आसनं कृतवान् । एकदा यदा सः प्रदक्षिणां कर्तुं प्रस्थितवान्, तदैव अकस्मात् श्रीरामस्य दर्शनम् अभवत् । सःदृष्टवान् यत् अतीव सुशोभनौ अश्वारूढौ शर-चापहस्तौ द्वौ राजकुमारौ गच्छतः इति । तुलसीदासः तौ दृष्ट्वा आकृष्टः जातः, परन्तु न तौ अभिज्ञातवान् यदेतौ रामलक्ष्मणौ इति । अनन्तरं यदा हनुमान् आगत्य उक्तवान्, तदा सः स्वमूढतायै खिन्नः जातः । हनुमान् पुनः सान्त्वयन् उक्तवान् यत् श्वः पुनः दर्शनं भवेत् इति ।

अपरेद्युः संवति १६०७ मौनी-अमावश्यायाम् बुधवासरे पुनः भगवान् श्रीरामः प्रकटीभूतः, सः बालरूपधारी भगवान् श्रीरामः आगत्य तुलसीदासम् उक्तवान् यत् मह्यं चन्दनं देहि इति । गुप्तरूपेण विराजमानः हनुमान्, अचिन्तयत् यत् पुनरपि तुलसीदासः वञ्चितः न भवेत् । अतः सः काव्यरूपेण निर्दिष्टवान् –

चित्रकूट के घाट पर भई सन्तन की भीर ।
तुलसीदास चन्दन घिसे तिलक देत रघुवीर ।।

अस्य अर्थः संस्कृते – चित्रकूटस्य घट्टे सन्तजनानां सम्मर्दः अस्ति । अस्मिन् एव जन समूहे तुलसीदासः चन्दनं घर्षयति, तथा च तत् चन्दनं स्वीकृत्य भगवान् श्रीरामः तिलकं करोति इति ।

एवं गूढवचनं श्रुत्वा तुलसीदासः ज्ञातवान् यदये बालकरूपधारी भगवान् रामः एवेति । अन्ततः भगवान् श्रीरामः चन्दनं नीत्वा स्वमस्तके ततः प्रसादरूपेण तुलसीदासस्य मस्तके अपि लेपितवान् । पुनः अन्तर्ध्यानः जातः ।

तुलसीदासस्य संस्कृतपद्यरचना

[सम्पादयतु]

संवति १६२८वि. तुलससीदासः हनुमतः आज्ञया अयोध्यानगर्यै प्रस्थितः । तदा प्रयागे माघमासिकः सङ्गमस्नानकालः आसीत् । अतः तत्रैव कानिचित् दिनानि स्थितवान् । पर्वणः समाप्तेः षड्दिनानन्तरं वटवृक्षस्य अधः भरद्वाजमुनेः ऋषियाज्ञवल्क्यस्य च दर्शनम् अभवत् । तस्मिन् समये तत्र सा एव रामकथा प्रचलति स्म, यां कथा सः शूकरक्षेत्रे स्वगुरुणा श्रुतवान् आसीत् । माघपर्वसमाप्तेः अनन्तरं सः प्रयागात् पुनः काशीम् आगतः, तत्र सः प्रह्लादघट्टे स्थिते एकसस्मिन् ब्राह्मणगृहे निवासं कृतवान् । तत्रैव सः कवित्वशक्तिं प्राप्तवान् । अथ च संस्कृते पद्यरचनाम् आरब्धवान् । परन्तु सः आदिनं यावत् पद्यरचनां करोति स्म, तत् सर्वमपि रात्रौ लुप्तं भवति स्म । एवं प्रतिदिनं भवति स्म इत्यतः सः बहुखिन्नः जातः । अष्टमे दिवसे सः स्वप्नं दृष्टवान् यत् भगवान् शिवः स्वलोकभाषया काव्यं कर्तुम् आदिशति इति । तुलसीदासः स्वप्नं दृष्ट्वा जागृतः । तत्क्षणं भगवान् शिवः पार्वतीसहितः प्रकटीभूतः । तुलसीदासः साष्टाङ्गप्रणामम् अकरोत् । प्रसन्नश्च शिवः उक्तवान् यत् त्वम् अयोध्यायाम् उशित्वा लोकभाषया काव्यरचनां कुरु । मम आशीर्वचनेन तव काव्यं सामवेदसमं फलीभविष्यति इति । तुलसीदासः भगवतः शिवस्य आज्ञां शिरोधार्य अयोध्यं गतः । तत्र च तत्रत्यां लोकभाषायाम् (अवधीभाषायाम्) रामचरितमानसकाव्यस्य रचनाम् अकरोत् ।

रामचरितमानसस्य रचना

[सम्पादयतु]

विक्रसंवति १६३१ प्रारम्भे, चैत्रशुक्लनवम्यां रामनवमिदिवसे तादृशः एव योगः आसीत् यथा त्रेतायुगे रामजन्मदिवसे आसीत् इति । तस्मिन् दिने प्रातःकाले तुलसीदासः रामचरितमानसकाव्यस्य रचनाम् आरब्धवान् । वर्षद्वये सप्तमासेषु षड्विंशेषु दिनेषु (२वर्षम्, ७ मासाः, २६ दिनानि) अयं ग्रन्थः रचितः । एवं विक्रमसंवति १६३३ मार्गशीर्षमासस्य शुक्लपक्षे रामविवाहदिवसे अस्य सप्तकाण्डानि पूर्णानि जातानि ।

ततः भगवतः आज्ञया तुलसीदासः काशीं प्रतिगतः । तत्र भगवन्तं विश्वनाथं तथैव मातरम् अन्नपूर्णादेवीं रामचरितमानसं श्रावितवान् । रात्रिकाले ग्रन्थमिमं विश्वनाथमन्दिरे एव स्थापितवान् । प्रातःकाले यदा मन्दिरकपाटः उदद्घाटितः, तदा सर्वे दृष्टवन्तः यत् ग्रन्थस्य उपरि सत्यं शिवं सुन्दरम् इति लिखितं वर्तते, तत्रैव अधः भगवतः शिवस्य पुष्टिप्रदायकं हस्ताक्षरम् अपि अस्ति इति । तत्रोपस्थिताः जनाः सत्यं शिवं सुन्दरम् इत्यस्य ध्वनिम् अपि श्रुतवन्तः ।

यदा काशीपण्डिताः इदं वृत्तान्तं श्रुतवन्तः, तदा तेषां मनसि ईर्ष्या सञ्जाता । ते सर्वे मिलित्वा तुलसीदासस्य निन्दाम् आरब्धवन्तः, तथैव पुस्तकस्य विनाशार्थं यत्नम् आरब्धवन्तः । ते पुस्तकं चोरयितुम् चोरद्वयं प्रेषितवन्तः । तौ गत्वा दृष्टवन्तौ यत् तुलसीदासस्य कुटीसमीपे द्वौ धनुर्धरौ रक्षां कुरुतः । द्वावपि युवकौ अतीव सुन्दरौ क्रमशः श्यामगौरवर्णीयौ स्तः । तयोः दर्शनमात्रेण चोरयोः बुद्धिः विशुद्धा जाता । तौ तदारभ्य चौरकार्यम् एव त्यक्त्वा भजनकर्मणि निरतौ जातौ । तुलसीदासः यदा ज्ञातवान् यत् अत्र मम रक्षायै भगवान् श्रीरामः स्वयं कष्टम् अनुभवति तदा सः दुःखितः जातः । अतः सः कुटीरे विद्यमानानि वस्तूनि सर्वाणि अन्येभ्यः दत्तवान्, पुस्तकं च टोडरमलस्य समीपे सुरक्षादृष्ट्या स्थापितवान् (टोडरमलः तात्कालीनस्य साम्राजः अकबरस्य नवरत्नेषु एकः आसीत्) । ततः सः स्वकीयया विलक्षणस्मरणशक्त्या स्मृत्वा तस्य द्वितीयां प्रतिं पुनः लिखितवान् । तथैव अश्य अन्याः अपि प्रतिलिपयः निर्मिताः । अधुना अस्य ग्रन्थस्य प्रसारः निरन्तरं वर्धितः ।

काशीपण्डिताः अधुना अवरोधस्य अन्यः उपायः नास्ति इति विचिन्त्य, मधुसूदनसरस्वती इत्याख्यं महापण्डितं प्रार्थितवन्तः यत्, तद् पुस्तकं परिशील्य स्वस्य अनुमतिं यच्छेत् इति । मधुसूदनसरस्वती तद् पुस्तकं दृष्ट्वा अतिप्रसन्नः जातः । सः पुस्तकस्य विषये टिप्पणीं दत्तवान् –

आनन्दकानने ह्यस्मिञ्जङ्गस्तुलसीतरुः ।
कविता मञ्जरी भाति रामभ्रमरभूषिता ।।

काशीपण्डिताः अधुना अपि असन्तुष्टाः आसन् । ते पुस्तकस्य योग्यतापरीक्षायै अन्यम् उपायं कल्पितवन्तः । विश्वनाथमन्दिरे सर्वोपरि वेदान् ततः अधः शास्त्राणि ततश्च पुराणानि तथा सर्वततोऽधः रामचरितमानसं स्थापितवन्तः । प्रातः पुनः यदा दृष्टवन्तः रामचरितमानसग्रन्थः सर्वतोपरि विद्यते, तदा सर्वे पण्डिताः लज्जिताः जाताः । ते तुलसीदासं क्षमां प्रार्थितवन्तः, भक्तिभावेन तस्य चरणोदकम् पीतवन्तः इति ।

मृत्युः

[सम्पादयतु]

तुलसीदासः यदा काश्याः प्रसिद्धे असीघट्टे वासम् आरब्धवान् । तदा एकस्यां निशि कलियुगः मूर्तरूपं धृत्वा तत्समीपम् आगत्य पीडनम् आरब्धवान् । पीडितः तुलसीदासः हनुमतः स्मरणं कृतवान् । हनुमांश्च प्रकटीभूय प्रार्थनापदानि रचितुं निर्दिष्टवान् । तदा तुलसीदासः स्वकीयाम् अन्तिमां कृतिं विनयपत्रिकां लिखित्वा भगवतः श्रीचरणयोः अर्पितवान् । भगवान् श्रीरामः तस्सिन् स्वहस्ताक्षरं कृत्वा तुलसीदासं भयमुक्तम् कृतवान् ।

अत्रैव असीघट्टे विक्रमसंवति १६८०, श्रावणमासस्य कृष्णपक्षे तृतीयां शनिवासरे रामनामस्मरणं कुर्वन् तुलसीदासः स्वशरीरं परित्यक्तवान् ।

तुलसीदासस्य रचनाः

[सम्पादयतु]

काशीस्थेन नागरीप्रचारिणीसभा इत्याख्येन सङ्घटनेन प्रकाशिताः तुलसीकृतग्रन्थाः एवं विद्यन्ते –

रामचरितमानसम्, रामललानहछू, वैराग्यसन्दीपनी, बरवै रामायणम्, पार्वतीमङ्गलम्, जानकीमङ्गलम्, रामाज्ञाप्रश्नः, दोहावली, कवितावली, गीतावली, श्रीकृष्णगीतावली, विनयपत्रिका, सतसई, छन्दावली रामायणम्, कुण्डलियारामायणम्, रामशलाका, सङ्कटमोचनम्, करखारामायणम्, रोलारामायणम्, झूलना, छप्पयरामायणम्, कवित्तरामायणम्, कलिधर्माधर्मनिरूपणम्, हनुमानचालीसा ।

उल्लेखाः

[सम्पादयतु]
  1. Pandey 2008, pp. 23–34.

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=तुलसीदासः&oldid=464322" इत्यस्माद् प्रतिप्राप्तम्