वामनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वामन इत्यस्मात् पुनर्निर्दिष्टम्)


प्रस्तुतिः[सम्पादयतु]

कल्हणस्य राजतरङ्गिण्याम्

मनोरथशङ्खदत्तः शकटस्सन्धिमांस्तथा ।
बभूवुः कवयस्तस्य वामनाद्याश्च पण्डिताः ॥

इति पद्येन काश्मीरस्य राज्ञः जयापीडस्य आस्थाने वामनः आसीदिति ज्ञायते । एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । काशिकायाः रचयिता अपिच काव्यालङ्कारसूत्रवृत्तेःश्च रचयितारौ भिन्नौ एव भासतः । काव्यालङ्कारसूत्रवृत्तिनामकलक्षणग्रन्थद्वारा रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।

कालः[सम्पादयतु]

काश्मीरराजस्य जयापीडस्य कालः क्रि.श.७५५ तः ७८६ पर्यन्तम् आसीत् । एवम् निश्चयेन तदाश्रितस्य वामनस्यापि कालः स एव अष्टमशतमानस्य उत्तरार्धम् भवितुमर्हति ।

कृतयः[सम्पादयतु]

अस्मिन् अलङ्कारशास्त्रग्रन्थे ५ अधिकरणानि १२भिः अध्यायैः विभक्तानि सन्ति । यथास्य अनुक्रमणिका वर्तते ।

अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम् ।
अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ॥
काव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम् ।
तुर्ये पदपदार्थानां दोषतत्वविवेचनम् ।।
वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् ।
गुणालङ्कारभेदास्तु षष्ठे शब्दगुणास्तथा ।।
सप्तमेऽर्थगुणाः शब्दालङ्काराः पुनरष्टमे ।
उपमा नवमे तस्याः प्रपञ्चो दशमे भवेत् ।।
काव्यस्यैकादशे संविद्वादशे शब्दशोधनम् ।
इत्येष द्वादशाध्यायीप्रमेयाणामनुक्रमः ॥

अपि च एष स्वस्य ग्रन्थस्य विचारे स्वयमेव वदति, यथा-

पावनी वामनस्येयं पदोन्नतिपरिष्कृता ।
गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी ॥ इति ।

अस्य ग्रन्थस्य गोपेन्द्रतिप्पभूपालनामा कामधेनुः इत्याख्यां व्याख्याम् आचख्ये । सः स्वव्याख्यानारम्भे वदति यत्-

पावनपदविन्यासा समग्ररदोहशालिनी भजताम् ।
घटयति कामितमर्थं काव्यालङ्कारकामधेनुरियम् ॥ इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वामनः&oldid=438464" इत्यस्माद् प्रतिप्राप्तम्