प्रत्याहारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योगशास्त्रस्य प्रणेता पतञ्जलिः
स्वविषयसम्प्रयोगे चित्तस्वरुपानुकार इवेन्द्रियाणां प्रत्याहारः । (य.दा. -२/५४)

स्वस्मिन् विषये अनासक्तानाम् इन्द्रियाणां चित्तरुपे अवस्थितिः प्रत्याहारः । यदा इन्द्रियाणि अनासक्तानि भूत्वा स्वविषयेण साकं सम्वन्धं न स्थापयन्ति, चित्तरुपस्यानुकरणञ्च कुर्वन्ति तदा प्रत्याहारो भवति । चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम् इति (त्रि.वा.-३०) त्रिशिखाब्राह्मणोपनिषदि लिखितमस्ति । प्रत्याहारः – इन्द्रियाणां तद्विषयेम्यो निवर्तनम्, अन्तर्मुखीकरणञ्च प्रत्याहारो भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रत्याहारः&oldid=480602" इत्यस्माद् प्रतिप्राप्तम्