वाचस्पतिमिश्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


देश-विदेह, मिथिला, कालः १००-१८० भारतीयदर्शननेशु वेदान्तदर्शनं मुकुटप्रायम्। तत्रापि अद्वैतसिद्धान्तः भारतदेशे विदेशेषु च प्रथते। स च सिद्धान्तः बादरणसुत्रग्राहेहिभिः परमपूज्यैः श्री शङ्कभगवत्पादैः साक्षात्कृत्य सार्वत्र प्रसारितः व्याख्यान कृतम्। तत्पश्चात् अनेकैः विद्वभिः परिवाजकै च शाङ्करसिद्धान्तः जनमानसे स्थरीकृतः। शङ्करोत्तरादैव्तसिद्धान्तप्रचारकेषु परं प्रसिदि आप्ताः वाचस्पतिमिश्राः। यद्यपि एतेषां विषये स्पष्टः विचार नोपलभ्यते। तथापि विमर्शकाः लब्धप्रमाणानि प्ररामृश्य एते नवमशतकस्य मध्यभागे मिथिलानगरे व्यरजन्त इति वदन्ति । संस्क्तसाहित्याव्लोक्कने मिषेति उपाह्व्युताः बह्वः अत्तिपथमायान्ति । तन्त्रपुराणधर्मशास्त्र-ज्योतिषसांख्ययोगादि नानाविधविचारग्रन्थाःएषां वेदान्तमतानुयायिनां मिश्राणां नाम्नि एव सन्ति । एते वाचस्पतिमिश्राः शाङ्करसूत्राभाष्यं प्रौढरीत्या व्याचत्तुः। तस्य व्याख्यानस्य नाम भामतीति। तस्य व्याख्यानं तादृशी प्रख्यातिम् अलभत यथा ”भामतीकाराः” इत्येवं ख्यातिं लेभिरे। एतेषां पाण्डित्यम् असदृशं प्रखरं च आसीत् । सर्वदर्शनविषयाः एतैः स्पृष्टाः। अतः एव एतान् “षड्दर्शनटीककृदाचार्याः” “द्वादशदर्शनकाननपंचाननाः” इति सुधियः स्तुवन्ति । एते मिथिलानगरस्य नृगराजस्य आस्थाने स्थित्वा नैकग्रन्थान् प्राणैषुः। त्रिलोचनाख्यान् विदुषुः मिश्राः स्वगुरुत्वेन् उररीच एतेषां विषये एका रोचककथा श्रुतिपथम् आयाति । एते सूत्रभाष्यव्याख्यानलेख्यानकाले सम्पूर्णतया विचारे निमग्नाः। ऊढाः ते पत्नीं गृहं समस्तऎहिकसुखानि विस्मृत्य शाङ्करान्तरङ्गाः भूत्वा व्याख्यानलेखनपरा अवर्तन्त। पत्नी तु साध्वी पतिपरायणा बहुवर्षपर्यन्तं तान् असेवत्। ग्रन्थसमापतौ पुनः ऎहिकलोकमागताः ते पत्नीन् अभिज्ञातवन्तः बहुवत्सरपर्यन्तं कृतां तस्याः सेवां पुरस्कृत्य तस्याः नाम एव स्वव्याख्यानस्य नाम कृतवन्तः भामतीति। एभिः रचिताः ग्रन्थाः १. न्यायकणिका-श्री मण्डनमिश्रैः लिखितस्य विधिविवेक ग्रन्थस्य व्याख्यानम्। २. तत्वबिन्दुः_कुमारिलभट्ट्स्य शाब्दबोधप्रकारस्य विवरणम्। ३. न्यायवार्तिकतात्पर्यटीका-उध्योतकरस्य वात्स्यायनभाष्यवार्तिकस्य व्याख्यानम्। ४. न्यायसूचीनिबन्धः-न्यायशास्त्रविषयक ग्रन्थः। ५. साख्यतत्तवकौमुदी-ईश्वरकृष्णकृत सांख्यकारिकायाः व्याख्यानम्। ६. तत्तव शारदी-व्यासकृत योगसूत्रभाष्यस्य व्याख्यानम् ।

सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्थ ब्रह्मसूत्रशारीरकभाष्यस्य भामत्यन्ते निर्दिष्टाः –

यत्र्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ॥
समचैषं महत्पुण्यं तफलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥

खण्डनोध्दारकृद् वाचस्पतिमिश्रस्त्वस्माद्बिन्नो नवीनश्च । खण्डनोध्दारः श्रीहर्षप्रणीतं खण्डनखण्डखाद्यं लक्ष्मीकृत्य कृतो वाचस्पतिना । श्रीहर्षस्तूदयनादधस्तनः । यस्माद् उदयनाचार्यकृतस्य न्यायकुसुमाञ्जलेः –

शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥

इति कारिकैव श्रीहर्षेण खण्डनखाद्ये –

तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा ।
त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि ॥
व्याघातो यदि शङकास्ति न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥

इत्येवं कटाक्षिता । सोऽयं तत्त्वचिन्तामणिकाराद् गङ्गेशरादप्यधस्तनो यस्मात्खण्डनखण्डखाद्ये –

धीधना बाधनायास्यास्तदा प्रज्ञां प्रयच्छथ ।
क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ॥’

इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये नैषधीयचरिते चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया महोदयापरनाम्नः कान्यकुब्जनगरस्य कान्यकुब्जदेशस्य वा विद्वद्विहंगमाबासकल्पषादपायितेष्वधिपतिषु महाराजो बिजयचन्द्रस्तत्सूनुर्जयचन्द्रो वा संभवति । यस्मात्त्समयस्तदीयदानपत्रात् पश्चविंशत्यधिकद्वादशशतसंवत्सरः १२२५ (इण्डियन् आण्टिक्वेरी १५-७८८)। नैषधीयचरितस्य पश्चमसर्गान्ते कीर्तिता विजयप्रशस्तिः कदाचित्कान्यकुब्जेश्वारस्य विजयचन्द्रस्यैव भवेत् । श्रीहर्षस्य पिता हीरः (हीरा) माता मामह्लदेवी (मामला) देशो जातिश्छ कान्यकुब्जेः (कतबजिया ) । एतद्वंश्याः कतिपयेऽधुना वङ्गेषु निवसन्तः स्वस्यामिजनं कान्यकुब्जं, खपूर्वपुरुषं श्रीहर्ष च कथयन्तीति सुप्रसिध्दम् ॥

""

"https://sa.wikipedia.org/w/index.php?title=वाचस्पतिमिश्रः&oldid=374072" इत्यस्माद् पुनः प्राप्तिः