तन्त्रशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


तन्त्रशास्त्रम् (Tantra) इत्येषः भारते विकसितेषु शास्त्रेषु अन्यतमम् । आदौ ’तन्त्र’इत्येतस्य शब्दस्य विशेषज्ञानं ज्ञानभण्डारः इति वा अर्थः स्यात् । कालक्रमेण इदं शक्त्युपासनशास्त्रत्वेन निर्दिष्टं जातम् । एतस्मिन् शास्त्रे धर्मशास्त्रस्य, तत्त्वदर्शनस्य, विविधोपासनमार्गिणां नियमाणां, खगोलविज्ञानस्य, ज्योतिश्शास्त्रस्य, वैद्यशास्त्रस्य, क्रान्तदर्शनशास्त्रस्य च विषयाः अन्तर्भूताः सन्ति ।

व्युत्पत्तिः मूलञ्च[सम्पादयतु]

पदरचनाशास्त्रानुगुणं ’तन्त्र’ इत्येतत् पदं तन् (प्रसारः) त्रै (रक्षणम्) इत्येताभ्यां धातुभ्यां निष्पन्नं विद्यते । तत्त्वस्य (मूलभूतनियमानां), मन्त्रस्य (पवित्रपदानाम् अक्षराणाम्) च ज्ञानप्रसाराय, अज्ञानात् साधकानां रक्षणाय च विद्यते इदं शास्त्रम् । तन्त्रशास्त्रे दृश्यमानं मोक्षविषयकं प्रामुख्यं, वर्णाश्रमधर्मविषयकं गौरवञ्च तदीयां वेदश्रद्धां द्योतयति । तस्मिन् विद्यमानं पञ्च-मकारसाधनं, शवसाधनम् इत्यादीनि अवैदिकसम्प्रदायेन सह तदीयम् आप्तसम्बन्धं द्योतयति ।

तान्त्रिकसाहित्यम्[सम्पादयतु]

तान्त्रिकग्रन्थानुसारं तन्त्राणि बहूनि । तन्त्राणां सङ्ख्या ६४ इति निर्दिश्यते चेदपि तस्मिन् विषये शास्त्रग्रन्थेषु सम्मतिः नास्ति ।

विभागः[सम्पादयतु]

  • १ सदाशिवः देव्या सह कृतानि सम्भाषणानि आगमः देवी सदाशिवेन सह कृतानि सम्भाषणानि निगमः इति निर्दिश्यते ।
  • २ दक्षिण-वाम-मध्यमाः
  • ३ दिव्य-कौल-वामाः
  • ४ यामल-डामरग्रन्थाः

देव्याः उपासनाप्रधानाः ग्रन्थाः[सम्पादयतु]

ईशानगुरुदेवपद्धतिः, कामकलाविलासः, कौलावलीनिर्णयः, कौलचूडामणितन्त्रम्, ललितासहस्रनाम, महानिर्वाणतन्त्रम्, मन्त्रमहोदधि, नित्याषोडशिकार्णव, पारानन्दसूत्रम्, प्रपञ्चसारः, शक्तिसङ्गमतन्त्रम्, शारदातिलकम्, सौन्दर्यलहरी, तन्त्राभिदानम्, तन्त्रराजतन्त्रम्, वरिवस्यारहस्यम्

यामलतन्त्राणि[सम्पादयतु]

ब्रह्मयामलः, विष्णुयामलः, रुद्रयामलः, लक्ष्मीयामलः, उमायामलः, स्कन्दयामलः, गणेशयामलः, आदित्यमामलः

डामरतन्त्राणि[सम्पादयतु]

योगडामरः, शिवडामरः, दुर्गाडामरः, सारस्वतडामरः, ब्रह्मडामरः, गन्धर्वडामरः

बौद्धपरम्परान्तर्गततन्त्राणि[सम्पादयतु]

मञ्जुश्रीमूलकल्पः, गुह्यसमाजतन्त्रम्

विषयस्वरूपम्[सम्पादयतु]

विविधाः आगमाः तन्त्राणि च विद्यन्ते चेदपि तेषु केचन सामान्यगुणधर्माः विद्यन्ते । एतानि वेदसम्बद्धानि एव किन्तु युगधर्मानुसारं व्याख्याने भेदः विद्यते इति अभिप्रायः श्रूयते । तन्त्राणाम् अभ्यासाय जाति-लिङ्गभेदाः न विद्यन्ते । तन्त्रेषु चर्चिताः विषयाः चतुर्षु पादेषु विभक्ताः सन्ति -

ज्ञानपादः[सम्पादयतु]

तन्त्राणि कस्य तत्त्वस्य दर्शनस्य वा आधरेण स्थितानि सन्ति इति विवृणोति ज्ञानपादः । तच्च तत्त्वं वेदान्तस्य साङ्ख्यदर्शनस्य सूत्राणां संयोजनरूपं विद्यते ।

योगपादः[सम्पादयतु]

जीवनस्य परमलक्ष्यरूपं परमात्मैक्यतां साधयितुं मुमुक्षुभिः अनुसर्तव्यः साधनमार्गः, अध्यात्मानुशासनं संयमः इत्येतेषां विवरणं ददाति अयं पादः ।

क्रियापादः[सम्पादयतु]

व्यक्तिः समाजस्य अविभाज्यम् अङ्गम् । तदीया उन्नतिः समाजस्य उन्नत्या स्म्मिलितं वर्तते । अतः तन्त्रेषु समाजस्य धर्मः, समाजेन अनुसरणीयः जीवनमार्गः, व्यक्ति-समाजयोः सामरस्यसाधनञ्च बोधितानि सन्ति ।
अस्यां दिशि देवालये आचर्यमाणा पूजा इव सामूहिकार्चनं, यज्ञयागादीनाम् आचरणं, तीर्थयात्रामहत्त्वञ्च बोधयति अस्मिन् क्रियापादे ।

चर्यापादः[सम्पादयतु]

व्यक्त्या स्वीये जीवने आचरणीयानि कर्माणि, विविधसाधनानि च चर्यापादे विवृतं वर्तते । साधकेन अनुसरणीयाः अनुशासनसंयमादयः प्रारम्भसाधकम्, निपुणसाधकञ्च उद्दिश्य उक्तानि सन्ति ।

अन्ये विषयाः[सम्पादयतु]

वेदानाम् आधारेण रचितानां तन्त्राणाम् आगमानाञ्च प्रामाण्यम्, जगतः सृष्टिः, वैखरी-वाक् वचसः आविर्भावः वा, वर्णमालायाः अक्षराणि, दीक्षासमये अनुसरणीयाः कर्मविधयः (उदा - वास्तुयागः), दीक्षाप्रकाराणि, होमविधिः, हिन्दूधर्मे विविधदेवतासम्बद्धाः मन्त्राः (उदा- सरस्वती, लक्ष्मीः, भुवनेश्वरी, दुर्गा, विष्णुः, गणपतिः, शिवः इत्यादीनां देवतामन्त्राः), उपरि निर्दिष्टानां देवतानां सम्बद्धानि यन्त्राणि, रेखाचित्राणि, कुण्डलिनी/षट्चक्र/अध्यात्मकेन्द्राणां विवरणयुक्तानि योगसाधनानि इत्यादीनि ।

"https://sa.wikipedia.org/w/index.php?title=तन्त्रशास्त्रम्&oldid=395396" इत्यस्माद् पुनः प्राप्तिः