अद्वैतवेदान्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । आस्य मतस्य प्रवर्तकः शङ्कराचार्यः । अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुति स्मृति सूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुर्वर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम् उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः मोक्षः नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे आत्मनः स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते ।
उपनिषन्मन्त्रसमूहस्यापि वेदान्तः इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् ब्रह्म, तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न मिलति । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् उपनिषत् वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।

तत्त्वानि[सम्पादयतु]

अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः अध्यासः इति । वेदान्तनये अपि तत्त्वानि भविष्यन्ति । तद्यथा- ब्रह्म, सगुणब्रह्म, निर्गुणब्रह्म, सोपाधिकः, सर्वज्ञः, परमेश्वरः, जीवः, जीवस्वरूपम्, आत्मनः स्वयंज्योतिष्ट्वम्, जीवात्म-परमात्मनोः ऐक्यम्, तयोः जीवात्मपरमात्मनोः अभेदप्रतिपादनम्, मायोपाधिना ईश्वरः, अविद्योपाधिना जीवः इति प्रतिपादनम्, अविद्या, माया उपाधिः, संसारस्य अनादित्वम्, सृष्टिः, जगत्, सृष्टिविषये ब्रह्मणः उपादानकारणत्वम्, निमित्तकारणत्वम्, प्रपञ्चमिथ्यात्वम्, जाग्रत्स्वप्नसुषुप्त्याद्यवस्थानां प्रतिपादनम्, स्वप्नदृष्टान्तः, पञ्चमहाभूतानां विवेचनम्, पञ्चज्ञानेन्द्रियाणि, एवमन्तःकरणस्योत्पत्तिः, पञ्चकर्मेन्द्रियाणि, तथा प्राणस्योत्पत्तिः, स्थूलशरीरम्, लिङ्गशरीरम्, कारणशरीरम्, सत्तात्रैविध्यम्, ब्रह्मणि पञ्चभूतानां लयः, सृष्टेः पूर्वं ब्रह्मणः स्वरूपप्रतिपादनमित्यादीनि तत्त्वानि प्रतिपादितानि, एवं तेषां तत्त्वानां स्वरूपविवेचनमपि सम्यक् प्रसाधितम् ।

मुख्यविषयाः[सम्पादयतु]

सृष्टिप्रक्रिया कारणवादः च[सम्पादयतु]

ब्रह्मा मयोपाधिना सहितः ईश्वरो भूत्वा जगतः सृष्टेः कारणीभूतः अस्ति । जगतः सृष्टिः इच्छापूर्विका[१] । अस्यां सृष्टिप्रक्रियायां ईश्वरः निमित्तकारणम् भवति । ईश्वरस्य सङ्कल्पेनैव आदौ आकाशस्य समनन्तरं क्रमशः वायोः, तेजसः, जलस्य, पृथिव्याः च पञ्चभूतानां सृष्टिः अभवत् ।[२] एतेषु आकाशे शब्दगुणः, वायौ शब्दः स्पर्शश्च, तेजसि शब्दः, स्पर्शः, रूपञ्च, जले शब्दः, स्पर्शः, रूपम्, रसश्च, पृथिव्यां शब्दः, स्पर्शः, रूपम्, गन्धः च गुणाः भवन्ति । एतानि पञ्चभूतानि मायया सहितानि ।

सत्यत्वं ख्यातवादः च[सम्पादयतु]

ज्ञानानां विषये दार्शनिकाः विवेचितवन्तः । पञ्चविधख्यातयः निरूपिताः सन्ति । आख्यातिः, असत्ख्यातिः, आत्मख्यातिः, अन्यथाख्यातिः, अनिर्वचनीयख्यातिः च । मीमांसकानाम् आख्यातवादः, माध्यमिकबौद्धानाम् असत्ख्यातिवादः, योगाचार्याबौद्धानाम् आत्मख्यातिवादः, तार्किकानाम् अन्याथाख्यातिवादः, अद्वैतिनाम् अनिर्वचनीयख्यातिवादः च । माया सत्, असत्, सदसत्, इति निर्वचनं न शक्यते । अतः अनिर्वचनीयम् अस्ति माया । मायायाः स्वरूपं शङ्कराचार्यः विवेकचूडामणौ वर्णितवान् अस्ति ।

सन्नप्यसन्नप्युभयात्मिका नो
भिन्नाप्यभिन्नाप्युभयात्मिका नो
साङ्गाप्यनङ्गाप्युभयात्मिका नो
महाद्भुताऽनिर्वचनीयरूपा ॥ इति

मोक्षस्वरूपम्[सम्पादयतु]

चतुर्विधपुरुषार्थेषु मोक्षाख्यः अन्यतमः । मोक्षः आत्मनः सहजस्वरूपम् । स्वाभाविकतया जीवः नित्यशुद्धबुद्धमुक्तः । मोक्षः प्राप्यः उत्पाद्यः वा न । बृहदारण्यकोपनिषदः शाङ्करभाष्यस्य सुरेश्वराचार्यः व्याख्यानं कृतवान् । तस्मिन् मुक्तेः स्वरूपम् निरूपितवान् अस्ति[३], कश्चित् राजकुमारः बाल्ये व्याधकुले प्रवृद्धः। कालान्तरे नाहं व्याधः राजकुमारोऽहम् इति ज्ञातवान् । तथैव, जीविः तत्त्वमसि इत्यादिभिः महावाक्यैः अज्ञाननिवृत्तिं सम्प्राप्य, जीवब्रह्मणोः अभेदं ज्ञात्वा च स्वस्वरूपभवनम् मोक्षः । सहजस्वरूपस्य अज्ञानावरणनिवृत्तिः एव वेदान्तस्य लक्ष्यम् इति शङ्कराचार्यः प्रतिपादितवान् अस्ति ।[४] ब्रह्मणः अपरोक्षज्ञानमेव मोक्षसाधनम् । ब्रह्मज्ञानं श्रवणात् अनुभवे पर्यवसतं भवति[५]। ब्रह्मणः विषये श्रुत्याद्याः, अनुभवाः च प्रमणभूताः । ब्रह्मज्ञानं मोक्षसाधनम् न तु शाब्दज्ञानम् इति शङ्कराचार्यः उल्लिखति । तत् एवम्,

न गच्छति विनापानं व्याधिताषधिशब्दतः ।
विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ॥[६]

माया[सम्पादयतु]

अविद्या, अनिर्वचनीया च या सा माया । या मा सा माया इत्यपि कथयन्ति । मा नाम त्रिकालेश्वपि न विद्यते किन्तु अस्ति इति भाति । यद्यपि आत्मनः एकत्वे अन्यत् सर्वं मिथ्या इति सिध्यति तथापि संक्षेपेण तस्य मिथ्यास्वरूपस्यापि उपवर्णनं भवति । तथा हि- दृश्यप्रपञ्चः बुद्ध्यादयश्च मिथ्याभूताः इति अस्मिन् वेदान्तशास्त्रे प्रतिपाद्यते । अद्वितीयः सः परमात्मा स्वशक्त्या विचित्ररूपेण परिदृश्यमानम् अमुं प्रपञ्चं सृजति, अनन्तरं च सृष्टं सर्वं जगत् स्वात्मनि विलीनं करोति । प्रपञ्चस्य जन्मनाशौ भवतः इति श्रुतिस्मृतिभ्याम् अभ्युपगतत्वात् दृश्यमानः प्रपञ्चः मिथ्या भवति ।

अविद्या[सम्पादयतु]

अविद्यायाः अस्तित्वे किं प्रमाणम् ? समाधानत्वेन "अहमज्ञः, मामन्यं च न जानामि" इत्यादि सांव्यवहारिकं वचनमेव अविद्यायाः सत्वे प्रमाणं भवति इत्युच्यते ।

ब्रह्म[सम्पादयतु]

जीवब्रह्मणोः एकता उच्यते, जीवस्तु ज्ञातः ब्रह्म तु न ज्ञातम्, अज्ञाते ब्रह्मणि कथमेकता? यदि ब्रह्म ज्ञातुमित्युच्यते तर्हि किं प्रमाणम् ? इति विचारे पूर्वपक्षी वदति, ननु ब्रह्मज्ञाने प्रत्यक्षं न प्रमाणं भवति । यतः ब्रह्म अतीन्द्रियत्वात् । अतीन्द्रियं न कदापि प्रत्यक्षीक्रियते। प्रत्यक्षानुमानोपमानानां प्रमाणानां ब्रह्म विषयत्वाभावात् इमानि ब्रह्माणि ब्रह्मसाधने न क्षमन्ते । अन्तिममागमप्रमाणमस्त्येव । तेन ब्रह्मणः अस्तित्वे ब्रह्मस्वरूपज्ञाने प्रमाणत्त्वमस्त्त्येव । श्रुतिभिः ब्रह्म आगमगम्यप्वेनोक्तम् ।

अध्यासः[सम्पादयतु]

अध्यासो नाम "अतस्मिंस्तद्बुद्धिः" इति भाष्यकारस्य वचनम् । तद्यथा- पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मान् अध्यस्यति । स्थूलोऽहम्, कृशोऽहम्, गौरोऽहम्, तिष्ठामि इत्यादि देहधर्मान् स्वात्मनि अध्यस्यति ।

अवस्थाः[सम्पादयतु]

जीवस्य जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।

  • "व्यवहारावस्था"- जाग्रदवस्था एव व्यवहारावस्था भवति। अस्यां प्रमाणप्रमेयान् अनुस्रुत्य कार्यकारणपुण्यपापस्वर्गदुःखगुरुशिष्यबन्धमोक्षादिविषयाः निरूपिताः दृश्यन्ते।
  • "विचारावस्था"-विचारावस्था चित्तशुद्धिम्, वैराग्यम्, विवेकञ्च सम्पादयति। विवर्तमार्गाय अर्हताप्राप्तये अस्याः विचारावस्थायाः आवश्यकता अस्ति। एषा स्वप्नसदृशावस्था भवति। साधकः व्यवहारं सर्वमपि स्वप्नसदृशम् इति भावयति। साधकस्य उपयुक्ता श्रेष्ठावस्था भवति। कुतः चेत् प्रपञ्चः मायामयः इति दृढं भवति अस्याम् अवस्थायाम्।
  • "विज्ञानावस्था"- एषा अवस्था सुषुप्तावस्थायाः सदृशी भवति। गाढनिद्रायां प्रपञ्चस्वप्नौ न भवतः एव सर्वमपि मिथ्यारूपेण भवन्ति। केवलम् आत्मानुभवः भवति। अमुं विषयं गौडपादाचार्यः एव निरूपितवान् अस्ति,

न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।
न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥

अद्वैतपीठानि[सम्पादयतु]

शिष्याः
(lineage)
दिक् पीठानि महावाक्यानि वेदः सम्प्रदायः
पद्मपादाचार्यः पूर्वा गोवर्धनपीठम् प्रज्ञानं ब्रह्म (Consciousness is Brahman) ऋग्वेदः भोगावल(Bhogavala)
सुरेश्वराचार्यः दक्षिणम् श्रुङ्गेरी शारदापीठम् अहं ब्रह्मास्मि (I am Brahman) यजुर्वेदः भूरिवल (Bhūrivala)
हस्तामलकाचार्यः पश्चिमा द्वारकापीठम् तत्त्वमसि (That thou art) सामवेदः कितवल(Kitavala)
तोटकाचार्यः उत्तरम् ज्योतिर्मठपीठम् अयमात्मा ब्रह्म (This Atman is Brahman) अथर्ववेदः नन्दवल(Nandavala)

प्रमाणानि[सम्पादयतु]

अद्वैतवेदान्ते ६ प्रमाणानि सन्ति। तानि,

  • प्रत्यक्षप्रमाणम्
  • अनुमानप्रमाणम्
  • उपमानप्रमाणम्
  • आगमप्रमाणम्
  • अर्थापत्तिप्रमाणम्
  • अनुपलब्धिप्रमाणम्

मुख्यांशाः[सम्पादयतु]

  • निरपेक्षज्ञानं नाम शुद्धचैतन्यम्, अतः इदं शुद्धबुद्धमुक्तस्वभावयुक्तं भवति।
  • आत्मप्रकाशात् अन्तःकरणस्य विकारः एव वृत्तिज्ञानं भवति। अस्य व्यावहारिकवस्तूनां ग्रहणयोग्यता भवति। इदं पारमार्थिकसत्यं न भवति।
  • ज्ञानं स्वयं प्रकाशः भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
  • अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
  • नानात्वभावनया संसारीभवति। ब्रह्मात्मैक्यज्ञानेन मुक्तः भवति।
  • ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः, अनाप्य, अविकार्यञ्च भवति।
  • निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
  • ज्ञानसम्पादनमेव लक्ष्यं भवति।
  • शमदमउपरतितितिक्षासमाधानश्रद्धादयाः "शमादिषट्केन व्यवह्रियते”
  • साधकाय श्रवणमनननिधिध्यासनानि अपेक्ष्यन्ते। एतैः क्रमेण मुक्तः भवति। आत्मानन्दः उत ब्रह्मानन्दः एव मुक्तिः भवति।

ग्रन्थाः[सम्पादयतु]

ग्रन्थनाम कर्ता कालः
ब्रह्मसूत्रम् बादरायणः ४०० क्रि.श
माण्डूक्योपनिषत्कारिका गौडपादः ६०० क्रि.श
भामती वाचस्पतिमिश्रः ८५० क्रि.श
पञ्चपादिका पद्मपादाचार्यः ८५० क्रि.श
आत्मबोधव्याख्यानम् पद्मपादाचार्यः ८५० क्रि.श
इष्टसिद्धिः विमुक्तात्म ८२० क्रि.श
संक्षिपशारीरकम् सर्वज्ञात्म ८५० क्रि.श
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
पदार्थतत्वनिर्णयः गङ्गापुरि भट्टारकः १० उत ११ शतकम्
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
तत्त्वप्रदीपिका चित्सुखः १३ शतकम्
वेदान्तसारः सदानन्दः १५ शतकम्
सिद्धान्तलेशसङ्ग्रहः अप्पय्यदीक्षितः १६ शतकम्
अद्वैतसिद्धिः मधुसूधनसरस्वती १६ शतकम्
वेदान्तपरिभाषा धर्मराजाध्वरिः १६ शतकम्
सिद्धान्तसिद्धाञ्जनम् कृष्णानन्दः १७ शतकम्
तत्त्वकौस्तुभम् भट्टोजिदीक्षितः १७ शतकम्
आभोगः लक्ष्मीनृसिंहः १७ शतकम्
अद्वैतब्रह्मसिद्धिः सदानन्दः काश्मीरक १८ शतकम्
स्वराज्यसिद्धिः गङ्गाधरसरस्वती १९ शतकम्

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६

सम्बद्धलेखाः[सम्पादयतु]

आधाराः[सम्पादयतु]

  1. बहुस्यां प्रजायेय- छान्दोग्योपनिषत् ६.२.३
  2. तस्माद्वा एतस्मादात्मन आकाशः संभूतः॥
    आकाशाद्वायु वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, पृथिया ओषधयः । तैत्तिरीयोपनिषत् (ब्रह्मानन्दवल्ली)१.१
  3. राजसूनोः स्मृतिप्राप्ता व्याधभावो निवर्तते ।
    कथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ॥ (बृहदारण्यकोपनिषद्-भाष्यम्, सुरेश्वराचार्यस्यवार्तिका २.१.२०)
  4. अस्य अनर्थहेतोः प्रहाणाये आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥ "ब्रह्मसूत्र-शाङ्कराभाष्यम्", उपोद्घातः (अध्यासप्रकरणम्)
  5. अनुभवावसानत्वात् भूतविषयेत्वाच्छ ब्रह्मज्ञानस्य । "ब्रह्मसूत्र-शाङ्कराभाष्यम्" १.१.२
  6. विवेकचूडामणिः, श्लोकसंख्या-६२

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अद्वैतवेदान्तः&oldid=269299" इत्यस्माद् पुनः प्राप्तिः