सामग्री पर जाएँ

अग्निः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तेजः इत्यस्मात् पुनर्निर्दिष्टम्)
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अग्निः ( /ˈəɡnɪhɪ/) (हिन्दी: अग्नि, आङ्ग्ल: Fire) पञ्चभूतेष्वन्यतमस्तथा तेजसोऽभिमानिदैवतम् । अयं भगवतो मुखात् समुत्पन्नः । दक्षप्रजापतेर् आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्यापरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरेऽग्निरर्जुनाय कपिध्वजोपेतं रथं गाण्डीवधनुर् अक्षयतूणीरं च प्रायच्छत् । अग्निनैव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तस्तदा दोषस्य चतुर्ष्वंशेष्वेकोऽंशोऽग्निना स्वीकृतः । रामायणे सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनल इति तस्यापरं नाम ।| नास्त्यलं पूर्तिरस्य भुञ्जानस्येति कारणेनानल इत्युच्यते ।

ऋग्वेदे अग्निस्तुतिः

[सम्पादयतु]

ऋग्वेदे विद्यमानेषु १०२८ सूक्तेषु २१८ सूक्तान्यग्निपराणि सन्ति । ऋग्वेदस्य प्रथमे सूक्ते अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम् इत्यत्राग्नेः स्तुतिः सन्दृश्यते । अरणीमन्थनम् इति काचिद् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । मातरिश्वा जातवेदा इत्यादीन्यपराणि नामानि । गृहस्थस्य आहवनीय-गार्हपत्य-दक्षिणाग्नीनामाराधनम् आद्यं कर्तव्यम् । तदेवा ग्निहोत्रम् इत्युच्यते । गृहस्थो निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् ।

पृथ्वीस्थानदेवतास्वग्निः प्रधानः । देवतात्रितयेऽग्निः प्रधानः । द्विशताधिकाः सूक्ता अग्निदेवताकाः सन्ति । एतान् विहायान्याभिर् देवताभिः सहाप्यग्निः स्तुतोऽस्ति ।

सर्वान्तर्याम्यग्निः

[सम्पादयतु]

अग्नेर् विश्वरूपं साक्षात्कृतवन्त ऋषय एनं बहुधा स्तुतवन्तः । आविश्वम् अग्निना धृतं रक्षितं च वर्तते । उदक-दारु-प्राणि-पक्षि-जन-इत्यादिषु स्थावरजङ्गमात्मकेषु सकलपदार्थेष्वप्यग्निर् विद्यते । जठराग्नौ स सर्वेषु तिष्ठतीति गीतायाम् उल्लिखितमस्ति । (ref – ’अहं वैश्वानरो भूत्वा------------ पचाम्यन्नं चतुर्विधम्’) अग्नेः सर्वान्तर्यामित्वम् अधो निर्दिष्टो मन्त्रः स्पष्टं निरूपयति –

गर्भो यो अपां गर्भो वनानां
गर्भश्च स्थातां गर्भश्च स्थातां गर्भशर्चथाम् ।
अद्रौचिदस्मा अन्तर्दुरोणे
विशां न विश्वो अमृतः स्वाधीः ॥ (१-७०-४)

’अग्निः जले विद्यते अपांनपात् संज्ञकरूपेण, अरण्यवृक्षेषु विद्यते दावाग्निरूपेण, काष्ठादिषु स्थावरेषु अपि विद्यते, सञ्चारशीलेषु प्राणिषु जनेषु च जाठराग्निरूपेण विद्यते, अद्रौ विद्यमानस्य अग्नेः हविःप्रदानं कुर्वन्ति । अयम् अमरः, शोभनकर्मयुक्तः । सज्जनः राजा प्रजाः यथा रक्षति तथा अयम् अस्माकं रक्षकः अस्ति ।’ अस्मिन् विषये विविधेषु सूक्तेषु उल्लेखः कृतः अस्ति –

  1. अग्निदेवस्य प्रभावः द्युलोके, भूमौ, अन्तरिक्षे, समुद्रे, वृक्षेषु च प्रकाश्यते । (३-२२-२)
  2. अग्निमथनावसरे अरणिभिः अग्निः उत्पद्यते, शिलया अग्निः उत्पद्यते (अश्मनः) ’यो आत्मनोरन्तरग्निं जजान’ (२-२-३)

अग्नेः स्वरूपम्

[सम्पादयतु]

हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम ।

’त्रीणि जाना परिभूषन्त्यस्य
समुद्र एकं दिव्येकमप्सु । (१-९५-३)

अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च । अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९) ’शुष्काद्यद्देव जीवो जनिष्ठाः’ (१-६८-२) इत्युक्त्वा दश युवतयः एनं आरण्योः उत्पादितवत्यः इत्युच्यते यत् दश अङ्गुलीभिः ग्रहणं निर्दिशति । ’दशेमं त्वष्टुर्जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम्’ (१-९५-२) ।

त्रिमूर्तिरूपः

[सम्पादयतु]

अग्निः त्रिस्थानेषु विद्यते इति उक्तम् । एतं त्रिधादेवताः स्रष्टवन्तः । अस्य प्रकाशः त्रिविधम् (३-२६-७) । अयं त्रिभिः शिरोभिः युक्तः (१-१४६-१) । अस्य जिह्वात्रयं, देहत्रयं, स्थानत्रयम् (३-२०-२) । त्रिषदस्था (६-८-७) इत्येतत् विशेषणं प्रामुख्येन अग्नेः अन्वेति । त्रिपस्तृ इत्येतत् अग्नेः विशेषणम् (८-३९-८) । एवम् अग्निः त्रिमूर्तिरूपः । अग्नेः तृतीयं रूपम् अत्युन्नतमिति वर्णयन्ति ।

’विष्णुरित्था परममस्य विद्वान्
जातो बृहन्नभि पाति तृतीयम् ।’ (१०-१-३)

– व्यापनशीलः, ज्ञानादिगुणयुक्तः, महत्तमश्च अग्निदेवः स्वस्य तृतीयं स्थानं रक्षति ।

त्रिस्थानविवेचनम्

[सम्पादयतु]

निरुक्ते यास्काचार्यः अग्नेः त्रिस्थानविवेचनं कुर्वन्ति । ’तमू अकृण्वन् त्रेधा भुवेकम्’ इत्यस्य व्याख्यानं कुर्वन् वदति – ’तमकुर्वन् त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणी’ इति शाकपूणिनाम् अभिप्रायम् उल्लिख्य ’यदस्य दिवि तृतीयं तदसावादित्य इति ब्राह्मणम्’ इति ब्राह्मणस्य आधारम् उदाहरति । एवम् अग्नेः तृतीयं स्थानं द्युलोके विद्यते यत् तत् आदित्यस्य रूपमिति वदति (नि ७-२८) । अग्निः त्रिस्थानेषु विद्यते इत्यतः सः त्रिस्थानरक्षकः अस्ति । द्युलोकस्य प्रधानभूतः, भूलोकस्य सन्नाहकः, द्यावापृथिव्याः अधिपतिः विद्यते ।

मूर्धार्दिवो नाभिरग्निः पृथिव्या
अथा भवदरती रोदस्योः ! (१-५९-२)

अग्नेः विद्युद्रूपं स्तुतवन्तः ऋषयः । ’धनोरधि प्रवत आस ऋण्वति’ - धनुषः वेगेन आगच्छन् बाणः इव आगच्छति । ’सजायमानः परमोव्योमन्याविरग्निरभवन्मातरिश्वने’ (१-१४३-२) – परमव्योम्नि अयं जायते । मातरिश्वः अग्निम् अन्तरिक्षात् अधः आनयत् इत्युच्यते । एवम् अन्तरिक्षात् भूमिं प्रति अग्नेः आगमनं विद्युद्रूपेण इति ज्ञायते । ’मूर्धा भुवो भवति नक्तुमग्निः ततः सूर्यो जायते प्रातरुद्यन्’ (१०-८८-६) – अग्निः सूर्यरूपेण उदेति इत्युक्तम् । अपरत्र अग्निः सूर्यस्य प्रकाशेन अन्तर्भवति (५-३८-१) इति उक्तम् । ’ऊर्जोऽनपातमध्वरे दीदिवांसमुपद्यवि । अनिमीळे कविक्रतुम् । (३-२७-१२)

अग्नेः महिमा

[सम्पादयतु]

प्र सम्राजो असुरस्य प्रशस्तिं
पुंसः कृष्टीनामनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस्कृतानि
वन्दे दारुं वन्दमानो विवक्मि ॥ (७-६-१)
अग्निः शक्तेः प्रतीकम् । अयम् अत्यन्तं बलिष्ठः, सर्वभुवनानाम् ईश्वरः विद्यते । इन्द्रं यथा स्तुवन्ति तथा एनमपि जनाः स्तुवन्ति ।
दिवश्चित्ते बृहतो जातवेदो
वैश्वानर प्ररिरिचे महित्वम् ।
राजा कृष्टीनामसि मानुषीणाम्
युदा देवेभ्यो वरिवश्चकर्थ ॥ (१-५९-५)
द्यावापृथिव्योः अपेक्षया अयं महत्तमः ।
आ रोदसी अपृणा जायमानः । (६-६-२)
जन्मनः अपसरे एव अयं द्यावापृथिवी, सर्वभुवनानि, भूतजातानि च व्याप्नोत् । सर्वेषु भूतजातेषु अन्तर्निहितः जातः ।
जात आपृणो भुवनानि रोदसी
अग्ने ता विश्वा परिभूरसित्म ना । (३-३१०)
सर्वासां देवतानाम् अपेक्षया अस्य महिमा वरीवर्तते (१-६८-२) । सर्वे देवाः अस्मात् भीतः सन्तः एनं पूजयन्ति ।
विश्वेदेवा अनमस्यन् भियानाः
त्वामग्ने तमसि तस्थिवांसम् । (६-९-७)
एनं मित्रः, वरुणः, मरुतः, सर्वाः देवताः च अर्चन्ति ।
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने
विश्वेमरुतः सुम्नमर्चन् ।
यच्छोचिषा सहसस्स्पुत्र तिष्ठ
अभिक्षितीः प्रथयन् सूर्योनॄन् ॥ (३-१४-४)
सर्वान्तर्यामी (सूर्यः) अयम् अग्निदेवः मानवान् अभिलक्ष्य मार्गदर्शनं कृत्वा रश्मीन् (नॄन्) अग्रे नयन् सर्वतः विस्तीर्य दीपयति । तस्मादेव हे बलवन् अग्निदेव ! मित्र-वरुण-मरुद्देवताः सर्वे अपि भवन्तम् अर्चयन्तः पूजयन्ति ।
अस्य महिम्नः पुरतः मानवाः देवताः अपि वन्दन्ते । अयं सहस्रजित्, शत्रुनाशनं कृत्वा कर्मनिष्ठानाम् आर्याणां तेजोभिवृद्धिं साधयति । (८-५-६) कर्मभ्रष्टान् अनार्यान् पणीन् अयं विनाशयति । (७-६-३) अयं व्रतध्वंसकः इत्यपि निर्दिष्टः ।
सर्वदेवताः एनम् अर्चयन्ति इति भावः अधस्तने मन्त्रे अपि विद्यते –
त्रीणिशता त्रीसहस्राण्यग्निं
त्रिंशच्चदेवा नवचासपर्यन् ।
औक्षन् घृत्येरस्तृणन् बर्हिरस्मा
आदिद्धोतारं न्यसादयन्त । (३-९-९)
सर्वशक्तः अयम् अग्निदेवः सर्वान् असृजत् । अयमेव सृष्टिकर्ता । सर्वेषां रक्षकः अग्निदेवः द्यावापृथिवी असृजत् ’जनितारोदोस्योः’ (१-९६-४)
अस्य नियमान् द्यावापृथिवी पालयतः । (७-५-४) एतद्वयं सः चर्मद्वयमिव आच्छादितवान् – ’वि चर्मणीव धिषणे आवर्तयद्वैश्वानरो विश्वमधत्तवृष्णम्’ (६-८-३)
लोकद्वयं पार्थक्येन संस्थापितवान् अयम् । अन्तरिक्षस्य मापनम् अकरोत् । -
’व्यन्तरिक्षम् अमिमीत सुकृतुः
वैश्वानरो महिना नाकमस्पृशत् ।’ (६-८-२)
अग्निना लोकाः निर्मिताः । सर्वेषां हिततमः सः सुकर्मा । द्युलोकसम्बन्धीनि रोचमानानि नक्षत्राणि अयम् असृजत् । सर्वान् भूतजातान् अयमेव निर्मितवान् । अयम् अदब्धः (अहिंसितः) सन् सर्वरक्षकः विद्यते –
’एयो रजांसि अमिमीत सुक्रतुः
वैश्वानरो विदिवो रोचना कविः ।
परियो विश्वा भुवनानि पप्रथे
अदब्धो गोपा अमृतस्य रक्षिता ॥’ (१०-८८-४)

अग्नेः नामानि

[सम्पादयतु]

आरण्यां विद्यमाना शक्तिः आविर्भवति इत्यतः अयं शक्तिपुत्रः, ऊर्जोनपात्, सहसस्सूनु । प्रत्येकस्मिन् गृहे प्रतिदिनम् अयम् उत्पद्यते इत्यतः अयं ज्येष्ठः यविष्ठश्च । पूर्वदिनमपि आसीत् इत्यतः ज्येष्ठः, अग्रिमे दिने अपि जनिष्यति इत्यतः यविष्ठः । (उष उषो हिवसो अग्रमेषि) । एवम् अयं पुरातनः नूतनश्च । अमरः नित्ययुवा च । अग्निना एव प्रथमं यज्ञम् आचरितम् इत्यतः (३-१५-४) तस्य अपेक्षया ज्येष्ठः याजकः न विद्यते (५-३-५) । प्रतिदिनमपि अयं तमसः आगच्छति ज्योतिरूपेण । ’तमसो ज्योतिषाङ्गात्’ । अयं घृतपृष्ठः, तपुर्मूर्धा, विश्पतिः, शुचिदन्, गृहपतिः, शुक्रशोचिः (शुब्रज्वालायुतः) च ।

विविधानि नामानि

[सम्पादयतु]
  • गृहपतिः – ’त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे’ (७-१६-५) – अयं प्रत्येकस्मिन् गृहे अपि वसति । स्वस्थाने निवसन्नेव सर्वैः सह अपि भवति । ’अप्रोषिवान् गृहपतिर्महान् असि’ (८-६०-१९) । अयं मानवानाम् अतिथिः । अयं प्रतिगृहम् अतिथिः अस्ति (१०-९१-२) । दीप्तज्वालायुक्तं सर्वज्ञम् एनम् अग्निदेवं गार्हपत्याग्निरूपेण याजकाः अतिथिमिव पूजयन्ति (५-८-२) । अयं मानवानां समीपबन्धुः (६-१५-१) । अयं कुटुम्बे पूर्वारभ्य सदैव विद्यते इत्यतः अनेन सह पुरातनं सख्यमस्ति । पूर्वजैः पूजितः महात्मा अयम् ।
  • हव्यवाहः – अयं हविः स्वीकरोति, अपि च अन्यदेवतानां कृते नयति । अग्निना हविः आनीयते चेदेव तर्हि अन्यदेवताः प्रीताः भवन्ति अन्यथा ते न सन्तुष्यन्ति - ’न ऋते त्वदमृता मादयन्ति’ (७-११-६) । अयं देवताः यज्ञमण्डपं प्रति आनयति (३-१४-२)
  • ऋत्विक्, पुरोहितः, होता – अयं देवतानां मानवानाञ्च पुरोहितः । ऋत्विजां सर्वाणि कार्याणि अनेन निरूह्यते इत्यतः अयम् अध्वर्युः, ब्रह्मन्, होतृ, अध्वर्युश्च । स्वीयदैवशक्त्या यज्ञनिर्वहणाय साहाय्यम् आचरति अयम् । अग्निः पुरोहितः इव ऋषिः अपि अस्ति । (९-६६-२०) ’त्वमग्ने प्रथमो अङ्गिरा ऋषिः’ (१-३१-१) ’ऋषिः श्रेष्ठः समिध्यसे’ (३-२१-३) इति एतं स्तुतवन्तः । स्वस्य प्रज्ञाबलेन एव अयं सर्वं ज्ञातुं शक्तः – ’कविः काव्येनासि विश्ववित्’ (१०-९१-३) कविक्रुतुः, विश्ववेदः इत्येतानि विशेषणानि तस्य सर्वज्ञत्वं सूचयन्ति ।
  • रक्षोहन् - अग्निदेवः असुरध्वंसं कृत्वा मानवान् पोषयति । अतः अयं रक्षोहन् । स्वीयविस्तृततेजसा दीप्यमानः अग्निदेवः कर्मानुष्ठानेषु विघ्नम् आचरतः शत्रून् राक्षसान् च नाशयति इति एते मन्त्राः सूचयन्ति –

विपाजसा पृथुना शोशुचानो
बाधस्व द्वि षो रक्षसो अमीवाः । (३-१५-१)
यो अपाचीने तमसि मदन्तीः
प्राचीश्चकार नृतमः शचीभिः । (३-६-४)

  • ज्योतिप्रदः – नेतृतमः अग्निः प्रकाशरहिते अन्धकारे विद्यमानाः प्रजाः उषायाः प्रकाशेन ऋजुगामिनः अकरोत् इत्यतः सः अन्धकारनाशकः, ज्योतिप्रदश्च ।

अग्निस्सर्वादेवताः

[सम्पादयतु]

सर्वाः देवताः अग्नेः रूपमेव इति ऋषयः कथयन्ति । अग्निः एव वरुणः, अग्निः एव मित्रम् (२-१-४) । यागाय आगमनावसरे सः वरुणरूपी (१०-८-५), आरणिभिः यदा उत्पद्यते तदा मित्रम् (५-३-१) । अनेकाभिः देवताभिः सह अग्नेः तादात्म्यं वर्णयन्ति एते मन्त्राः –

त्वमग्न इन्द्रो वृषभः सतामसि
त्वं विष्णुरुरुगायो नमस्यः ।
त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते
त्वं विधर्तः सचसे पुरं ध्या ॥
त्वमग्ने राजा वरुणो धृतव्रतः
त्वं मित्रो भवसि दस्म ईड्यः
त्वमर्यमा सत्पतिर्यस्य सम्भुजं
त्वमंशो विदथे देवभाजयुः ॥
त्वमग्ने त्वष्टा विधते सुवीर्यं
तवग्रावो मित्रमहः सजात्यम् ।
त्वमाशुहेमा ररिषेस्वश्व्यम्
त्वं नरां शर्धो असिपुरूवसुः ॥
त्वमग्ने रुद्रो असुरो महोदिवः
त्वंशर्धो मारुतं पृक्ष ईशिषे ।
त्वं वात्येररुणैर्यासि शङ्गयः
त्वम्पूषा विधतः पासिनुत्मना ॥
त्वमग्ने द्रविणोदा अरंकृते
त्वं देवः सविता रत्नधा असि ।
त्वं भगो नृपते वस्व ईशिषे
त्वं पायुर्दमे यस्तेऽविधत् ॥ (२-१-३ तः ७)
अस्मिन् लोके विद्यमानं समस्तमपि अग्निरूपमेव –
असच्च सच्च परमे व्योमन्
दक्षस्य जन्मनदितेरुपस्थे ।
अग्निर्ह नः प्रथमजा ऋतस्य
पूर्व आयुनि वृषभश्च धेनुः ॥ (१०-५-७)

भक्तरक्षकः अग्निः

[सम्पादयतु]

भक्तानुग्रही अयं शतशः अयोदुर्गैः प्राप्यमाणं रक्षणम् अयं भक्तेभ्यः ददाति । (७-३-७) नौकया समुद्रस्य तारणं यथा तथा अयं भक्तान् कष्टेभ्यः तारयति – ’विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि’ (२-४-९) यः यजमानः अग्नये क्षिप्रम् अन्नम् आज्याहुतिं समित् च समर्प्य होमं पोषयति तम् अग्निः सहस्रनेत्रैः पश्यति । ’हे अग्ने ! अस्मदनुकूलः अस्ति भवान्’ इति वदति अयं मन्त्रः –

’यो अस्मा अन्नं जुह्वा ददात्याज्यैः
घृतैर्जुहोति पुष्यति ।
तस्मै सहस्रमक्षभिर्विचक्षेऽग्ने
विश्वतः प्रत्यङ् असित्वम् ॥’ (१०-७९-५)

स्वस्य सेवायां निरतेभ्यः भक्तेभ्यः अग्निदेवः सहस्रनेत्रैः दृष्ट्वा तेभ्यः सकलं रक्षणं कल्पयति । सर्वविधं श्रेयः अपि अग्निदेवादेव प्राप्यते । वृक्षेभ्यः शाखोपशाखाः यथा भवन्ति तथा सर्वनिधेः स्वामी अयं भक्तेभ्यः अमितां सम्पदाम् अनुगृह्णाति । भूम्यन्तरिक्षेषु सर्वेष्वपि स्थानेषु अयं सम्पदधिदैवमस्ति । स्वीयकरुणाकटाक्षेण निर्धनत्वं निवारयति अयम् । महामहिमः, परमकरुणालुः अयं कृतज्ञश्च विद्यते ।

भक्तानां प्रार्थना

[सम्पादयतु]

 ’कदा त उक्था सधमद्यानि
कदा भवन्ति सख्या गृहे ते ।’ (३-३-४)

भवतः संश्लेषः कदा भवति इति भक्ताः औत्सुक्येन अग्निं पृच्छन्ति ।

’अयं योनिश्चकृमा यं वयन्ते
जायेव पत्य उशती सुवासाः । (३-३-२)

भवतः कृते उत्तरवेदी सिद्धः अस्ति । आगम्यताम् । पत्याम् अनुरक्ता पत्नी शोभनवस्त्रोपेता सती पार्श्वे पत्युः कृते यथा स्थानं कल्पयति तथा भवते उत्तरवेदी सज्जा अस्ति इति प्रार्थयति भक्तः । अग्निदेवः मरुभूमौ सम्पदिव – ’धन्वन्निव प्रपा असि’ (१०-४-१) सकलाभीष्टदायकः अयं भक्तवत्सलः । भक्तानां प्रति अस्य आगमनम् उष्णगोष्ठं प्रति पशुरागमनमिव – ’यं त्वा जनासो अभिसञ्चरन्ति गाव उष्णमिव व्रजं यविष्ठ’ (१०-४-२) मूढाः वयं ज्ञानिनं महात्मानं भवन्तं कथं वा अवगन्तुं शक्नुयाम – ’मूरा अमूर न वयं चिकित्वः महित्वमग्ने त्वमङ्गवित्से’ (१०-४-४) अग्निदेवः अस्माकं सर्वविधबन्धुः - ’अग्निं मन्येपितरमग्निमापिम् अग्निं भ्रातरं सदमित् सखायम्’ (१०-७-३)

’मानो अग्ने सख्या पित्र्याणि
प्रमर्षिष्ठा अभिविदुष्कविः सन् ।
नभो न रूपं जरिमा मिनाति
पुरा तस्या अभिशस्तेरधीहि ॥ (१-७१-१०)

भवतः ध्यानकरणाय अस्मासु उत्तमभावम् अनुगृह्णातु – ’सा ते सुमतिर्भूत्वस्मे’

 ’अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्बान् ।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम ॥

हे अग्निदेव ! अस्मान् सम्पद्युक्ते मार्गे नय । त्वं सकलज्ञानयुतः महानुभावः अस्ति । अस्माकं शत्रुं पापं नाशय । पौनःपुन्येन भवन्तं नमामः । यास्काचार्यः अग्निशब्दस्य निर्वचनम् एवं वदन्ति – ’अग्रणीर्भवति’ (नि ७-१४-४) – सर्वार्थेषु अग्रनयनः । ’अग्रं यज्ञेषु प्रणीयते’ – यागेषु सर्वादौ अस्य अनुग्रहः प्राप्तव्यः । अयं प्रसन्नः नो चेद् अन्य कर्माणि अशक्यानि एव । आत्मधारणम् असाध्यं भविष्यति । ’अङ्गं नयति सन्नममानः’ – सर्वमपि आत्मसात् करोति अयम् अग्निः । एवं सर्वं जनयित्वा, रक्षन् पोषयन् अयं देवः सर्वशक्तः करुणालुश्च । सर्वधारकः, सर्वपोषकः अयम् । अनेन एव वयम् अस्तित्वं प्राप्नुमः । विश्वम् अग्नेः रूपम् । अयं सर्वत्र विद्यते । वृक्षे, जले, शिलाखण्डे, समस्तजीवेषु च अयं गूढतया प्रकाशते । ’अनेन जीवेनात्मना अनुप्रविश्य नामरूपे व्याकरवाणि’ इति उपनिषत् सुन्दरं विवृणोति अस्य सर्वव्यापकत्वम् अनुप्रवेशञ्च । एवम् अग्निदेवस्य स्तुतिः अनुपमरीत्या कृता अस्ति ऋग्वेदे ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अग्निः&oldid=487579" इत्यस्माद् प्रतिप्राप्तम्