सामग्री पर जाएँ

स्वामी विवेकानन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विवेकानन्दः इत्यस्मात् पुनर्निर्दिष्टम्)
स्वामी विवेकानन्दः
স্বামী বিবেকানন্দ
१८९३ तमे वर्षे स्वामी विवेकानन्दः
जन्मतिथिः १२ जनवरी १८६३‌ सोमवासरः
जन्मस्थानम् कोलकता, पश्चिमबङ्गराज्यम्, भारतम्
पूर्वाश्रमनाम नरेन्द्रनाथ दत्त
मृत्युतिथिः ४ जुलायि १९०२
मृत्युस्थानम् कोलकतासमीपे बेलूड मठ:
गुरुः/गुरवः रामकृष्णपरमहंसः
शिष्याः स्वामी सदानन्दः भगिनी_निवेदिता
तत्त्वचिन्तनम् वेदान्तः
सम्मानाः विश्वधार्मिकसभायां हिन्दुप्रतिनिधिरूपेण भाषणम्
साहित्यिककृतयः राजयोगः, कर्मयोगः, भक्तियोगः, ज्ञानयोगः
उक्तिः उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत (कठिपनिषदतः)
हस्ताक्षरम्

सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकअष्टादशशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’ इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्।

स्वामी विवेकानन्दः

सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।"

स्वामी विवेकानन्दः

[सम्पादयतु]

"हे सोदरसोदरीमणयः ! सुदीर्घायाः कालरात्रेः इदानीम् अन्तिमक्षणाः आगताः । कष्टानि, दुःखानि नाशं यान्ति । पवित्रा भूमिरस्माकम् । सर्वत्र प्रसृतानां मलयवीचिकानां स्पर्शेन भारताम्बा प्रबुध्यमानाऽस्ति । तस्याः महाशक्तिं अवरोद्धुं कोऽपि न शक्तः भवति ।"

"अस्मन्मातृभूमये सर्वम् अर्पयितुं भवन्तः सिद्धाः वा ? सिद्धाः चेत् अस्मिन् देशे दारिद्र्यस्य, आज्ञानस्य च नाशं कर्तुं समर्थाः भवन्ति भवन्तः । अस्माकं देशीयाः सोदराः कोटिशः जनाः क्षुधातुराः कष्टानि अनुभवन्तः सन्तीति भवन्तः जानन्ति किम् ? तेषां विषये भवन्तः परितपन्ति किम् ?"

"गिरयः इव विघ्नाः भवन्तु नाम तानतिक्रान्तुं धैर्यसाहसे भवत्सु स्तः वा ? भवताम् आप्ताः सन्निहिताः, भवतां विरोधिनो वा भवन्तु नाम लक्ष्यसाधनाय पुरोगन्तुं वज्रसङ्कल्पः भवतामस्ति वा ? स्वेषु विश्वासः अस्ति चेदेव भवन्तः स्वतन्त्रजीविनः भवन्ति । सुदृढदेहं भवन्तः वर्धयेयुः । अध्ययनद्वारा ध्यानद्वारा भवतां मनसां रूपनिर्माणं करणीयम् । तदैव भवन्तः विजयिनः भवन्ति ।

"अमेरिकादेशम्, इङ्ग्लण्ड्देशं प्रति च गमनात् पूर्वं मम मातृभूमिं प्रगाढं प्रीणामि स्म । ततः निर्वर्त्य आगमनानन्तरम् अस्याः भूम्याः प्रतिधूलिकणमपि मे पवित्रं दृश्यते ।"

अमुं सन्देशं भरतखण्डस्य कोणं कोणं प्रति कः नीतवानिति भवन्तः जानन्ति वा ? सः एव स्वामी विवेकानन्दः ।

चैतन्यवान् बालकः

[सम्पादयतु]

संन्यासी भूत्वा स्वामी विवेकानन्दः इति नाम प्राप्तवान् सः । पितरौ नरेन्द्र इति आह्वयतः स्म तम् । नरेन्द्रस्य जनकस्य नाम विश्वनाथदत्तः । जननी भुवनेश्वरीदेवी । कोलकातानगरे १८६३ संवत्सरे जनवरीमासस्य १२ दिनाङ्के नरेन्द्रः जातः । शैशवे एव अत्यन्तचैतन्यवान्, चपलः च आसीत् सः ।

नरेन्द्रे बाल्ये पदं न्यस्यति सति तस्य चापलता अपि प्रवृद्धा । परितः विद्यमानानां बालकानां सहजतया सः एव नायकः भवति स्म । सहचराः सर्वदा तस्य निर्णयं शिरसा वहन्ति स्म । एकदा कश्चित् गृहयजमानः "तस्मिन् वृक्षे एकः पिशाचः अस्ति, सः बालान् निगिरति" इत्युकत्वा बालान् भायितवान् । तेन तर्जनेन नऱेन्द्रः किञ्चिदपि न भीतः । तं वृक्षमारुह्य एकस्यां शाखायाम् उपविष्टवान् । इतरे बालाः सर्वे भीरुतां प्रदर्शितवन्तः । नऱेन्द्रः बहुकालं वृक्षे एव उपविश्य निरीक्षां कृतवान् । पिशाचः प्रेतः वा कोऽपि नागतः । अतः गृहस्वामिना उक्ता काककथा (असत्यकथा) इति सर्वान् अवदत् । ध्यानमपि तस्य क्रीडा इवासीत् । किन्तु ध्यानसमये प्रापञ्चिकसम्बन्धिस्पृहाहीनः भवति स्म । ध्यानसमये गृहगोधिका सर्पः वा समीपमागच्छतु नाम तस्य एकाग्रता भग्ना न भवति स्म ।

बाल्यतः एव नरेन्द्रः साधूनां संन्यासिनां विषये गौरवं प्रीतिं च दर्शयति स्म । याचनमात्रेण सर्वस्मै अपि सर्वं ददाति स्म सः । यदा स्वजन्मदिने नूतनवस्त्रं धरति स्म, तदा कोऽपि भिक्षुकः 'भिक्षां देहि' इति हस्तं प्रसारयति चेत् तत् नूतनवस्त्रमपि तस्मै ददाति स्म । अत एव तस्य माता स्वगृहं प्रति कस्यापि भिक्षुकस्यागमनं पश्यति चेत् नरेन्द्रं प्रकोष्ठे स्थापयित्वा कीलयति स्म । किन्तु नरेन्द्रस्य स्वभावं सर्वोऽपि भिक्षुकः जानाति स्म, अतः ते नऱेन्द्रः यत्रास्ति तत्प्रकोष्ठवातायनसमीपमागत्य याचन्ते स्म । नरेन्द्रः स्वसमीपे यदस्ति तद्वस्तु तेषां भिक्षापात्रे समर्पयति स्म । त्यागभावः वैराग्यभावः अन्ये च सुगुणाः तस्मिन् विकस्यमानाः आसन् ।

विरामसमयेषु तन्माता तस्य कृते रामायणकथां वदति स्म । रामायणस्थां यां कमपि कथां न वदति चेत् सः न निद्राति स्म । मातरि कथां कथयन्त्यां सत्यां नरेन्द्रः स्वीयाध्ययनं, क्रीडाः, गीतानि सर्वाणि विस्मृत्य एकनिष्ठया शृणोति स्म । आञ्जनेये तस्य अमिता भक्तिः आसीत् । एकदा सः शरीरे सर्वत्र भस्म विलेप्य शिवविग्रहस्य पुरतः उपविष्टवान् । तं दृष्ट्वा विस्मिता तस्य माता 'नरेन्द्र! कः एषः वेषः ?' इति पृष्टवती । तदा सः हसन् 'अम्ब! अहं शिवः, जानाति वा ?' इति अवदत् । तत्पितामहः इव एषः अपि संन्यासी भवेदिति तन्माता भीता भवति स्म ।

बाल्यम्

[सम्पादयतु]

नरेन्द्रस्य जनकः न्यायवादी आसीत् । प्रतिदिनं विविधकुलजाः न्यायार्थिनः बहवः तदगृहमायान्ति स्म । तदगृहं धर्मशाला इव भवति स्म । ते सर्वेऽपि तत्रैव अल्पाहारं भोजनं च कुर्वन्ति स्म । भोजनानन्तरं धूमपानार्थं हुक्कानां प्रदानं तत्र सम्प्रदायः आसीत् । तत्र एकैककुलजानां प्रत्येकतया हुक्का भवति स्म । इतरकुलजानां हुक्काम् अहं पिबामि चेत् किं भवतीति ज्ञातव्यम् इति नरेन्द्रस्य उत्सुकता आसीत् । एकदिने तादृशप्रयोगं कृतवानपि । अनर्थं न किञ्चित् जातम् । कुलभेदाः निरर्थकाः इति सः तदानीमेव निर्णीतवान् ।

"वार्धक्यलक्षणानि बाल्ये एव द्र्ष्टुं शक्यन्ते" इति सूक्तिः करुणार्द्रहृदयस्य नरेन्द्रस्य विषये सम्पूर्णतया सत्यार्था अभवत् । एकदा तत्रत्य-व्यायामशालायां व्यायामविन्यासानां प्रदर्शनम् आसीत् । अनूह्यतया एका भारयुक्ता अयश्शलाका सन्दर्शकेषु कस्यचन नाविकस्योपरि पतिता । स च मूर्छितः । आरक्षकाः प्रश्नं करिष्यन्तीति सन्दर्शकाः सर्वे भयेन पलायितवन्तः । नरेन्द्र: द्वयोः मित्रयोः साहाय्येन व्रणितस्य नाविकस्य प्रथमचिकित्सां कृतवान् । अन्यस्मिन् सन्दर्भे अश्वशकटस्य चक्रयोरधः पतितं किञ्चन मित्रं नरेन्द्रः चक्रयोर्मध्यतः बहिरानीय रक्षितवान् । अन्यदा अज्ञातं बालकं कञ्चन रक्षितवान् । तीव्रज्वरेण मध्येमार्गं नष्टप्रज्ञं तं बालकं स्वगृहं नीत्वा तस्य सेवामकरोत् ।

नरेन्द्रः न केवलं क्रीडासु निपुणः, विद्यास्वपि सः निपुणः एव । यं कञ्चन पाठम् एकवारं पठित्वा अक्षरशः सर्वं स्मरति स्म सः । तस्य स्मरणशक्तिः अपूर्वा आसीत् । अध्ययने विजयप्राप्तेः मूलकारणं तस्य एकाग्रता एव ।

विश्वनाथदत्तः यदा यदा समयः लभ्यते तदा तदा नरेन्द्रमेवं बोधयति स्म "सत्यधर्मयुतं मार्गं यावदनुसरति भवान् तावत् कस्मादपि भयं अनुभोक्तव्यं नास्ति । दुष्टानां वशः मा भवतु । आत्मगौरवं सर्वदा रक्षतु भवान् । स्वमते प्रेम इत्यस्य अर्थः परमते द्वेषः न । देशभक्तिरस्ति चेत् एव मानवः सुखेन जीवति । परदेशीयाः शत्रवः अस्माकं देशस्य उपरि आक्रमणं कृतवन्तः चेदपि अस्माकं देशस्य प्राचीनां महिमान्वितां संस्कृतिं ते हर्तुं न शक्नुवन्ति" इति । स्वकुमारस्य नरेन्द्रस्य मधुरं कण्ठस्वरं श्रोतुम् इच्छति स्म पिता । भक्तिगीतानाम् आलापनसमये नरेन्द्रस्य मुखम् उज्ज्वलं प्रकाशते स्म ।

नरेन्द्रः स्वजननीं प्राणसमं प्रीणाति स्म । तां साक्षात् देवतां मनुते स्म । तस्य चिन्तनानुसारं त्यागे मातृसमः जनः अन्यः कोऽपि न भवति । न केवलं गृहे किन्तु समाजेऽपि तस्याः कृते अत्युन्नतस्थानं दातव्यम् । जनकेऽपि नरेन्द्रे अपारं प्रीत्यादरवान् आसीत् । सर्वमिदं तस्य स्वेच्छायाः, स्वतन्त्रविहाराणां वा प्रतिबन्धकं नासीत् । पितरमुद्दिश्यापि स्वाभिप्रायान् स्पष्टतया प्रकटयामास सः । "आतिथ्यमिति सत्यमेव सुगुणः, किन्तु अलसानां कृते भोजनदानं किमुचितम् ? धूमपानाय तेषां कृते धूमवर्तिकानां, हुक्कानां प्रदानं न्याय्यं वा ?" इति पितरं दृढं पृच्छति स्म । तस्य पिता तु 'पुत्र ! तेषां कष्टानि भवान् न जानाति, धूमपानावसरे वा ते स्वजीवनस्य कष्टं विस्मरेयुः इति वदति स्म ।।

१८८० तमे वर्षे नरेन्द्रः माध्यमिकशिक्षां समाप्य मेट्रिक्युलेषन्, कलाशालाप्रवेशपरीक्षाञ्चोत्तीर्णवान् । सः काञ्चन कलाशालां प्राविशत् । तस्य ज्ञानतृष्णा दिने दिने वर्धते स्म । विविधानि पुस्तकानि ग्रन्थालयतः आनीय तृष्णायाः निवारणाय पठति स्म सः । विशेषतया भगवतः सृष्टिरहस्यानि तं सम्मोहयन्ति स्म । न केवलम् इतिहासं, विज्ञानशास्त्रं पाश्चात्यतत्त्वशास्त्रमपि सम्यगधीतवान् सः । अध्ययनेन तस्य मेधाशक्तिः विकसिता भवति स्म । सन्देहसन्दोहाः तं परितः भवन्ति स्म । अन्धविश्वासान् मनसः सः तिरस्कर्तुं शक्तवान्, तत्त्वस्य साक्षात्कारन्तु न प्राप्तवान् ।

प्रसिद्धपण्डितान् सन्दृश्य, स्वसन्देहान् तेषु निवेद्य तेषां मार्गदर्शनं प्रार्थयति स्म । तर्कवितर्केषु पण्डिताः एकमन्यो विशिष्यन्ते स्म, किन्तु तेषां तर्काः नरेन्द्रस्य तृप्तिकराः नासन् । तेषां विचारशैली शिथिला, पुरातनी आसीत् । तेषु कस्यचन वा देवस्य साक्षात्कारानुभूतेः अविद्यमानत्वात् तद्विचारधारा नरेन्द्रस्य अतृप्तिकरी आसीत् ।

गुरोः अन्वेषणम्

[सम्पादयतु]
रामकृष्णपरमहंसः

जगन्मातुः कालीदेव्याः मन्दिरे रामकृष्ण परमहंस।श्रीरामकृष्णः अर्चकः आसीत् । सः तु न पण्डितः । किन्तु भक्तौ परमोन्नतः आसीत् । सः भगवतः साक्षात्कारं प्राप्तवानिति वदन्ति स्म सर्वे । तस्य सन्दर्शनार्थं गताः पण्डिताः तस्य शिष्याः अभवन् । एकदा नरेन्द्रः मित्रैः सह तस्य दर्शनाय दक्षिणेश्वरं गतवान् । श्रीरामकृष्णं परितः भक्ताः आसन् । सः भगवद्विषयकचर्चायां निमग्रः आसीत् । नऱेन्द्रः स्वमित्रैः सह एकस्मिन् कोणे उपविष्टवान् । श्रीरामकृष्णस्य मनसि किमपि चलनं प्रारब्धम् । आनन्दः अनुभूतः । केऽप्यनिर्वचनीयाः भावाः तस्य मनः कल्लोलितम् अकुर्वन् । पूर्वानुबन्धविषयिकाः काः अपि स्मृतयः तस्मिन्नुदभूय व्याप्नुवन्ति स्म । किञ्चित्कालपर्यन्तं सः भावसमाधाविव निश्चलः जातः । नरेन्द्रस्य आकर्षणीया मूर्तिः, प्रकाशवत् नेत्रयुगलञ्च तमाश्चर्यचकितमकरोत् । 'भवान् गातुं श्क्नोति वा ?' इति श्रीरामकृष्णः नरेन्द्रं पृष्टवान् । वीणारवसदृशेन श्राव्येण स्वकण्ठस्वरेण नरेन्द्रः वङ्गभाषया गीतद्वयं गीतवान् । तत् सङ्गीतमाधुर्यम् आस्वदमानः भगवान् श्रीरामकृष्णः समाधिं गतः । सः नरेन्द्रं कञ्चन प्रकोष्ठं नीतवान् । नरेन्द्रस्य पृष्ठं स्पृशन् 'वत्स ! कुतः विलम्बः ? एतावत्पर्यन्तं भवतः निरीक्षया मम नेत्रद्वयं श्रान्तं जातम् । मम दिव्यानुभूतयः योग्येन जनेन सह चर्चनीयाः । भवान्न साधारणः । नररूपधारी नारायणो भवान् । अहं बहुकालतः निरीक्षणं करोमीति जानाति वा भवान् ?' इति उक्त्वा भृशं रुदितवान् श्रीरामकृष्णः ।

श्रीरामकृष्णस्य प्रवर्तनं दृष्ट्वा नरेन्द्रः आश्चर्यचकितः । 'वृद्धः एषः उन्मत्तः’ इत्ति चिन्तितवान् । ‘वत्स ! पुनः आगच्छति वा ? आगच्छामीति वचनं ददातु ।' इति श्रीरामकृष्णः तमभ्यर्थितवान् । 'अस्तु' इत्यवदत् नरेन्द्रः बहिरागमनमेव ततः श्रेयः इति चिन्तयन् । श्रीरामकृष्णस्य भाषणस्यान्ते नऱेन्द्रः 'भवान् भगवन्तं दृष्टवान् वा?' इत्ति पृष्टवान् । ‘सत्यं भोः! दृष्टवान् । भवन्तमिव भगवन्तं दृष्टवान् । तेन सह वार्तालापं कृतवानपि । भवते अपि दर्शयामि । किन्तु भगवन्तं द्रष्टुं तातप्यमानः कः अस्ति?’ इति श्रीरामकृष्णः प्रत्यवदत् । नरेन्द्रः स्वगतमेवं चिन्तितवान् ‘अद्यपर्यन्तं भगवन्तमहं दृष्टवानिति वक्ता कोऽपि जनः न दृष्टः । एषः तु मतिहीनः इव अस्ति । उन्मत्तः स्यात् । अथवा परिशीलनम् अकृत्वा निर्णयस्वीकारः नोचितः अत्र' इति ।

एकः मासः अतीतः । कदाचित् नरेन्द्रः एकाकी दक्षिणेश्वरं गतः । श्रीरामकृष्णः स्वप्रकोष्ठे खटवायाम् उपविष्टवानासीत् । नरेन्द्रं दृष्ट्वा आनन्दितः सः तं खटवायाम् उपवेशितवान् । सः समाधिं गतः । स्वपादं नरेन्द्रस्याङ्के न्यस्तवान् । नरेन्द्रः बाह्यप्रपञ्चं विस्मृतवान् । स्वयं शून्ये आर्दीभवन्निव अनुभूतिं प्राप्तवान् ।'किमेतत् ? भवान् मां किं कुर्वन्नस्ति ? मम पितरौ जीवन्तौ स्तः । अहं तयोः समीपं गच्छामि' इति सम्भ्रान्तः उक्तवान् नरेन्द्रः । श्रीरामकृष्णः हसन् 'अस्तु । अद्य एतावत् पर्याप्तम् ।' इति वदन् स्वपादं तदङ्कतः स्वीकृतवान् । नरेन्द्रः पुनः साधारणस्थितिं प्राप्तवान् ।

दिनेषु गच्छत्सु तयोः परस्परम् आकर्षणं सञ्जातम् । परस्परं त्यक्त्वा जीवनम् असाध्यम् इति भावः उत्पन्नः । नरेन्द्रस्य सामर्थ्यं विज्ञातुं श्रीरामकृष्णस्य अधिककालः नावश्यकः अभवत् । विशिष्य सः जगन्मातुः कालिकायाः इच्छानुसारं प्रवर्तते स्म । युवकः नरेन्द्रः तु श्रीरामकृष्णं परीक्ष्य एव गुरुत्वेन अङ्गीकर्तुम् इच्छति स्म । 'भगवतः साक्षात्करणाय ऐहिकवाञ्छाः त्याज्याः' इति श्रीरामकृष्णः वदति स्म । एकस्मिन् दिने नरेन्द्रः श्रीरामकृष्णे बहिर्गते सति तस्य शय्यायाः अधः नाणकमेकं स्थापितवान् । श्रीरामकृष्णः प्रत्यागत्य खट्वायां शयितवान् । तत्क्षणम् एव सः वृश्चिकेन दष्ट इव उत्पतितः । शय्यायाम् अन्वेषणेन नाणकं प्राप्तं तेन । तत् नरेन्द्रस्य कार्यमेवेति सः अनन्तरं ज्ञातवान् । नरेन्द्रः श्रीरामकृष्णस्य प्रियशिष्यः सञ्जातः । sa

नरेन्द्रस्य वचनानि श्रीरामकृष्णः यथातथं नाङ्गीकरोति स्म । नरेन्द्रः विग्रहाराधकान् तीव्रतया विमृशति स्म । अद्वैतसिद्धान्तं तिरस्करोति स्म । लोकोत्तरानुभूतीः न विश्वसिति स्म । 'अहं ब्रह्मास्मि' 'शिवोऽहम्' इत्येतादृशानि अद्वैतबोधकवाक्यानि नरेन्द्रे कमपि परिणामं न अजनयन् । श्रीरामकृष्णः सर्वदा नरेन्द्रम् एवं वदति स्म - "किञ्चन् गम्यस्थानं गन्तुं बहवः मार्गाः भवन्ति । इतरप्रवासिनां मार्गः अनुचितः इति वक्तुं कस्यापि अधिकारः नास्ति । अज्ञातविषयानुद्दिश्य स्वसिद्धान्तप्रकटनं नोचितम्" इति । एवं श्रीरामकृष्णः नरेन्द्रं क्रमशः समीचीनमार्गं प्रापयति स्म ।

एकदा श्रीरामकृष्णः नरेन्द्रं निर्जनप्रदेशं नीतवान् । 'बहुकालं अत्र तपः कृत्वा नरेन्द्रः काश्चन् सिद्धीः सम्पादितवान् । एताभिः मानवः वाञ्छितं प्राप्तुं शक्नोति । अहं तु सर्वान् कामान् त्यक्तवान् । एताभिः शक्तिभिः मम प्रयोजनं नास्ति । एताः भवते यच्छामि वा ?' इति नरेन्द्रं पृष्टवान् रामकृष्णः । 'एताभिः शक्तिभिः आत्मसाक्षात्कारः मया लभ्यते वा ?' इति नरेन्द्रः तं पृष्टवान् । 'न लभ्यते' इति श्रीरामकृष्णस्य समाधानम् ।"तथा चेत् एताः शक्तयः मम नावश्यक्यः, मम वाञ्छा तु भगवत्साक्षात्कारः एव" इति नरेन्द्रस्य वचनं श्रुत्वा श्रीरामकृष्णे आनन्दः सुविकसितः । गुरुदेवः नरेन्द्रं परीक्षितवान् । परीक्षायां नरेन्द्रः सफलः अभवत् ।

क्रमशः नरेन्द्रः प्रापञ्चिकवासनाः त्यक्त्वा, वैराग्यधर्मासक्तः भवति स्म । तस्य पितरौ अमुमंशं ज्ञातवन्तौ । तदा नरेन्द्रः स्नातकपरीक्षायै (B.A) पठति स्म । तस्य विवाहं कृत्वा प्रापञ्चिकजीवनं प्रति आनेतुं तौ चिन्तितवन्तौ । अमुं विषयं ज्ञात्वा श्रीरामकृष्णः कल्लोलितस्वान्तः अभवत् । 'कौटुम्बिकबन्धेषु लग्रः भवति चेत् मानवसेवां कर्तुं न शक्नोति भवान्' इति तं बोधितवान् । कदाचित् श्रीरामकृष्णस्य बोधनेषु नरेन्द्रः न विश्वसिति स्म । तादृशसमयेषु श्रीरामकृष्णः आदौ तं स्वहस्ताभ्यां स्पृशति स्म । तेन नरेन्द्रः प्रापञ्चिकविषयनिस्स्पृहः भवति स्म । गुरुबोधेन पुनः प्राप्तचैतन्यः भवति स्म । एवं क्रमशः स गुरुः स्वशक्तिं शिष्याय दत्तवान् । १८८४ संवत्सरे नरेन्द्रः स्नातकपरीक्षाम् (B.A) उत्तीर्णवान् । तस्य किञ्चन मित्रं मिष्टान्नोपहारं पुरस्कृतवान् । तत्र नरेन्द्रः गीतमेकं गीतवान् । तस्मिन्नेव समये अशनिपात इव जनकस्य मरणवार्ता नरेन्द्रेण श्रुता ।

पितुः मरणानन्तरं तत् कुटुम्बं दारिद्र्येण आवृतम् । ऋणदातारः ऋणनिर्यातनाय पीडनम् आरब्धवन्तः । तेषु केचन न्यायालये अभियोगम् अग्च्छन् । आजीविकासम्पादनाय नरेन्द्रः बहुधा अटितवान् । तस्य वस्त्राणि खण्डशः छिन्नानि अभवन् । दिने एकवारं भोक्तुम् अपि कष्टमभवत् । स्वजननी-सोदरी-सोदराणाम् उदरपूरणाय सः बहुदिनानि निराहारः आसीत् । क्षुधया कदाचित् वीथीषु विसंज्ञः सन् पतति स्म । एवं दौर्भाग्ये तमनुसरति सत्यपि सः भगवति विश्वासं तु न त्यक्तवान् । 'मानवसेवां, जगन्मातुः कालिकायाः कार्यं निर्वोढुम् एव लोकेऽस्मिन् भवानस्ति । धीरः भवतु' इति तं सान्त्वयति स्म श्रीरामकृष्णः ।

'मम गुरुणा दृष्टः भगवान् सर्वं ददाति । अतः गुरोः सन्निधौ अभ्यर्थनं कार्यसाधनाय, वाञ्छापूरणाय उत्तमोपायः' इत्ति चिन्तितवान् एकदा नरेन्द्रः । साक्षात् गुरोः समीपं गत्वा 'एतस्मात् दारिद्र्यात् मां मोचयितुं मम पक्षतः जगन्मातरं कृपया प्रार्थयतु । भवान् यत्पृच्छति सा देवी तत्पूरयत्येव खलु ।' इत्यवदत् । 'वत्स ! मम तु जनन्यां सुतरां विश्वासः नास्ति । सा कथं मम प्रार्थनां शृणोति ? भवानेव तस्याः समीपं गत्वा पृच्छतु । तदा सा भवतः अभीष्टं सफलं करोति' इति गुरुः उक्तवान् । नरेन्द्रः अर्धरात्रिवेलायां कालीमातुः विग्रहस्य पुरतः उपविष्य गाढं ध्यानम् अकरोत् । 'अम्ब ! मह्यं त्यागभावं, वैराग्यभावं च ददातु । भवत्याः प्रत्यक्षदर्शनं ददातु । भवतीमहम् एतावदेव प्रार्थयामि' इति अभ्यर्थितवान् । नरेन्द्रः बहिरागते सति गुरुः 'भवतः आभीष्टं मातरि निवेदितवान् वा ? सा किम् उक्तवती ?' इति पृष्टवान् । नरेन्द्रः विस्मितः । 'अये ! तं विषयं सम्पूर्णतया विस्मृतवान्' इति उक्तवान् ।' तर्हि पुनः गत्वा कालीं प्रार्थयतु' इति उक्तवान् गुरुः । 'दारिद्य्रबाधां वारयतु 'इति प्रार्थनां सः पुनरपि विस्मृतवान् । गुरुः पुनरपि तं कालीसमीपं प्रेषितवान् । स च पुनरपि तं विषयं विस्मृतवान् । गुरोः आनन्दस्य सीमा एव नासीत् । 'वत्स! भोजनवस्त्रादिषु विषयेषु चिन्तां न करोतु । भगवति विश्वसितु । भवतः कुटुम्बस्य योगक्षेमं सा एव वहति’ इति गुरुः प्रेम्णा उक्तवान् ।

नरेन्द्रः उपाध्यायवृत्तिं स्वीकृतवान् । किञ्चित्कालं विद्यासागरस्य पाठशालायां विद्याबोधनं कृतवान् । तदानीं कुटुम्बस्य यथावसरं खादितुं धनं लभ्यते स्म । उपाध्यायः भूत्वा एव न्यायशास्त्राध्ययनम् अनुवर्तितवान् । गुरोः स्वास्थ्यं सम्यक् नासीत् । श्रीरामकृष्णस्य कण्ठे व्रणः जातः । नरेन्द्रः स्वोद्योगं विद्याभ्यासं च परित्यज्य गुरोः परिचर्यार्थम् उपस्थितः जातः । सः गुरोः अन्त्यसमयः । तस्मिन् दिने सः नरेन्द्रं शय्यासमीपम् आहूय स्पृष्टवान् । आध्यात्मिकशक्तीः सर्वाः नरेन्द्राय दत्तवान् । 'नरेन्द्र ! इदानीं भवान् सर्वशक्तिसमन्वितः । एते सर्वे मम पुत्राः । एतेषाम् आवश्यकातादिविषये भवानेव चिन्तयतु' इति उक्तवान् । तानि वचनानि श्रुत्वा नरेन्द्रस्य हृदयं दुःखपूरितं जातम् । शिशुरिव उच्चैः रुदन् प्रकोष्ठात् बहिः गतवान् । श्रीरामकृष्णस्य निर्णयानुसारं तस्य युवशिष्याः सर्वे बारानगरे एकं भाटकगृहं स्वीकृत्य तत्र निवासं कृतवन्तः । तद् गृहं पुरातनं नगरतः दूरे गङ्गानदीतटे आसीत् । श्रीरामकृष्ण्स्य समाधेः अत्यन्तसमीपे अस्ति तत् । अतः तत्रैव मठस्य निर्माणं कृतवन्तः । तेषां युवसन्यासिनां द्वे लक्ष्ये आस्ताम् । मोक्षसाधनम्, मानवसेवनञ्च । केचन युवकाः स्वगृहाणि त्यक्त्वा संन्यासं स्वीकृतवन्त: । नरेन्द्रोऽपि संन्यासी भूत्वा तस्याः संस्थायाः नायकः अभवत् । भोजनेन, वस्त्रेण च हीना अपि युवसंन्यासिनः किमपि न गणितवन्तः । निराहारिणः सन्तोऽपि शास्त्राध्ययनं, ध्यानसाधनं च कृतवन्तः । नरेन्द्रः संस्कृतं वेदान्तं च बोधितवान् । मठसन्दर्शकान् गुरुबोधनानि वदति स्म ।

तीर्थयात्रा

[सम्पादयतु]

संन्यासी एकस्मिन्नेव स्थाने चिरं न तिष्ठेत् । मठः अपि कारागारसदृशः । एकस्मिन् प्रदेशे अनुबन्धः अपि दोषाय एव । नरेन्द्रः संन्यासी भूत्वा 'विवेकानन्दः' अभवत् । भारतदेश एव तस्य गृहं, भारतीयाः सर्वे तस्य सहोदराः । तेन देशे पर्यटनं करणीयम् । काषायवस्त्रदण्डकमण्डलादयः एव तस्य सम्पदः अभवत् । पर्यटनं कुर्वन् सः अनेकपुण्यक्षेत्राणि सन्दृष्टवान् । पर्णशालासु धर्मशालासु वसन् कठिनभूमौ निद्रां करोति स्म । भिक्षाटनं कृत्वा उदरपूरणं, साधुभिः सह सहवासः, धार्मिकचर्चाभिः पुण्यकर्मभिः कालयापनं, पादभ्यां गमनं तस्य दिनचर्या आसीत् ।कोऽपि सहृदयः वाहनचालकः लभ्यते चेत् तस्य प्रवासः तेन सह भवति स्म । विवेकानन्देन दृष्टं प्रथमक्षेत्रं वाराणसी । तत्र कतिचन दिनानि निवसन् तत्रत्यपण्डितान् स्वीयविचारान् श्रावितवान् । तत्त्वशास्त्रसम्बद्धचर्चायां तान् जितवानपि । अयोध्यायां सीतारामयोः स्मृतिभिः तस्य ऊहालोकः नन्दितः । आगरायां ताजमहल् तस्य विस्मयं जनयामास । बृन्दावनं गच्छन् मध्येमार्गं कञ्चन धीवरं याचित्वा हुक्कां पीतवान् । कस्यचन पारियागृहे जलं पीतवान् । भिक्षाटनं कृतवान् । केनचित् चर्मकारेण दत्तम् आहारं भुक्तवान् । श्रीकृष्णवासस्थाने बृन्दावने पदं स्थापयन् भावपरवशोऽभूत् ।

आल्वारुमध्ये केचन महम्मदीयाः तस्य शिष्याः अभवन् । तेषां गृहेषु निवाससमये एव स्वामिनः महाराजस्य मङ्गलदाससिंहस्य परिचयः अभवत् । आदौ महाराजस्य विवेकानन्दे विश्वासः नोत्पन्नः । तयोः मध्ये तीव्रवादोपवादाः अभवन् । 'स्वामिन्! मूर्त्याराधने मम विश्वासः नास्ति' इति उक्तवान् महाराजः । तदा विवेकानन्दः मूर्तिः तु प्रतीकमात्रम् । तस्य दूषणं निरर्थकम् । सर्वोऽपि भक्तः स्वीयया पद्धत्या दैवसाक्षात्कारं प्राप्नोति । मानवस्य स्वस्वभक्तिश्रद्धयोः अनुरूपा पूजापद्धतिः भवति' इति उक्तवान् । स्वामिनः स्पष्टीकरणेन राज्ञः तृप्तिः नाभवत् । समीपे राज्ञः चित्रमेकम् आसीत् । ‘तत् कस्य चित्रम् ?' इति स्वामी अमात्यं पृष्टवान् । 'तत् महाराजस्य चित्रम्' इति अमात्यः उक्तवान् । 'तस्मिन् निष्ठीवनं करोतु' इति स्वामी उक्तवान् । अमात्यः आश्चर्यचकितः ।'किं तथा दीनवदनः अस्ति?' स्वामी पृष्टवान् । ‘एषः वस्तुतः उन्मत्तः स्यात्’ इति अमात्यः चिन्तितवान् । तदा स्वामी एवं स्पृष्टीकृतवान् - 'चित्रं राज्ञः छायामात्रम् । तस्मिन् रक्तमांसादिकं नास्ति । अत्र निष्ठीवने कः क्लेशः ?' इति । ‘चित्रं राजानमेव स्मारयति खलु !' अमात्यः पृष्टवान् । तदा महाराजस्य ज्ञानोदयः अभवत् । सः स्वामिनः सविधे क्षमां प्रार्थितवान् । ततः स्वामी जयपुरम्, अज्मीरम् अतिरिच्य अबूपर्वतं गतवान् । तत्र गुहायां कञ्चित् कालं तपसा यापितवान् ।

विवेकानन्दे रेलयानेन प्रवासं कुर्वति सति राजस्थाने एका कुतूहलकरी घटना अभवत् । सः द्वितीयश्रेणीशकटापवर्गे प्रवासं कुर्वन् आसीत् । धनाभावात् अधिककालतः सः आहारं न खादितवान् आसीत् । एकदा स्वामिनः सहप्रवासी कश्चन वणिक् बहुविधखाद्यानि खादति स्म । स्वामी तु क्षुधया, श्रान्त्या च पीडितः आसीत् । वणिक् तं विडम्बयन् 'भवान् सुतराम् अलसः । कार्यं कर्तुमनिच्छन् काषायवस्त्राणि धृत्वा अटति । भवते कः ददाति ? मम खादनं भवान् पश्यति चेदपि कः दयां करोति ?' इत्यवदत् । स्वामी शान्ततया अवदत् - ‘देवः मम आहारव्यवस्थाम् अवशयं करिष्यति’ इति । किंचित्कालानन्तरं कश्चित् मिष्टविक्रेता स्वामिसमीपमागत्य कानिचन मिष्टानि तस्मै समर्प्य 'स्वामिन् ! अद्य प्रगे स्वप्ने भवन्तं दृष्टवान् । भगवान् श्रीरामचन्द्रः एव भवते आहारं दातुं माम् आदिष्टवान्' इति अवदत् । सर्वमिदं दृष्ट्वा अहङ्कारी वणिक् लज्जया अवनतमुखः जातः ।

अमेरिकाप्रवासः

[सम्पादयतु]

मैसूरनगरे स्वामी दिवान् शेषाद्रिअय्यरेण मैसूरुमहाराजेन सह च अमिलत् । कस्याञ्चन पण्डितसभायां स्वामिना कृतेन संस्कृतप्रसङ्गेण आकृष्टः महाराजः ‘भवतः भविष्यत्प्रणालिका का ?' इति पृष्टवान् । 'भारतदेशः अनेकमतानां, दर्शनसिद्धान्तानां च आश्रयस्थानम् अस्ति । एतयोः द्वयोः समन्वयेन एव समाजस्य श्रेयः साध्यं भवति । अतः वेदान्तबोधनं कर्तुम् अहम् अमेरिकादेशं गच्छामि' इति स्वामी उक्तवान् । 'तस्य व्ययभारम् अहं वहामि' इति महाराजः उक्तवान् । महाराजस्य निर्णयाय स्वामी धन्यवादान् समर्प्य 'यथावसरं साहाय्यं प्राप्स्यामि' इति उक्त्वा ततः निर्गतः । अनन्तरं स्वामी रामनाडं दृष्टवान् । तदानीन्तनः रामनाडपालकः भास्करसेतुपतिः । सः देशस्य समस्याः अधिकृत्य स्वामिना सह चर्चां कृतवान् । स्वामिनि राजा महत् गौरवं दर्शितवान् । 'अमेरिकादेशे भविष्यमाणां विश्वधर्ममहासभां प्रति भवता गन्तव्यम् । भवतः प्रवासभारम् अहं वहामि' इति राजा उक्तवान् । एतं विषयं परिशीलयामि इति उक्त्वा स्वामी रामेश्वरं गत्वा ततः अन्ते कन्याकुमारीं प्राप्तवान् । समुद्रे प्लवनं कुर्वन् काञ्चन शिलां दृष्ट्वा तत्रोपविष्टवान् । एवं समुद्रमध्ये उपविश्य भारतदेशस्य विषयकचिन्तने मग्रः अभवत् । देशे प्रजाः पीडयन्ती दारिद्र्यदशा तं दुःखितम् अकरोत् । कुलतत्त्वस्य निर्मूलनेन विना स्वदेशप्रजानां विमुक्तिः न भवतीति निर्णीतवान् स्वामी पाश्चात्यदेशेषु पर्यटन् तत्रत्यानां कृते भारतीयायाः आध्यात्मिकसम्पदः औनन्त्यस्य स्पष्टीकरणमेव स्वस्य प्रथमकर्तव्यमिति निर्णीतवान् । ततः निद्रां कुर्वतः स्वदेशीयान् प्रबोधयेयमिति चिन्तितवान् । नरेन्द्ररूपेण स्थितः वङ्गराज्यस्य लघुदीपः विवेकानन्दरूपेण समग्रभारतस्य कृते कान्तिप्रदा महाज्वाला इव परिणतः अभवत् । अमेरिकां प्रति अवश्यं गन्तव्यमिति दृढता मद्रपुर्यामेव प्राप्ता । मद्रास् नगरे तेन सम्पादिता कीर्तिः भाग्यनागरं प्रति तस्य प्रवासमकारयत् । भाग्यनगरे तस्य भाषणं श्रोतुं सहस्रशः जनाः उपस्थिताः । स्वामिनः प्रथमभाषणस्य महासभावेदिका भाग्यनगरे एव अभवत् ।

भाग्यनगरतः मद्रासनगरं प्रत्यागत्य विदेशपर्यटनाय सिद्धतां कृतवान् स्वामी । तस्य प्रयाणव्ययाय देशस्य सर्वकोणेभ्यः धनसाहाय्यं प्राप्तम् । स्वप्रवासाय अपेक्षितमात्रं परिमितं धनं स्वीकृत्य अवशिष्टं दातृभ्यः प्रत्यर्पितवान् स्वामी ।

१८९३ संवत्सरे मे मासे ३१ तमे दिनाङ्के मुम्बयीनौकाश्रयतः नौका प्रस्थिता । मध्येमार्गं कोलम्बो, सिंगपूर्, हांगकांग्, टोक्यो नौकाश्रयान् अतिक्रम्य जुलैमासे स्वामी चिकागोनगरं प्राप्तवान् । निवासाय किञ्चन वसतिगृहं स्वीकृतवान् । इतोऽपि मासत्रयानन्तरं विश्वधर्ममहासभायाः प्रारम्भः इति ज्ञातम् । अस्मिन् अपरिचितप्रदेशे मासत्रयं यावत् कथं स्थातव्यम् ? इति सः अचिन्तयत् । तत्र कोऽपि अन्तर्जातीयवाणिज्योत्सवः प्रचलति स्म । तत्स्थाने स्वामी अटन्नासीत् । भारतीयः कश्चन महाराजः तेन दृष्टः । स्वामी महाराजसमीपं गत्वा भाषितुं प्रयत्नं कृतवान् । किन्तु महाराजः मुखं परिवर्त्य ततः गतवान् ।

चिकागो महानगरे व्ययः अधिकः भवतीति स्वामी समीपस्थं बोस्टन् पट्ट्णं गतवान् । मध्येमार्गं सः काञ्चन महिलां दृष्टवान् । सा बोस्टन् नागरवासिनी एव । स्वामिनः चित्रं वेषधारणम् , विस्मयकारिणीं मूर्तिं, कान्तिमयनेत्रे च दृष्ट्वा सा चकिता । सः साधारणजनः न इति सा ज्ञातवती । अतिथित्वेन मम गृहे तिष्ठतु इति तं सा अभ्यर्थितवती । स्वामी अङ्गीकृतवान् । तया उपकल्पितेषु लघुसमावेशेषु सः विषयम् उपन्यस्यति स्म । भारतीयसंस्कृतिः हिन्दुधर्मः तस्य भाषणविषयः आसीत् । क्रमशः बहवः पण्डिताः तस्य मित्राणि अभवन् । जान् हेन्री रैट् तेषु अन्यतमः । हार्व्रर्डविश्वविद्यालये सः ग्रीक् प्राचार्यः आसीत् । स्वामिनः पाण्डित्यप्रकर्षं दृष्ट्वा सः अत्यन्तम् आश्चर्यचकितः । विश्वधर्ममहासभायां भागग्रहीतृभिः सर्वैः स्वीयपरिचयपत्राणि सभानिर्वाहकाणां कृते दातव्यानि आसन् । स्वामिनः समीपे परिचयपत्रं न आसीत् । प्राचार्यः रैट् स्वामिने परिचयपत्रं ददत् ‘प्राचार्यान् अस्मान् पराजितान् कर्तुं समर्थः महाशेमुषीधुरन्धरः एषः' इति तत्र लिखितवान् ।

स्वामी पुनः चिकागोनगरं गतवान् । तत्र मेलनीयानां जनानां सङ्केतानां सूची नष्टा जाता इत्यतः किं करणीयमिति स्वामी न ज्ञातवान् । मार्गान्तरस्य अभावात् रेल् स्थाने कस्मिंश्चिद् स्थगिते रिक्तशकटापवर्गे निद्राणवान् । अनन्तरदिने क्षुद्बाधया पीड्यमानः सः वीथीषु अटितवान् । कोऽपि किमपि न दत्तवान् । श्रान्तः स्वामी एकत्र क्रीडाङ्गण्स्य सोपानेषु उपविष्टवान् । क्रीडाङ्गणस्य पुरतः विद्यमानगृहतः काचन महिला बहिरागत्य तम् उपेत्य 'भवान् विश्वधर्ममहासभासु प्रतिनिधिरूपेण आगतवान् वा ?' इति तं पृष्टवती । आम् इत्युक्तवान् स्वामी । 'कृपया अस्मद् गृहम् आगच्छतु ।स्नानं, भोजनं च करोतु । अनन्तरम् अहं भवन्तं सभास्थलीं प्रापयामि' इति सा अवदत् । तस्याः नाम श्रीमती जार्ज् हेल्स् ।

१८९३ संवत्सरे सेप्टेम्बर् मासे ११ दिनाङ्के महासभायाः प्रारम्भः अभवत् । विविधदेशेभ्यः सहस्रशः प्रतिनिधयः तां सभां प्रति आगतवन्तः । तेषु कनीयान् विवेकानन्दः एव । भाषणाय स्वपर्यायः आगच्छतीति तस्य हृदयस्पन्दनम् अधिकम् अभवत् । कण्ठः शुष्कः अभवत् । इतरप्रतिनिधयः इव भाषणस्य पूर्वसज्जतामपि न कृतवान् आसीत् सः । सर्वेषां भाषणानन्तरम् अन्तिमवक्तृरूपेण अहं भाषणं करोमि इति सभाध्यक्षं निवेदितवान् । अन्ते तस्य समयः आगतः एव । श्रीरामकृष्णं च सम्प्रार्थ्य वक्तुमारब्धवान् ।

"अमेरिकादेशीयाः सोदरसोदरीमणयः !" इति मृदुमधुरकण्ठेन सः स्वभाषणम् आरब्धवान् । तेन एकदैव सभायां सर्वत्र हर्षोद्गारः उद्गतः । निमेषत्रयं यावत् करतालध्वनयः एवासन् । तेषां स्थगनानन्तरं सः स्वलघुभाषणम् अनुवर्तितवान् । विविधप्रदेशेषु उत्पन्नाः नद्यः सर्वाः अपि समुद्रमेव प्राप्नुवन्ति, एवं विविधधर्मेषु जाताः जनाः सर्वे एकमेव भगवन्तं प्राप्नुवन्ति इति सः उक्तवान् । कोपि धर्मः धर्मान्तरापेक्ष्या महान् भवितुं नार्हति इति सः उक्तवान् । प्रतिनिधयः सर्वेऽपि तस्य भाषणं प्रशंसितवन्तः । वार्तापत्रिकासु अपि तस्य छायाचित्राणि भाषणविषयश्च सर्वप्रमुखतया प्रकाशिताः आसन् । तदनन्तरदिनेषु तस्य भाषणं श्रोतुं जनाः प्रवाहरूपेण आगच्छन्ति स्म । तत्रत्यानां प्रजानां अत्यन्तं प्रियः अभवत् सः । भाषणाय विवेकानन्दस्य उत्थानमात्रेण जनाः हर्षातिरेकेण जयघोषं कुर्वन्ति स्म ।

धर्ममहासभासु एव अनेकाः विद्यासंस्थाः, सङ्घाः विवेकानन्दाय आह्वानानि अयच्छन् । स्वगृहम् आगत्य स्वातिथ्यं स्वीकृत्य अनुगृह्यताम् इति बहवः धनिनः विवेकानन्दं प्रार्थितवन्तः । अल्पसमये एव सः जगद्व्याप्तां कीर्तिं सम्पादितवान् । सर्वत्र सः भारतीयसंस्कृतेः महत्त्वम् अधिकृत्य एव भाषते स्म । इतिहासे, सामाजिकशास्त्रे, तत्त्वशास्त्रे, साहित्ये इत्याद्यंशेषु अपि आशु प्रवाहरूपेण तस्य भाषणमासीत् । भारतदेशे क्रैस्तसंस्थाजनैः क्रियमाणान् कुतन्त्रपूरितान् दुष्प्रचारान् विरुद्ध्य सः भाषितवान् ।

'ह्स्ते स्मरणाय लिखितविषयं पत्रखण्डं वा अगृहीत्वा आशुभाषणं करोति स्म सः । विचित्रं काषायवेषधारणम् उत्पतत् तेजः, विलक्षणं व्यक्तित्वम्, विरला आकर्षणीयता हिन्दुमतस्वरूपस्य स्पष्टीकरणे विस्मयकरं नैपुण्यम् - एतादृशविशिष्टवरसम्पदा सः प्रजाहृदयानि हृतवान् । वशीकरणे मान्त्रिकः जातः । आङ्ग्लभाषायाम् अपूर्वः अधिकारः तस्यासीत् । तादृशः जनः युगे एक एवावतरति । तस्य दर्शनं, तस्य वचसां श्रवणं वस्तुतः भाग्यमेव' इति वार्तापत्रिकासु आनन्दातिरेकः प्रकटितः । भारतीयाः अज्ञानिनः इति, अन्धविश्वासशीलाः इति चिन्तयताम् अमेरिकावासिनां स्वामिनः प्रबोधभाषणस्य श्रवणात् भ्रमः निर्गतः । न केवलममेरिकादेशे किन्तु प्रगतदेशेषु सर्वत्र भारतदेशस्य गौरवध्वजः उत्तोलितः अनेन।

इंग्लण्ड्तः तेन बहुधा आह्वानं प्राप्तम् । तेन लण्डन् नगरे पदस्थापनमात्रेण अपूर्वस्वागतं प्राप्तवान् सः । हिन्दुयोगिनः एतस्य वाक्प्रावीण्यं, विशाललक्ष्यं च पत्रिकासु बहुधा प्रशंसितम् । असंख्याकाः जनाः तस्य शिष्याः अभवन् । 'सोदरी निवेदिता' इति प्रसिद्धिं गता मार्गरेट् नोबेल् अपि तेषु अन्यतमा । सा भारतदेशम् आगत्य अत्रैव स्थिरवासमकरोत् ।

वर्षचतुष्टयं यावत् विदेशेषु पर्यटनं कृत्वा स्वामी विवेकानन्दः भारतभूमिं प्रत्यागतः ।

आशयसाफल्यम्

[सम्पादयतु]

भारतदेशे पदन्यासात् पूर्वमेव स्वामिनः कीर्तिः दिगन्तव्याप्ता अभवत् । १८९७ संवत्सरे जनवरी १५ दिनाङ्के सः कोलम्बो नगरे यदा पादं स्थापितवान् तदा तस्य चक्रवर्तिनः इव स्वागतोपचाराः अभवन् । सः यदा मद्रास् नगररेलस्थानं प्राप्तवान् तदा असंख्याकाः अभिमानिनः स्वागतं चक्रुः । अभिमानिनः तेन उपविष्टं शकटं स्वयं कर्षन्तः शोभां कल्पितवन्तः । तदा प्रशंसावाक्यानां, पुष्पमालानां वा मितिरेव नासीत् । स्वामी यत्र यत्र गतवान् तत्र सर्वत्र स्वगुरुदेवस्य सन्देशं श्रावितवान् । अभ्यर्थितवतां सर्वेषां कृते आध्यात्मिकतायाः साधने मार्गदर्शनं कृतवान् सः । सोदरसंन्न्यासिनः मानवसेवायै अङ्कितजीवनाः अभवन् । स्वीयमोक्षाय इच्छाऽपि स्वार्थपूर्णा एव इति वारं वारं स वदति स्म । 'भारतदेशे बाधाग्रस्तः एकः अपि न भवेत् । तावदवधि अहं मोक्षं न इच्छामि' इति वदति स्म स्वामी । संस्थारूपेण सेवाकार्यं भवेत् । तदैव सामाजिकसेवा साध्या भवतीति सः चिन्तितवान् । १८९७ संवत्सरे 'श्रीरामकृष्णमिषन्' इति संस्थां प्रारभ्य तस्याः सिद्धान्तानां, लक्ष्यस्य च रूपकल्पनां कृतवान् । वर्षद्वयानन्तरं गङ्गानदीतीरे बेलूरुसमीपे किञ्चित् स्थलं क्रीत्वा भवनानि निर्माय श्रीरामकृष्णमठं स्थापितवान् स्वामी ।

विरामरहितकार्यैः स्वामिनः स्वास्थ्यं क्षीणम् अभवत् । विश्रान्तये हिमालयेषु अनुकूलपर्वतप्रदेशान् अनेकान् आश्रितवान् । तत्रापि स्वसेवाकार्यम् अनुवर्तयति स्म । जनानाम् अभ्यर्थनानुसारम् उत्तरभारते बहूनि पट्ट्णानि सः दृष्टवान् । अमेरिकाशिष्याणाम् आह्वानम् अङ्गीकृत्य पुनरेकवारं अमेरिकादेशपर्यटनं कृतवान् । प्यारिस् नगरे प्रचलितासु धर्मसभासु भागं गृहीत्वा भारतं प्रत्यागतवान् ।

शिष्यैः बहुधा अनुनीतोऽपि विश्रान्तिं न स्वीकरोति स्म सः । सः अन्तर्मुखी जातः । शरीरं दुर्बलं जातम् । मनः जागरितम्, आत्मा उत्तेजितः च आसीत् ।

१९०२ संवत्सरे जुलै ४ दिनाङ्के सः यथापूर्वं शिष्यान् पाठान् बोधितवान् । भोजनानन्तरं किञ्चिदिव विश्रान्तिं स्वीकृतवान् । किञ्चित्कालानन्तरं कोऽपि परिणामः जातः इव । अनुचरैः सह वार्तालापं कुर्वन्, हास्योक्तीः वदन् आनन्देन किञ्चित् कालं यापितवान् । रात्रौ नववादनसमये श्रान्तः इव दृष्टः । तस्य ह्स्तौ कम्पमानौ आस्ताम् । दीर्घं निश्वस्य निद्रां कृतवान् । अचिरात् सः महासमाधिं प्राप्तवान् । तस्य शिष्याः, सोदरसंन्यासिनः अनाथा वयमिति शिशवः इव रोदनम् अकुर्वन् । स्वामी इदानीं नास्ति । तस्य वचांसि तु शाश्वतानि सन्ति । लक्षशः जनानां कृते स्फूर्तिं यच्छन्ति । एतत् पुनरेकवारं स्मरन्तु - "महापुरुषाणां, महर्षीणां च औरसाः अपत्यानि वयमिति भवन्तः आनन्दम् अनुभवन्तः जीवन्तु । अकिञ्चनानां भाग्यहीनानां समुद्धरणाय सम्पन्नाः यावदग्रे नायान्ति, लुण्ठनतत्त्वस्य नाशः यावत् न भवति तावत् भारतदेशः श्मशानवाटिका एव भवति । निर्धनकृषिकस्य कुटीरात् भारतमातृदेवी नूतनशक्त्या उदयं प्राप्नुयात् ।

धीवरगृहेषु सा अवतरतु । पादरक्षानिर्मातुः, वीथीसम्मार्जकस्य पर्णशालाभ्यः सा बहिरायातु । धान्यागारेषु, कर्मगारेषु सा प्रतिष्ठिता भवतु । सर्वत्र पर्वतेषु, उपत्यकासु, कन्दरेषु नवभारतोदयगीतं प्रतिध्वनिभिः नर्तयतु विश्वम् " इति ।

सन्दर्भः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=स्वामी_विवेकानन्दः&oldid=476723" इत्यस्माद् प्रतिप्राप्तम्