विवेकानन्दजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(युवदिनम् इत्यस्मात् पुनर्निर्दिष्टम्)

स्वामिनः विवेकानन्दमहोदयस्य जन्मोत्सवदिनं युवदिनम् इति भारतदेशे आचरन्ति । जनवरीमासस्य द्वादशे दिनाङ्के एतत् दिनम् आचरन्ति । स्वामिविवेकानन्दमहोदयः युवजनान् “उत्तिष्ठत जाग्रत भारतस्य अभिवृद्धिः युवजनानां हस्तेऽस्ति” इति नवयुग-आचार्यरूपेण कार्यम् अकरोत् । विज्ञानयुगेऽस्मिम् काले भारतीयाः युवानः निरुत्साहिनः न भवन्तु । युवजनेषु या शक्तिरस्ति तस्याः ज्ञानं युवजनाः सम्यक् अवगम्य कार्यं कुर्वन्तु इति अस्य दिनाचरणस्य उद्धेश्यम् अस्ति । स्वामिविवेकानन्दमहोदयस्य जीवनदर्शनेन कार्यसामर्थ्येन विश्वप्रसिद्धया च युवजनाः प्रेरणां पाप्य देशस्य उद्धरणं कार्ये निरताः भवन्तु इति च सदाशयः अस्ति । भारतदेशः विश्वेऽपि मान्यतां प्राप्नोतु । युवजनानां नवनवीनाः प्रोत्साहदायकाः कार्यक्रमाः प्रचलन्तु इति च अस्य दिनाचरणस्य फलानि उद्दिष्टानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=विवेकानन्दजयन्ती&oldid=429495" इत्यस्माद् प्रतिप्राप्तम्