ज्ञानयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


ज्ञानयोगः योगस्य विविधासु शाखासु अन्यतमा । 'युज्'धातुतः आगतस्य योगशब्दस्य कश्चन अर्थः अस्ति चित्तैकाग्रता इति । योगस्य इदं मुखं राजयोगस्य विषयवस्तु । उभयोः वस्तुनोः संयोगः इति अन्यः अर्थः । जीवात्म-परमात्मनोः संयोगः प्रकृतः विषयः । इदं मुखं वेदान्तदर्शनस्य विषयवस्तु । कश्चन जनः यत् प्राप्तुम् इच्छति तत् प्राप्तुं (तेन सह संयोक्तुम्, एकीभवितुम्) ये मार्गाः अनुस्रियन्ते ते योगाः इति निर्दिश्यन्ते । पुरुषार्थाः चत्वारः । एतेषु प्रमुखः अस्ति मोक्षः, मुक्तिः । अस्य प्राप्तिमार्गाः एव योगाः । तेषु अन्यतमः अस्ति ज्ञानयोगः ।

ज्ञानस्य महत्ता[सम्पादयतु]

आहार-निद्रा-भय-मैथुनञ्च सर्वेषु प्राणिषु यथा तथा मनुष्यप्राणौ अपि विद्यते । मानवस्य वैशिष्ट्यं नाम तस्य ज्ञानम् । इदं ज्ञानं द्विविधम् - प्रपञ्चज्ञानम्, आत्मज्ञानञ्चेति । बाह्यप्रपञ्चज्ञानम् इन्द्रियं, मनः, बुद्धिः इत्येतेषां व्यापारेण ज्ञायते । केषाञ्चन प्राणिनाम् इन्द्रियशक्तिः अधिका स्यात् । किन्तु मनः बुद्धिश्च मानवविशेषः । मानवः स्वस्य विशेषबुद्धिशक्त्या प्रकृत्याः सूक्ष्मानुसन्धानं कृतवान् अस्ति । बहिः अदृश्यमानानि निगूढसत्यानि वैज्ञानिकप्रयोगाणां द्वारा मानवः आविष्कृतवान् अस्ति । अस्य विज्ञानस्य आधारेण प्राकृतिकशक्तीः वशीकृत्य भोगसाधनानि यन्त्रोपकरणानि आविष्कृतवान् अस्ति । अस्य फलरूपेण मानवजीवनस्य भौतिकस्तरः नितरां परिष्कृतः अस्ति । अस्याः प्रगतेः अन्त्यं न विद्यते । बाह्यज्ञानक्षेत्रे अयम् अद्भुतः विजयः ।

तत्त्वानि[सम्पादयतु]

  1. दृश्यमानं रुपं जडं परिच्छिन्नं नाशवत् च वर्तते । किंतु परमात्मा तु अनन्तः चैतन्यस्वरुपः अविनाशीच विद्यते । अतः कस्मिन्नपि रुपे ईश्वरस्य दर्शनं भवति इति भ्रममूलां धारणां परित्यज्य आत्मस्वरुपे एव ईश्वरदर्शनं साधयितव्यम् ।
  2. अनात्मोपाधीन् त्यक्त्वा अहं शुध्दः सच्चित्स्वरुपः अस्मि इत्यनया ज्ञानवृत्त्या स्वरुपे संस्थितिः एव आत्मदर्शनम् ।

एकः धनिकः स्वप्ने ‘अहं दरिद्रः, अपरिमितानि दुःखानि सहमानः तिष्ठामि इति अपश्यत् । यदा स जागरितः भवति तदा अवगच्छति यद् नाहं दरिद्रः अपि तु धनवान् । स्वप्ने दृष्टः दरिद्रः एवं जागरितावस्थायां तिष्ठन् धनिकः अभिन्नः एकः एव इत्येवंविधेन ज्ञानेन यदा जीवभावस्य नाशः भवति तदा मनुष्यः आत्मस्वरुपं जानाति । इयं स्वस्वरुपे संस्थितिः एव आत्मदर्शनम् ।

  1. यदि अहं दुः खस्वरुपः तर्हि मम् दुःखम् असह्यं कथं भवितुम् अर्हति । एतत्तु अनुभवविरुध्दं वर्तते । एतावता एतत् सिध्यति यत् नाहं दुः खस्वरुपः अपि तु सुखस्वरुपः इति ।

आत्मज्ञानस्य आवश्यकता[सम्पादयतु]

'अहं सदा सुखी स्याम् । दुःखस्य लवलेशः अपि मम जीवने न स्यात्' इत्येषः मानवस्य मूलभूतः आशयः । मानवस्य सर्वेषां प्रयत्नानां मूलप्रेरणास्रोतः इदमेव । दार्शनिकाः योगिनश्च अस्मिन् विषये गभीरं चिन्तनं कृत्वा अवगतवन्तः यत् वैज्ञानिकप्रगत्या बाह्यसम्पत्तेः बाहुल्यं यथा सिद्ध्यति तथा नैजसुखं ततः न वर्धते इति । रोगः वार्धक्यं मरणञ्च मानवजीवनस्य दुःखमूलानि । जननदुःखमपि विद्यते । वैज्ञानिकसंशोधनैः एतेषाम् आत्यन्तिकं निर्मूलनम् असाध्यम् । अस्माकं जीवनं दुःखस्य पञ्चरे निहितमिव विद्यते । अतः बाह्यजगति अन्वेषणं क्रमशः न्यूनीकृत्य सर्वेषाम् अनुभवानां मूलकर्त्रोः 'अहम्'इत्येतस्य अवगमनात् एव सुखस्य प्राप्तिः इत्येषः दर्शनशास्त्राणां निश्चितः अभिप्रायः । 'अहं कः ?' इत्येतस्य विषये अस्माकं ज्ञानं न विद्यते । न केवलं तावत् तस्मिन् विषये अज्ञानं संशयः विपर्ययश्च विद्यते । एतेभ्यः मुक्तिं सम्पाद्य यथार्थज्ञानसम्पादनमेव सुखप्राप्तेः मार्गः इति घोषयन्ति शास्त्राणि । अयं मार्गः एव ज्ञानयोगः

शास्त्रेषु उल्लेखाः[सम्पादयतु]

निचाय्य तं मृत्युमुखात् प्रमुच्यते । - कठोपनिषत् १-३-१५
विद्यया विन्दतेऽमृतम् । - केनोपनिषत् २-४
तरति शोकमात्मवित् । - छान्दोग्योपनिषत् ७-१-३
तमेवं विद्वान् अमृत इह भवति । नान्यः पन्थाः विद्यतेऽयनाय । - यजुर्वेदीयः पुरुषसूक्तः
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति । - श्वेताश्वतरोपनिषत् - ६-२०
यद् ज्ञात्वाऽमृतमश्नुते - भगवद्गीता - १३-१२

अधिकारी[सम्पादयतु]

ज्ञानयोगस्य अनुष्ठानाय पूर्वभाविरूपेण मानसिकार्हताः याः भवेयुः ताः 'अधिकारः' इति उच्यते । प्रमुखः षड्गुणानां समुदायः 'अधिकारसम्पत्' इति उच्यते । ते गुणाः -

दमः[सम्पादयतु]

इन्द्रियाणि सदा विषयाणां पृष्ठतः धावन्ति । इयं धावनप्रवृत्तिः इच्छापूर्वकं दमनीया । ये विषयभोगे एव निरताः भवन्ति ते ज्ञानयोगस्य अधिकारिणः न भवन्ति ।

शमः[सम्पादयतु]

इन्द्रियाणां निग्रहणस्य अनन्तरमपि अन्तरेन्द्रियं मनः तेषु विषयेषु एव चिन्तयत् सङ्कल्पान् कुर्वत् भवति कदाचित् । अस्याः स्थितेः निवारणं मनसः उपशमनमेव शमः । दमशमयोः संयोगेन एव अधिकारः प्राप्यते ।

उपरतिः[सम्पादयतु]

शमदमैः शिक्षितं चित्तं स्वाभाविकतया बाह्यव्यापारात् मुक्तिम् इच्छति यत् सा एव उपरतिः ।

तितिक्षा[सम्पादयतु]

तितिक्षा नाम सहनम् । प्रत्येकस्य मानवस्य जीवने अपि सुखदुःखे, लाभनष्टौ, मानापमानौ, जयापजयौ च अवश्यं भवन्ति एव । ते संसारसागरस्य तरङ्गाः। समचित्तेन तेषां सहनमेव तितिक्षा ।

समाधानम्[सम्पादयतु]

वस्तुनः यथास्तितिज्ञानमेव समाधानम् इति उच्यते । पूर्वाग्रहेण विना तटस्थभावेन अवलोकनस्य अभ्यासः कर्तव्यः ।

मुमुक्षुत्वम्[सम्पादयतु]

मुक्तिं प्राप्तुम् इच्छा । अन्याभिः इच्छाभिः सह इयमपि विद्यते चेत् न किमपि प्रयोजनम् । जले निमग्नः कश्चित् श्वासोच्छ्वासाय यथा त्वरते तथा उत्कटेच्छा स्यात् मुक्तिप्राप्तौ ।

किं वस्तु नित्यं किम् अनित्यम् इत्येषः विवेकः तीक्ष्णबुद्ध्या प्राप्तव्यः । कर्माणि उत्तमानि चेदपि तेषां फलं न नित्यम् । आत्मज्ञानादेव शाश्वतफलप्राप्तिः इत्येतस्य अवगमनमेव विवेकः । सत्कर्मकारणात् अस्मिन् जन्मनि अन्यलोकेषु च प्राप्यमाणानां भोगानां विषये अपेक्षा न स्यात् । अपेक्षा यदि स्यात् तर्हि तादृशेषु कर्मसु एव आसक्तः भवेत् । ततः ज्ञानयोगस्य अधिकारी न भवेत् । कुलं, जातिः, मतं, लिङ्गं, वृत्तिः, देशः इत्यादयः अंशाः अस्य अधिकारस्य प्राप्तेः हेतवः न भवन्ति । अधिकारस्म्पद्युक्तः यः कोपि जनः इदं प्राप्तुम् अर्हति ।

अस्य प्राप्त्यर्थं पूर्वजन्मसु पुण्यकर्माणि आचरितवान् स्यात् । पापेभ्यः मुक्तिं साधितवान् स्यात् । परमात्मनि अचला श्रद्धा, भक्तिः च स्यात् । देवता, शास्त्रं, गुरुः इत्येतेषां विषये अचलः विश्वासः स्यात् । एताः पूर्वसज्जताः कर्मयोगेन भक्तियोगेन कर्तुं शक्याः । कर्मयोगेन चित्तशुद्धिः, भक्तियोगेन चित्तैकाग्रता च प्राप्यते ।

साधनमार्गः[सम्पादयतु]

ज्ञानयोगस्य सोपानत्रयम्
पञ्च कोशाः
अवस्थात्रयम्
जीवन्मुक्तिः
लोकसङ्ग्रहः

"https://sa.wikipedia.org/w/index.php?title=ज्ञानयोगः&oldid=367919" इत्यस्माद् पुनः प्राप्तिः