रामकृष्ण मिशन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रामकृष्ण मिशन्
ध्येयवाक्यम् आत्मनो मोक्षार्थं जगद्धिताय च
संस्थापनम् १८९७
उद्देश्यम् शैक्षणिकम्,सामाजिकम्, अध्यात्मिकम्, धार्मिकाध्ययनम्
मुख्यकार्यालयाः बेलूरुमठम्, पश्चिमवङ्गराज्यम्, भारतम्
कार्यव्याप्तिः जागतिकम्
जालस्थानम् बेलूरुमठ

रामकृष्ण मिशन् इत्येषा संस्था विश्वव्याप्ता धार्मिकी सामाजिकी च सेवासंस्था । इयं संस्था श्रीरामकृष्ण परमहंसेन एव १८८६ तमे वर्षे स्वीयान्तरङ्गशिष्येभ्यः संन्यासदीक्षायाः अनुग्रहद्वारा संस्थापिता । तस्य दिवङ्गमनानन्तरं तदीयेन परमश्रेष्ठेन शिष्येण स्वामिना विवेकानन्देन १८९७ तमस्य वर्षस्य मेमासस्य प्रथमदिनाङ्के व्यवस्थितरूपेण संरचितम् । शिक्षणं, वैद्यकीयचिकित्सा, वनवासिकल्याणं, ग्रामाभिवृद्धिः इत्यादिषु क्षेत्रेषु संस्था सेवाकार्यं करोति । दीक्षिताः संन्यासिनः, गृहस्थशिष्याः च मिलित्वा एतानि कार्याणि निर्वहन्ति । कर्मयोगसिद्धान्तस्य आधारेण अत्र कार्यम् आचर्यते । [१] अस्याः संस्थायाः केन्द्रकार्यालयः पश्चिमवङ्गराज्यस्य हावरामण्डलस्य कोलकोत्तनगरे विद्यमानं बेलूरमठम् । सनातनहिन्दुधर्मस्य वेदान्ततत्त्वानुगुणम् अस्याः कार्यं प्रचलति । 'रामकृष्णमठ'नामकेन संन्यासिनां सङ्घटनेन सह अस्याः कार्यं प्रचलति ।

इतिहासः[सम्पादयतु]

रामकृष्ण परमहंस
धार्मिकसम्मेलने स्वामी विवेकानन्दः

रामकृष्ण परमहंसः (१८३६-१८८६) एव रामकृष्ण संन्याससङ्घस्य संस्थापकः । [२] [३][४] रामकृष्णः दक्षिणेश्वरे कालीमन्दिरस्य अर्चकः आसीत् । तस्य बहवः संन्यासिशिष्याः गृहस्थशिष्याः च आसन् । तस्य प्रमुखः संन्यासशिष्यः विवेकानन्दः । १८८६ तमे वर्षे तस्य मरणात् केभ्यश्चित् दिनेभ्यः पूर्वं संन्यासं स्वीकर्तुम् उद्युक्तेभ्यः स्वीयतरुणशिष्येभ्यः सः काषायवस्त्रम् अयच्छत् । रामकृष्णः तेषां तरुणानां योगक्षेमनिर्वहणदायित्वं विवेकानन्दाय अददात् । तस्य मरणानन्तरं ते तरुणशिष्याः मिलित्वा अध्यत्मसाधनम् अकुर्वन् । १८८६ तमे वर्षे डिसेम्बर्मासे ते अनौपचारिकरूपेण एकस्यां रात्रौ संन्यासप्रतिज्ञां स्वीकृतवन्तः । [२]

स्थूलपरिचयः[सम्पादयतु]

विवेकानन्देन संस्थापिता इयं संस्था स्वास्थ्य-शिक्षण-विपत्परिहारादिषु कार्येषु आत्मानं योजितवती अस्ति । अस्याः संस्थायाः पञ्जीकरणं १९०९ तमे वर्षे (१८६० नियमः XXI अनुगुणं) जातम् । अस्याः संस्थायाः मठस्य च बहु निकटसम्बन्धः वर्तते । मठस्य चितः विश्वस्तः एव अस्याः संस्थायाः निर्वहणाधिकारी भवति ।

चेन्नैनगरे श्रीरामकृष्णमठे विद्यमानः वैश्विकदेवालयः

[५]

निर्वहणम्[सम्पादयतु]

रामकृष्णमठस्य पदाधिकारिणां चयनं विश्वस्तमण्डल्या क्रियते । मण्डल्या विद्यमानैः विश्वस्तैः एव अध्यक्षः, उपाध्यक्षः, कार्यदर्शी, उपकार्यदर्शिनः, कोशाध्यक्षः च चीयन्ते । एतन्निमित्तं आ विंशतिभ्यः वर्षेभ्यः विद्यमानानां संन्यासिनाम् अभिप्रायः स्वीक्रियते । रामकृष्ण मिशन् संस्थायाः निर्वहणगणे रामकृष्णमठस्य विश्वस्ताः भवन्ति । रामकृष्णमठस्य मुख्यकार्यालयः बेलूरुमठः एव रामकृष्ण मिशन् संस्थायाः अपि मुख्यकार्यालयः विद्यते । रामकृष्णमठस्य शाखा संन्यासिगणेन निरूह्यते ये च विश्वस्तैः प्रेष्यन्ते । विश्वस्तानां प्रमुखः भवति ज्येष्ठः संन्यासी यः अध्यक्षः इति निर्दिश्यते । रामकृष्ण मिशन् संस्थायाः शाखाकेन्द्रं निर्वहणगणेन निरूह्यते । तस्मिन् गणे संन्यासिनः अन्ये च भवन्ति । अन्ये सदस्याः रामकृष्ण मिशन् संस्थायाः निर्वहणगणेन क्रियते यस्य कार्यदर्शी निर्वहणाधिकारिरूपेण कार्यं करोति । संस्थानिर्वहणस्य आधारभूताः भवन्ति सर्वे संन्यासिनः । सर्वेषां संन्यासिनां मेलनं वर्षत्रये एकवारं भवति यत्र विश्वस्तैः स्वीकृतानां नियमानाम् अङ्गीकारः कार्याणां मार्गदर्शनञ्च भवति । रामकृष्ण मिशन् संस्थायाः कार्यनिर्वहणस्य नीतिनियमाः स्वामिना विवेकानन्देन एव आरचिताः सन्ति । १८९८-९९ तमयोः वर्षयोः स्वामी विवेकानन्दः स्वामिनं शुद्धानन्दम् उद्दिश्य एतान् नियमान् अवदत् । ततः ते नियमाः श्रीरामकृष्णस्य सर्वैः शिष्यैः प्रशिष्यैः च सर्वानुमतेन अङ्गीकृताः । अग्रे १८९९-१९०१ तमयोः वर्षयोः तेषां नियमानां पञ्जीकृतविश्वस्तपत्रं सज्जीकृतम् स्वामिना विवेकानन्देन, अन्यैः रामकृष्णभक्तैश्च । [६]

ध्येयं तत्त्वानि च[सम्पादयतु]

अस्याः संस्थायाः लक्ष्यतत्त्वादीनि अध्यात्मिकानि मानवीयमौल्ययुतानि च विद्यन्ते । ते राजनैतिकसम्बन्धः न कोपि विद्यते । आधुनिकभारतस्य राष्ट्रियादर्शद्वयम् - त्यागः सेवा च - इति न्यरूपयत् विवेकानन्दः । तदीयान् आदर्शान् नित्यजीवने समर्थरीत्या आनेतुं प्रयतते इयं संस्था ।

संन्यासिगणः[सम्पादयतु]

१८८६ तमे वर्षे श्रीरामकृष्णस्य मरणानन्तरं तदीयाः युवशिष्याः सम्मिल्य संन्यासदीक्षां स्व्यकुर्वन् । मूलः मठः कलकत्तासमीपस्थे बारानगरे आसीत् । ततः १८९२ तमे वर्षे सः मठः अलम्बझार्-नगरं प्रति, ततः नीलम्बार् मुखर्जिवर्यस्य उद्यानगृहं प्रति च परिवर्तितः । १८९९ तमे वर्षे हावराजनपदे विद्यमाने बेलूरुमठं प्रति परिवर्तितः जातः । इयं भूमिः स्वामिना विवेकानन्देन आसादिता । [७] अयं बेलूरुमठः देशे विदेशे च विभिन्नेषु मठकेन्द्रेषु मिशिन् केन्द्रेषु च कार्यं कुर्वतां सर्वेषामपि संन्यासिनां मातृगृहं विद्यते । मठस्य सर्वः अपि सदस्यः प्रशिक्षणं संन्यासदीक्षां च बेलूरुमठे एव प्राप्नोति । संन्यासदीक्षाकांक्षी प्रथमवर्षे पूर्वपर्यवेक्षणावस्थायां भवति । अग्रिमाणि चत्वारिवर्षाणि पर्यवेक्षणावस्थायां भवति । तस्यान्ते सः ब्रह्मचर्यव्रतधारी भूत्वा प्रतिज्ञातः भविष्यति । ब्रह्मचर्यं, त्यागः, सेवा च प्रतिज्ञायाः प्रमुखाः विषयाः । चतुर्भ्यः वर्षेभ्यः अनन्तरं योग्यः इति निश्चीयते चेत् तस्मै संन्यासदीक्षा प्रदीयते । सः भवति काषायवस्त्रधारी ।

लाञ्छनम्[सम्पादयतु]

इदं लाञ्छनं स्वामिना विवेकानन्देन एव आरचितम् अस्ति, एवं विवृणोति च - चित्रे दृश्यमानं तरङ्गयुक्तं जलं कर्मसूचकं, कमलं भक्तिसूचकम्, उदयमानः सूर्यः ज्ञानसूचकः, परितः आवृतः सर्पः योगस्य जागरितायाः कुण्डलिनीशक्तेः सूचकः, चित्रे विद्यमानः हंसः परमात्मसूचकः विद्यते । कर्म-ज्ञान-भक्ति-योगस्य संयोगेन परमात्मनः दर्शनं प्राप्यते इत्येतत् द्योतयति चित्रम् । [८]

कार्यक्रमाः[सम्पादयतु]

सामाजिकसेवा स्वास्थ्यशिबिरञ्च रामकृष्ण मिशन्, वाराणसी, भारतम्

प्रमुखाः कार्यकर्तारः संन्यासिनः । अस्याः संस्थायाः प्रमुखकार्याणि -

  • शिक्षणम्
  • स्वास्थ्यप्रगतिः
  • सांस्कृतिककार्यक्रमाः
  • ग्रामोत्थानम्
  • वनवासिकल्याणम्
  • युवान्दोलनम् इत्यादयः

संस्थायाः स्वीयचिकित्सालयाः, साहाय्यकेन्द्राणि, कुष्ठरोगचिकित्सालयाः, चरचिकित्सालयाः, प्रसूतिकेन्द्राणि च विद्यन्ते । अनुवैद्यानां शिक्षणकेन्द्राणि अपि निरूह्यन्ते । ग्रामविकासः, वनवासिकल्याणकेन्द्राणि, वृद्धाश्रमाः इत्येतेषु अपि एतेषां कार्याणि प्रचलन्ति । अनया संस्थया भारते बहूनि शिक्षणसंस्थानि स्थापितानि । तदीयानि प्राथमिकविद्यालयाः, प्रौढशालाः, शिक्षकप्रशिक्षणकेन्द्राणि, महाविद्यालयाः, वृत्तिशिक्षणकेन्द्राणि, अन्धशालाः विश्वविद्यालयश्च विद्यन्ते । पश्चिमवङ्गराज्यस्य सुन्दर्बन्-प्रदेशेषु भौगोलिककारणतः विद्युच्छक्तेः सम्पर्ककल्पनम् अशक्यम् । अत्रत्याः सर्वे अपि मृत्तैलेनैव जीवन्ति स्म । तस्मिन् स्थले सूर्यशक्तेः साहाय्येन दीपव्यवस्था कल्पिता अस्ति अस्याः संस्थायाः परिश्रमेणैव । [९]

धार्मिककार्याणि[सम्पादयतु]

इयं संस्था जात्यतीतः विद्यते । [१०][११] अपि च जातिभेदविरोधी वर्तते । [१२] रामकृष्णाश्रमस्य धार्मिककार्यक्रमेषु अन्यतमाः सन्ति सत्सङ्गः, नीराजनं च । सत्सङ्गे प्रार्थना, भजनानि, प्रवचनम्, पठनं, ध्यानञ्च भवन्ति । दिने द्विः नीराजनाचरणं क्रियते । [१३] अत्र प्रमुखाः हिन्दु-उत्सवाः - महाशिवरात्रिः, रामनवमी, कृष्णाष्टमी, दुर्गापूजा च आचर्यते । रामकृष्ण-शारदादेवी-विवेकानन्द-अन्यसंन्यासिशिष्याणां च जन्मदिनं विशेषेण अत्र आचर्यते । [१३] जनवरीमासस्य प्रथमदिनाङ्कः 'कल्पतरुदिन'त्वेन आचर्यते ।[१४] धर्मनिरपेक्षभावः, अन्यधर्मविषये गौरवञ्च अस्याः संस्थायाः वैशिष्ट्यम् । स्वामिना विवेकानन्देन प्रस्तावितेषु आदिमनियमेषु अन्यतमः विद्यते - सर्वैः धर्मैः, सर्वैः धर्मोपदेशकैः, विविधधर्मानुयायिभिः च गौरवेण व्यवहरणीयम् । विवेधेषु धर्मेषु पूज्यमानाः सर्वे देवाः अपि आदरणीयाः इति । "[१५] हिन्दुपर्वाचरणेन सह अत्र बुद्धपूर्णिमा, क्रिस्मस्दिनस्य अपि आचरणं क्रियते । .[१३][१५][१६]

टिप्पणी[सम्पादयतु]

  1. Agarwal, Satya P. (1998). The social role of the Gītā : how and why. New Delhi: Motilal Banarsidass. p. 243. ISBN 978-81-208-1524-7. OCLC 68037824. 
  2. २.० २.१ Vrajaprana, Pravrajika (1994). Living wisdom: Vedanta in the West. Vedanta Press. pp. 34. ISBN 978-0-87481-055-4. 
  3. Carl T. Jackson, Vedanta for the West p.16
  4. Sharma, Arvind (1988). Neo-Hindu views of Christianity. Brill Publishers. p. 69. ISBN 978-90-04-08791-0. 
  5. Carl T. Jackson. "Preface". Vedanta for West. pp. xii–xiii. 
  6. The Story of Ramakrishna Mission,
  7. "History of Belur Math". SriRamakrishna.org. Archived from the original on 2008-09-13. आह्रियत 2014-07-28. 
  8. Vivekananda, Swami. "Conversations And Dialogues ~ XVI". The Complete Works of Swami Vivekananda 7. Advaita Ashrama. 
  9. Stone, J.L.; Ullal, H.S.; Chaurey, A.; Bhatia, P. (2000). "Ramakrishna Mission initiative impact study-a rural electrification project in West Bengal, India". Photovoltaic Specialists Conference, 2000. Conference Record of the Twenty-Eighth IEEE (Anchorage, AK, USA: IEEE). pp. 1571–1574. ISBN 0-7803-5772-8. doi:10.1109/PVSC.2000.916197. 
  10. Contributions to Indian sociology (Mouton) 16: 127. 1982. ISSN 0069-9659. 
  11. Klostermaier, Klaus K. (2000). Hinduism: a short history. Oneworld. p. 271. 
  12. Oxtoby, Willard Gurdon (1996). World religions: Eastern traditions. Oxford University Press. p. 77. 
  13. १३.० १३.१ १३.२ Prozesky, Martin; John De Gruchy (1995). "Hinduism". Living faiths in South Africa. C. Hurst & Co. Publishers. pp. 195–196. ISBN 978-1-85065-244-1. 
  14. Balakrishnan, S (31 December 2001). "The spiritual significance". The Hindu. Archived from the original on 28 October 2003. आह्रियत 1 October 2009. 
  15. १५.० १५.१ Jung, Moses; Herbert W. Schnieder. "Hinduism". Relations among Religions today. Brill Publishers. pp. 69–70. 
  16. Ananda (2 April 2009). "Service in the name of god in every human". The Telegraph. आह्रियत 25 August 2009. 

बाह्यसम्पर्कः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रामकृष्ण_मिशन्&oldid=481769" इत्यस्माद् प्रतिप्राप्तम्