अथर्ववेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते। अथर्ववेदे विंशतिकाण्डानि (२०) काण्डानि, एकत्रिंशदधिकसप्तशतकानि (७३१) सूक्तानि, सप्ताशीत्यधिकोनत्रिंशत्शतमन्त्राः (५९८७) विद्यन्ते। तेषु मन्त्रेषु द्वादशशतमन्त्राः ऋग्वेदेऽपि दृश्यन्ते। विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेदस्य दशममण्डले समुपलभ्यन्ते। भूर्जपत्रेषु शारदालिप्या लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति।

नाम, विषयश्च[सम्पादयतु]

अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अंगिरोवेद-अथर्वागिरेवेदादीनि नामानि प्रमुखतां भजन्ते। "थर्व" धातुः कौटिल्यार्थकः तथा हिंसावाचकः अस्ति। अत एव "अथर्व" शब्दस्य अर्थोऽस्ति यत् अकुटिलवृत्यायाः, अहिंसवृत्यायाः च मनसः स्थैर्यप्राप्तकर्ता जनः। अथर्वांगिरस्पदस्य व्याख्याकरणे सति प्रतीयते यत् ॠषिद्वयेन दृष्टानां मन्त्राणां समूहरूपः एव अथर्ववेदः। अथर्वदृष्टाः मन्त्राः शान्तिप्रपुष्टिकर्मयुक्ताः सन्ति, परन्तु अंगिरेदृष्टाः मन्त्राः आभिचारिकाः सन्ति। वेदेऽस्मिन् मारणमोहनोच्चाटनादीनां ज्वरापस्मारादिरोगविनाशकानाञ्च मन्त्राणां संग्रहोस्ति। ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम। अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि।

अथर्ववेद ऐहिकफलदायकोऽस्ति। अथर्ववेदस्य ऋत्विक् ब्रह्मा वर्तते। प्रस्थानभेदे लिखितमस्ति यत् –

“अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यंतविलक्षण एव“।

कुमारिलभट्टेनोच्यते –

“शान्तिपुष्ट्याभिचारार्थी ह्येकब्रह्मर्त्विगाश्रितः।

क्रियास्तन्न प्रमीयन्तेऽत्रामयमेवात्मीयगोचरा” इति।

शाखाः[सम्पादयतु]

आथर्वसंहितायाः द्वे शाखे स्तः। शौनकीयशाखा, पैप्पलादशाखा चेति। अथर्ववेदस्य नव शाखाः आसन्, परं सम्प्रति शौनक-पिप्पलाद-समाख्ये द्वे एव शाखे प्राप्येते। प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता।

भाष्यम्[सम्पादयतु]

सायणात् पूर्ववत्तीं अथर्वसंहितायाः न कोऽपि भाष्यकारोऽभवत्। सायणस्तु सम्पूर्णायाम् अथर्वसंहितायामुपरि भाष्यं लिलेख, किश्च प्रकाशितग्रन्थेषु द्वादश काण्डानाम् ( १-४, ६-८, ११, १७-२० ) एव भाष्यमुपलब्धं भवति। अनेन प्रकारेणास्य वेदस्य सायणभाष्यमप्यपूर्णमेवाऽस्ति।

पश्यतु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथर्ववेदः&oldid=422706" इत्यस्माद् पुनः प्राप्तिः