शौनकसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

शौनकसंहिता अथर्ववेदस्य संहिता वर्तते। एतस्याः संहितायाः शाखा शौनकशाखा अस्ति।

परिचयः[सम्पादयतु]

अथर्ववेदे २० काण्डानि ७३१ सूक्तानि ५९८७ मन्त्राश्व सन्ति । अस्य वेदस्य मीमांसा कृते सति ज्ञातो भवति यदथर्ववेदे मन्त्राणां सङ्कलनं कस्यचित् विशिष्टोद्देश्येन कृतमस्ति । प्रथमकाण्डे प्रत्येकस्मिन् नियमेन चत्वारो मन्त्राः, द्वितीयकाण्डे पञ्च मन्त्राः, तृतीयकाण्डे षड्मन्त्राः, पञ्चमकाण्डेऽष्टमन्त्राः च सन्ति। षष्ठकाण्डे १४२ सूक्तानि सन्ति तथा प्रतिसूक्ते अल्पादल्पतरास्त्रयो मन्त्राः सन्ति । सप्तमकाण्डे ११८ सूक्तानि सन्ति, येष्वधिकतरसूक्तेषु एकः द्वौ वा मन्त्रौ स्तः । अष्टमकाण्डादारभ्य द्वादशकाण्डपर्यन्तम् आयतसूक्तानि सन्ति । किञ्च तत्र विषयाणाम् एकतास्थाने विभिन्नतैव दृग्गोचरीभवति । त्रयोदशकाण्डाद् आरभ्य अष्टादशकाण्डपर्यन्तं विषयानामेकता दर्शनीयाऽस्ति । द्वादशकाण्डस्यारम्भे पृथिवीसूक्ते त्रयःषष्टिः मन्त्राः सन्ति । मन्त्रेष्वेतेषु बहुविधस्य राजनैतिक-भौगोलिकसिद्धान्तानां च भव्यभावना सर्वेषामालोचकानां दृष्टिहारिका वर्तते । त्रयोदशकाण्डः तु अध्यात्मविषयकः वर्तते। चतुर्दशकाण्डे द्वे अायते सूक्ते स्तः। सूक्तेऽस्मिन् प्रधानतया वैवाहिकवर्णनमस्ति । पञ्चदशकाण्डः व्रात्यकाण्डनाम्ना ख्यातः अस्ति, यस्मिन् व्रात्यानां यज्ञसम्पादनस्य आध्यात्मिकं वर्णनमस्ति । षोडशकाण्डः तु दुःस्वप्ननाशकानां त्रयोऽधिकशतमन्त्राणां सङ्ग्रहोऽस्ति । सप्तदशाख्ये काण्डे त्रिंशन्मन्त्राणामेकमेव सूतमस्ति । यस्मिन् सूक्तेऽभ्युदयार्थं भव्या प्रार्थनाऽस्ति । अष्टादशकाण्डः श्राद्धकाण्डनाम्ना ख्यातोऽस्ति, अस्मिन् काण्डे पितृमेधसम्बन्धिनः मन्त्राः सङ्कलिताः सन्ति । अन्तिमे द्रे काण्डे खिलकाण्डनाम्ना ख्याते स्तः । ऊनविंशतिकाण्डे द्वासप्ततिसूक्तानि, त्रयःपञ्चाशदधिकचतुःशत-मन्त्राः सन्ति, येषु भैषज्य-राष्ट्रवृद्धि-अध्यात्मविषयकानां मन्त्राणां सङ्कलनमस्ति । अन्तिमे काण्डे मन्त्राणां संख्याः प्रायः सहस्राः सन्ति ।

अनेन प्रकारेण अथर्ववेदस्य एकपञ्चमांश-मन्त्राः ऋग्वेदीयमन्त्रा इव सन्ति । विशेषतः प्रथम-अष्टम-दशममण्डलेषु एते मन्त्राः प्राप्यन्ते। अन्तिमे काण्डे प्रसिद्धं कुन्तापसूक्तं सम्मिलितमस्ति । वर्त्तमान-ऋग्वेदे सूक्तमिदं समुपलब्धं नास्ति । सम्भवतः ऋग्वेदस्य कस्याः अपि अन्यशाखातः सङ्कलिताः सन्ति । संख्यायां कुन्तापसूतानि दश सन्ति। कौषीतकिब्राह्मणेऽस्य स्पष्टतः निर्देशो लभते। गोपथब्राह्मणस्य कथनानुसारेण 'कुन्ताप'-शब्दस्य अर्थो भवति — पापकर्माणि ज्वालकं सूक्तं मन्त्रो वेति।[१] ऐतरेयब्राह्मणे[२] तथा कौषीतकिब्राह्मणे[३] अस्योल्लेखः प्राप्यते यद्, एतेषां मन्त्राणामुपयोगः यज्ञविधाने आवश्यकः आसीत् । अस्मिन् सूक्ते[४] राज्ञः परीक्षितस्य नाम तथा तस्य राष्ट्रस्य वर्णनं विशेषरूपेण लभते, तेनास्य सूक्तस्य ऐतिहासिकमहत्त्वमप्यस्ति ।

विशेषम्[सम्पादयतु]

अथर्ववेदस्य निर्माणमृग्वेदादिसंहितायाः समकालेऽभवदथवोत्तरकाले, इति त्वन्यत्, केिश्च तस्मिन् चित्रिता संस्कृतिः मानवसमाजस्य प्रारम्भिकयुगं सङ्केतयति । प्राचीनमानवसमाजस्य क्रियाकलाप-अनुष्ठान-विश्वासादीनां विशदचित्रणमन्यत्र वैदिकसाहित्ये अनुपलब्धं भूत्वापि अथर्वसंहितायां समुपलब्धमस्ति। शत्रुजयाय, क्लिष्टरोगनिवारणाय, सद्योजातबालकान् तेषां मातुः सन्तापकारकभूतप्रेतादिविनाशाय विविधाभिचाराणां विचित्रवर्णनमथर्ववेदे प्रार्यते। मनवशास्त्राभ्यासनिमित्ताय वेदोऽयं विश्वकोष इवाऽस्ति । अभिचारस्य प्रचारः आथर्वणयुगस्यैका विशिष्टा घटनाऽस्ति। अभिचारोऽपि द्विविधो भवति। शोभनप्रकारकस्य अभिचारे अन्यकृतानिष्टादात्मरक्षणस्य भावना प्रबला भवति। अन्यस्मिन्नभिचारे शत्रुविशेषोपरि मारण-मोहन-उच्चाटनादीनां भावना विशेषरूपेण जागरूका भवति । अथर्ववेदे उभयप्रकारकस्य अभिचारस्य उत्कृष्टं साम्राज्यं मानवसंस्कृतेः आदिमयुगस्य परिचायकमस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ‘कुम् नाम कुत्सितं भवति यत् तत् तपति तस्मात् कुन्तापः'
  2. ( ६॥३२ )
  3. ( ३०॥५ )
  4. ( १॥७l८-१० )
"https://sa.wikipedia.org/w/index.php?title=शौनकसंहिता&oldid=423656" इत्यस्माद् पुनः प्राप्तिः