कठसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

कठसंहिता यजुर्वेदस्य सप्तविंशति-शाखासु अन्यतमाऽस्ति । पुराणेषु काठकजनाः मध्यप्रदेशीया वा माध्यमनाम्ना विख्याताः सन्तिः । अनेन ज्ञातो भवति यत्ते प्राचीनकाले मध्यप्रदेशेऽवसन्। पतञ्जलेः कथनानुसारेण कठसंहितायाः प्रसारस्तथा पठनं-पाठनं प्रतिग्रामम् आसीत् ('ग्रामे ग्रामे काठको कालापकं च प्रोच्यते')[१] । अनेनास्याः संहितायाः प्राचीनकाले विपुलप्रचारस्य बोधो भवति । किञ्च अधुनाऽस्याः अध्येतृृणां संख्या नगण्याऽस्ति।[२]

विषयवस्तु[सम्पादयतु]

कठसंहितायां पञ्च खण्डानि सन्ति । तानि च क्रमशः इठिमिका, मध्यमिका, ओरिमिका, याज्यानुवाक्या, अश्वमेधाद्यनुवचननामभिः ख्यातानि सन्ति । एतेषां खण्डानामंशस्य नाम स्थानकमस्ति । एतानि नामानि वैदिकसाहित्येऽन्यत्र दुर्लभानि सन्ति । अस्यां संहितायां स्थानकस्य संख्या चत्वारिंशत्, अनुवचनानां संख्या त्रयोदश, अनुवाकानां संख्या त्रयश्वत्वारिंशदधिकाष्टशतं, मन्त्राणां संख्या एकनवत्यधिकत्रिसहस्रं, मन्त्रब्राह्मणयोः सम्मिलिता संख्या अष्टादशसहस्रपरिमितास्ति ।

इठिमिकायाः अष्टादशस्थानकेषु पुरोडाश-अध्वर-पशुवन्ध-वाजपेय-राजसूयादियागानां विस्तृतं वर्णनमस्ति । माध्यमिकायाः द्वादशस्थानकेषु सावित्री-पञ्चचूड-स्वर्ग-दीक्षित-आयुष्यादीनां विवेचनमस्ति। ओरिमिकायाः दशस्थानके पुरोडाशब्राह्मण-यजमानब्राह्मण-सत्रप्रायश्चित्ति-चातुर्मास्य-सव-सौत्रामण्यादीनां वर्णनमस्ति । अन्तिमे काण्डे त्रयोदशानुवचनानि सन्ति । अत्र दर्शपौर्णमास-अग्निष्टोम-अग्निहोत्र-आधान-काम्येष्टि-निरूढपशुबन्ध-वाजपेय-राजसूय-अग्निचयन-चातुर्मास्य-सौत्रामणी-अश्वमेधादियज्ञानां विशिष्टविधानेन सह वर्णनमस्ति । कृष्णयजुर्वेदस्य चतसृषु संहितासु न केवलं स्वरूपतः एकरूपताऽस्ति, प्रत्युत तासु वर्णितानुष्ठानेषु तथा तन्निष्पादकमन्त्रेष्वपि साम्यं वर्तते । 

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. महाभाष्यम् ४।३।१०१
  2. श्रोदरेण सम्पादितम् प्रथमसंस्करणम् १९१०ई०
"https://sa.wikipedia.org/w/index.php?title=कठसंहिता&oldid=423440" इत्यस्माद् पुनः प्राप्तिः