कृष्णयजुर्वेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

कृष्णयजुर्वेदः यजुर्वेदस्य एव उपविभागः।

शाखा[सम्पादयतु]

कृष्णयजुर्वेदस्य चतस्रः शाखाः प्राप्यन्ते –

  1. तैत्तिरीयशाखा – इयं प्रधानशाखा। अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्यायाः, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठकाः बहुषु अनुवाकेषु विभक्ताः सन्ति ।
  2. मैत्रायणीसंहिता -
  3. कपिष्ठलकठसंहिता - इमे द्वे अपि संहिते तैत्तिरीयसंहिताम् अनुकुरुतः
  4. काठकसंहिता - केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते।

तैत्तिरीयसंहिता[सम्पादयतु]

मुख्यलेखः : तैत्तिरीयसंहिता

तैत्तिरीयसंहितायाः प्रसारः दक्षिणभारते अस्ति । अांशिकरूपेण महाराष्ट्रप्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः सन्ति । तैत्तिरीयसंहितायाः परिमाणमपि न्यूनं नास्ति । आचार्यसायणस्य इयं स्वकीया शाखाऽऽसीत् ।

मैत्रायणीसंहिता[सम्पादयतु]

मुख्यलेखः : मैत्रायणीसंहिता

मैत्रायणीसंहिता कृष्णयजुर्वेदस्य अन्यतमा संहिता। इयं संहिता गद्य-पद्यात्मिकाऽस्ति । अस्यां संहितायां चत्वारः काण्डाः सन्ति ।

कठसंहिता[सम्पादयतु]

मुख्यलेखः : कठसंहिता

कठसंहिता यजुर्वेदस्य सप्तविंशति-शाखासु अन्यतमाऽस्ति । पुराणेषु काठकजनाः मध्यप्रदेशीया वा माध्यमनाम्ना विख्याताः सन्तिः । अनेन ज्ञातो भवति यत्ते प्राचीनकाले मध्यप्रदेशेऽवसन्। पतञ्जलेः कथनानुसारेण कठसंहितायाः प्रसारस्तथा पठनं-पाठनं प्रतिग्रामम् आसीत् ('ग्रामे ग्रामे काठको कालापकं च प्रोच्यते') । अनेनास्याः संहितायाः प्राचीनकाले विपुलप्रचारस्य बोधो भवति । किञ्च अधुनाऽस्याः अध्येतृृणां संख्या नगण्याऽस्ति।

कपिष्ठलकठसंहिता[सम्पादयतु]

मुख्यलेखः : कपिष्ठलकठसंहिता

कपिष्ठलकठसंहितायाः नाम कस्यचित् ऋषेः नाम्ना अस्ति। एतस्याः संहितायाः पूर्णः ग्रन्थः अनुलब्धः। एतस्मिन् ग्रन्थे ऋग्वेदस्य प्रभावः दरीदृश्यते। चरणव्यूहस्य मतानुसारेण चरकशाखान्तर्गते कष्ठानां, प्राच्यकठानां कपिष्ठलकठानाञ्च उल्लेखो लभते, येनोल्लेखेन अस्य शाखा-सम्बन्धस्य पूर्णपरिचयो भवति ।

वैशिष्ट्यम्[सम्पादयतु]

कृष्णयजुर्वेदः संहिताभागः ब्राह्मणभागः इति समग्रतया विभक्तः नास्ति । ब्राह्मणभागः संहिताभागेन सह युक्तः विद्यते । वैदिककर्मणां विषये आचरणानाञ्च समीचीनविवरणं यजुर्वेदस्य विशेषः । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां दर्शपूर्णमास, सोमयाग, वाजपेय, राजसूय, अश्वमेध इत्यादीनां यज्ञानां सूक्ष्मविवरणम् उपलभ्यते ।

ऋग्वेदे अविद्यमानाः स्तुतिमन्त्राः अस्मिन् उपलभ्यन्ते । उदाहरणाय अद्य पठ्यमानं 'श्रीरुद्रम्' यजुर्वेदमात्रे एव दृश्यते । 'पञ्च रुद्रम्' इत्येतत् यद्यपि ऋग्वेदे उपलभ्यते किन्तु तदस्ति पञ्चमन्त्रात्मकमात्रम् । अतः एव महान् शिवभक्तः अप्पय्यदीक्षितः कदाचित् अवदत् - 'अहं यजुर्वेदवंशे न जातः इति मे मनः खिद्यते । यदि स्यात् तर्हि शिवं यजुर्वेदेन एव शिवम् अपूजयिष्यम्' इति । सः सामवेदानुयायिनां कुटुम्बे जातः आसीत् । कृष्णयजुर्वेदस्य अध्ययनं विशेषतया दक्षिणभारते भवति । ऋग्वेदे दृश्यमानः पुरुषसूक्तः कैश्चित् परिवर्तनैः सह यजुर्वेदे अपि दृश्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कृष्णयजुर्वेदः&oldid=423446" इत्यस्माद् पुनः प्राप्तिः