गोपथब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गोरथऋषिः अस्य रचयिता वर्तते। ब्राह्मणसाहित्ये ग्रन्थोऽयमुत्तरकालिकी रचना मन्यते । अस्मिन् ब्राह्मणेऽथर्ववेदस्य महिमा एव स्वभावतः गीयते । अथर्ववेद एव सर्वेष्वपि ब्राह्मणेषु सर्वश्रेष्ठः अग्रगण्यश्च मन्यते । अथर्वादेव वेदत्रयाणामुत्पत्तिः कथ्यते । न केवलमेतदेव प्रत्युत, ॐकारस्यापि येन विश्वमिदं सर्वं जातमुत्पत्तिरपि, अथर्ववेदादेवाभवत् ।

स्वरूपम्[सम्पादयतु]

अस्य द्वौ भागौ स्तः। १. पूर्वगोपथब्राह्मणम्, २. उत्तरगोपथब्राह्मणञ्चेति। प्रथमग्रन्थे पञ्चप्रपाठकाः सन्ति, द्वितीयग्रन्थे षट्प्रपाठकाश्च सन्ति । प्रपाठकानां विभाजनं कण्डिकास्वभवत् । तत्र कण्डिकानां संख्याः २५८ वर्त्तते ।

पूर्वगोपथब्राह्मणस्य प्रथमप्रपाठके कारस्य तथा गायत्र्याः महिम्नः सुष्ठु वर्णनमस्ति । द्वितीयप्रपाठके ब्रह्मचारिणो नियमानां विशिष्टवर्णनमस्ति । प्रत्येकं वेदस्याध्ययनाय द्वादशाब्दपर्यन्तं कालो निर्धारितोऽस्ति । तृतीयप्रपाठके यज्ञस्य चतुर्णामृत्विजां कार्यकलापस्य वर्णनमस्ति। चतुर्थप्रपाठके ऋत्विजां दीक्षायाः विशिष्टवर्णनमस्ति । पञ्चमप्रपाठके प्रथमतः संवत्सरसत्रस्य वर्णनमस्ति । तदनन्तरमश्वमेध-पुरुषमेध-अग्निष्टोमादियज्ञानामपि विवरणमस्ति । उत्तरगोपथब्राह्मणस्य विषयवर्णनं न तावदेवं सुव्यवस्थितमस्ति । तथापि बहुविधानां यज्ञानां तथा तत्सम्बद्धाख्यायिकानामुल्लेखेन अपि भागोऽयं पूर्वापेक्षयाऽधिकं रोचते विद्वद्भ्यः ।

रचयिता, देशकालौ च[सम्पादयतु]

गोपथब्राह्मणस्य रचयिता निश्चयेन गोपथऋषिरेवास्ति । अथर्ववेदीयानाम् ऋषीणां नामावल्यां गोपथऋषेरपि नाम विराजत एव । किञ्च अन्यवेदानामृषीणां नामावल्यामस्य ऋषेः नाम नायति । अस्य ब्राह्मणस्य देशकालगतपरिचयः अनुमानेनैव ज्ञातुं शक्यते । अस्मिन् निर्दिष्टदेशे कुरु-पाञ्चाल-अङ्ग-मगध-काशी-कोशल-शाल्वमत्य-वश-उशीनरादीनां नामान्यायान्ति।[१] अस्य रचयिता मध्यदेशीयः प्रतीतो भवति । अथर्ववेदीयप्रथममन्त्रस्योल्लेखः ‘शन्नो देवीरभिष्टयः' इत्यनेन मन्त्रैणैव करोति । येन तस्य पिप्पल्लदशाखाभविष्यतीत्यनुमीयते।

यास्केन स्वनिरुक्ते गोपथब्राह्मणस्य मन्त्रः उद्धतः। यथा - ‘एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम्'।[२] इत्यनेनोद्धरणेन सिद्धो भवति यद् अयं ग्रन्थः निरुक्तात् पूर्वकालिक इति। ब्लूमफील्ड-महोदयस्तु ब्राह्मणमिदं वैतानसूत्रादपि अर्वाचीनं मन्यते । किञ्च डा० कैलेण्ड-महोदय-कीथ-महोदयौ ग्रन्थमयं प्राचीनतरं मन्येते । विक्रमशतकस्य सहस्राब्दपूर्वकालिकेयं रचनाऽस्ति, इति सम्भाव्यते तथा विक्रमात् सहस्राब्दपूर्वमेव गोपथस्य सत्ता बभूवेति अनुमीयते।

विषयवस्तु[सम्पादयतु]

ग्रन्थेऽस्मिन् कतिपयाभिनवविचाराणां सङ्कलनमस्ति । अस्य अन्तिमे खण्डे अथर्वस्य विपुला प्रशंसा प्राप्यते। ब्रह्मणा कमलोपरि ब्रह्मणः उदयम् (पृ० १६), ब्राह्मणा नैव गान कर्त्तव्यम्, न नृत्यं कर्त्तव्यम्, माम्लागृधोऽपि न भवितव्यम्। ‘तस्माद् ब्राह्मणो नैव गायेन्न नृत्येन्न माम्लागृधः’।[३] वेदमन्त्रस्य उच्चारणात्पूर्वम् ॐकारस्य उच्चारणं कर्त्तव्यम् । कस्याप्यनुष्ठानस्य पूर्वं वारत्रयमाचमनं करणीयम्।[४] ऋग्वेदादनेकमन्त्राः समुद्धृताः सन्ति । किञ्च मन्त्राणामृषीणां विषये पार्थक्यं दृश्यते ।

भाषाशास्त्रदृष्ट्या गोपथब्राह्मणस्य सङ्केताः महत्त्वपूर्णाः सन्ति । ‘परोक्षप्रिया हि देवाः प्रत्यक्षद्विषः ।' इत्यादीनां शब्दानां निर्वचनस्य प्रसङ्गेष्वपि अत्रानेकोल्लेखाः प्राप्यन्ते। उदाहरणार्थम् —

(१) 'वरुणः' इत्यस्य शब्दस्य व्युत्पत्तिः वरणाद्भवति । राजा वरणेन भवति ( ‘तं वा एतं वरणं सन्तं वरुण इत्याचक्षते'।[५]

(२) ‘मृत्युः' इत्यस्य शब्दस्य व्युत्पत्तिः ‘मृत्यु'-शब्दात् भवति ।

(३) 'अङ्गिरा' इत्यस्य शब्दस्य व्युत्पत्तिः 'अङ्गिरस् इति शब्दाद्भवति ।

(४) 'दीक्षितः' इत्येतस्य शब्दस्य व्युत्पतिः 'धीक्षित'शब्दाद्भवति। ‘श्रेष्ठां धियं क्षियतीति तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षते'।[६]

एताः व्युत्पत्तयः भाषाशास्त्रदृष्ट्या स्वकीयं महत्त्वं स्थापयन्ति । बहूनाम् उल्लेखः अवान्तरकालिकेषु निरुक्तग्रन्थेषु कृतोऽस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. (गोपथ० पू० २॥१०)
  2. निरु० १॥१६; गोपथब्रा० २॥२॥६; २॥४॥२
  3. २॥२१
  4. १॥३९
  5. गोपथ० पूर्वं० १।६
  6. गोपथ० पूर्व० ३।१९
"https://sa.wikipedia.org/w/index.php?title=गोपथब्राह्मणम्&oldid=425072" इत्यस्माद् पुनः प्राप्तिः