रघुवंशम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
रघुवंशम्
इक्ष्वाकुवंशीयानां कथा  
A bazaar-art print, c.1910.jpg
लेखकः कालिदासः
देशः भारतम्
विषयः रघोः वंशस्य राज्ञां चरितम्
प्रकारः लालित्यपूर्णा
वर्णितराज्ञां नामानि
  1. दिलीपः,
  2. रघुः,
  3. अजः,
  4. दशरथः,
  5. रामः,
  6. कुशः,
  7. अतिथिः,
  8. निषधः,
  9. नलः,
  10. नभः,
  11. पुण्डरीकः,
  12. क्षेमधन्वा,
  13. देवानीकः,
  14. अहीनगुः,
  15. पारियात्रः,
  16. शिलः,
  17. उन्नाभः,
  18. वज्रनाभः,
  19. शंखणः,
  20. व्युषिताश्वः,
  21. विश्वसहः,
  22. हिरण्यनाभः,
  23. कौसल्यः,
  24. ब्रह्मिष्ठः,
  25. पुत्रः
  26. पुष्यः,
  27. धृवसन्धिः,
  28. सुदर्शनः,
  29. अग्निवर्णः च
सर्गसङ्ख्या १९

रघुवंशं महाकविकालिदासेन विरचितं किञ्चन महाकाव्यमस्ति। तत् एकोनविंशति(१९)-सर्गात्मकं लालित्यपूर्णं महाकाव्यम्। रघुवंशस्य कथावस्तु सूर्यवंशस्य राज्ञां वर्णनाधारितम् अस्ति। दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता अस्ति। तदुत्तरं रामवंश्यानां तत्तन्नृपाणां चरितानि उपन्यस्तानि। अन्तिमः सर्गः अग्निवर्णस्य गर्भवत्याः महाराज्ञ्याः शासनाचरणेन समं समाप्यते। कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म, परम् असौ कालेन कवलीकृतः इति किंवदन्ती। तथा च कालिदासेन परतः अपि रघुवंशस्य सर्गाः लिखिताः; परन्तु ते न प्राप्यन्ते इत्यपि प्रसिद्धिः। रघुवंशे येषां राज्ञां वर्णनानि सन्ति, तेषां रामायणवर्णितनृपैः सह भेदः आपतति, परन्तु वायुपुराण-वर्णितानुसारं रामवंशावल्या सह रघुवंशवर्णित-वंशावली भूयसा सामञ्जस्यं धारयति।

रघुवंशं सूर्यकुलोत्पन्नानां भूपतीनां चरितकथनात्मकं वर्तते। दिलीपपुत्रस्य रघोर्नाम्ना सकल एव सूर्यवंशो रघुवंश इति ख्यातिं गतः। सूर्यवंशस्य रघुनाम्ना प्रसिद्धेः कारणं महाकविकालिदासः वर्णयति यत्,

ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्ज्जितवीरशब्दः।

वंशस्य कर्त्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे।।[१] इति।

महाकाव्यत्वेन[सम्पादयतु]

महाकाव्यस्य लक्षणानुसारं यानि लक्षणानि आवश्यकतानि, तानि रघुवंशे दरीदृश्यन्ते। महाकाव्यस्य लक्षणानुसारम् अस्मिन् रघुवंशे एककुलोत्पनाः बहवः पृथ्वीपालाः वर्णिताः। अस्मिन् अङ्गी वीरो रसः। शृङ्गार-करुण-शान्तादयः रसाः, नाटकस्य सन्धयः च अङ्गानि यथास्थाने विहिताः। इदं च रामायणादिरूपाम् इतिहासकथाम् आश्रित्य प्रणीतम्। अत्र परमानन्ददायकाः धर्मार्थकामोक्षरूपाश्चत्वारो वर्गाः विहिताः। प्रारम्भेऽस्मिन् पार्वती-परमेश्वरयोः नमस्कारात्मकं मङ्गलाचरम् अस्ति। सर्गाणाम् आदिमध्येषु एकविधम् अन्तेषु अन्यविधं वृत्तम् अस्ति। नातिस्वल्पाः नातिदीर्घाश्चात्र ऊनविंशतिः सर्गाः। नवमसर्गे चान्यत्र क्वचित् क्वचित् नानावृत्तमयानि अपि पद्यानि सन्ति, प्रत्येकं सर्गान्ते भाविसर्गकथा सङ्केतिता। महाकाव्ये कथनीयाश्च सन्ध्यासूर्येन्दुरात्रिप्रदोषादयः सर्व एव विषयाः यथास्थानां वर्णिताः।

लेखकपरिचयः[सम्पादयतु]

मुख्यलेखः : कालिदासः

कालिदासस्य विषये अनेकाः प्रवादाः प्रसिद्धाः सन्ति। मिथिलायां प्रवादः अस्ति यत्, कालिदासः मिथिलायाः निवासी आसीत्।[२] दक्षिणप्रान्ते अपि कश्चन प्रवादः अस्ति यत्, सः दक्षिणात्यः आसीत् इति।[३] वङ्गप्रदेशे रङ्गपुरे समानः प्रवादः अस्ति।[४] सः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत् इति मन्यते।[५]

टीकाः[सम्पादयतु]

भारतीयैः, पाश्चात्यैः च विद्वद्भिः कृताः रघुवंशस्य अनेकाः टीकाः समुपलभ्यन्ते। तासु मल्लिनाथसूरेः टीका प्रसिद्धा। तस्याः नाम सञ्जीवनी-टीका इति। हिन्दीभाषायाम् अपि रघुवंशस्य टीका वर्तते, यस्याः नाम भावर्थदीपिकाभाषाटीका इति। अस्याः हिन्दीटीकाकारः पण्डितज्वालाप्रसादमिश्रः वर्तते। हिन्द्यां रघुवंशस्य मणिप्रभाटीका अपि वर्तते, यस्याः टीकाकारः श्रीहरगोविन्दमिश्रः।

प्रथमसर्गः[सम्पादयतु]

मङ्गलाचरणं, प्रस्तावना च[सम्पादयतु]

महाकविः कालिदासः शिवाशिवौ नत्वा रघुवंशस्य आरम्भं करोति। तत्र उपमालङ्कारस्य माध्यमेन सः कथयति यत्, अहं विशिष्टशब्दार्थयोः सम्यग्ज्ञानार्थं शब्दार्थाविव नित्यसम्मिश्रौ संसारस्य मातापितरौ शिवाशिवौ भक्त्या नमस्करोमि इति। एवं पार्वतीपरमेश्वरौ प्रसन्नौ भूत्वा तस्मै काव्यरचनायै शक्तिं दद्यास्ताम् इति प्राथ्यते।[६]

ततः रघुवंशीयानां राज्ञां प्रशासां कुर्वन् सः तेषां वर्णनेन स्वस्य असमर्थतां घोषयति।[७] असमर्थतायां सत्याम् अपि अहं तेषां वर्णनं कर्तुं प्रयत्नं कुर्वन् अस्मि इत्युक्त्वा सः रघुवंशीयानां राज्ञां गुणानां वर्णनम् आरभते। प्रप्रथमं सः वैस्ववतमनोः उल्लेखं कृत्वा तस्य वंशे चन्दसमानः दलीप-नामकः राजः समुद्भूतः इत्युक्त्वा दिलीपस्य वर्णनम् आरभते।

दिलीपाख्यानस्य आरम्भः[सम्पादयतु]

रघुवंशे दिलीपस्य पिता कः इति प्रारम्भे न उल्लिखितम्। प्रारम्भे तु वैवस्वत-नामकस्य मनोः कुले चन्द्रसमानः दिलीपः समुत्पन्नः इत्येव उल्लिखितम् अस्ति। परन्तु अग्रे सङ्केतः प्राप्यते यत्, इक्ष्वाकुवंशे उत्पन्नः कुकुस्थराजानः अभूवन्, येषाम् आरम्भिकं राज्यम् उत्तरकोसलः आसीत्। इक्ष्वाकोः पुत्रः पुरञ्जयः अभवत्। तस्य अपरं नाम कुकुस्थः इति। तस्य पुरञ्जयस्य पुत्रः दिलीपः अभवत् इति।[८][९] तस्य शरीरं बलिष्ठं वर्णितम् अस्ति। शासकत्वेन सः केवलं प्रजानां हिताय एव करं स्वीकरोति स्म।[१०] तस्य गुणवर्णनं कुर्वन् कालिदासः तं विनम्र, अपकारसहिष्णुः, दानी, धर्मप्रियः, कृषिप्रियः च उक्तः।[११] तस्य राज्ये चौरकर्मस्य सम्पूर्णतया अभावः अपि उक्तः तेन। तस्य राज्यं परितः समुद्रः एव आसीत्। अर्थात् सम्पूर्णः जम्बूद्वीपः। तादृशं विशालं राज्यं सः नगरवत् सञ्चालयति स्म।[१२] यद्यपि दिलीपस्य अनेकाः राज्ञ्यः आसन्, परन्तु सः सुरक्षिणायाः गर्भात् पुत्रोत्पत्तिम् इष्टवान्। अतः मन्त्रिभ्यः शासनस्य कार्यभारं दत्त्वा आदिनं यात्रां कृत्वा च सायङ्काले सपत्निकः सः कुलगुरोः विसिष्ठस्य आश्रमम् अगच्छत्। विसिष्ठर्षेः सर्वेऽपि ऋषिगणाः सपरिवारं दिलीपसुदक्षणयोः स्वागतं कुर्तन्ति। अनेन सह कालिदासेन आश्रमस्य वातावरणस्य अपि प्राकृतिकसौन्दर्यं प्रकटनाय वर्णनं कृतम् अस्ति। ततः तौ दम्पती सपत्नीं गुरुवसिष्ठं प्रणामं कुरुतः। तौ ऋषिदम्पती दिलीपसुदक्षिणाभ्याम् आशीर्वादं यच्छतः च।

दिलीपः कथयति यत्, हे ऋषे! भवतः आशीर्वादेन राज्य-प्रजा-सम्पतयः सुरक्षिताः, वर्धमानाः च सन्ति। परन्तु मम कुलाय तर्पणदाता पुत्रः एतावता न प्राप्तः। अतः अहं दुःखितः अस्मि। अतः पितॄणाम् ऋणनिर्मोक्षसाधनं सुतं प्राप्नोमि, तथा विधानं करोतु कृपया इति। इत्थं सन्तानाभावदुःखं कथितवति राजनि स महर्षिः वसिष्ठः समाधिना निर्मालितनयनः सन् प्रशांन्तमीनसञ्चारो महासरोवर इव अचलगम्भीरभावेन क्षणकालं तस्थौ (स्थितवान्)।[१३] एवं ध्यानेन दिलीपस्य सुतोत्पतौ स्तम्भरूपं (विघ्नरूपं) कारणं सः वदति, "हे नृप! त्वम् एकदा इन्द्रलोकं गत्वा भगवन्तं वज्रपाणिं (इन्द्रं) समुपास्य यदा नरलोकं पृथ्वीं प्रति प्रत्यागमनाय प्रवृत्तः आसिः, तदा ते मार्गे सुरभिः नाम कामधेनुः पारिजातकच्छायायां स्थिता आसीत्। तदा इयं तव महिषी सुरक्षिणा ऋतुस्नानं कृत्वा त्वत्समागमनं प्रेक्षणमाणा आसीत्, त्वम् अपि ऋतुसमयस्य अनुष्ठाने पापं स्यात् इति सुदक्षिणामेव चेतसा स्मरन् प्रदक्षिणार्हां तां कामधेनुं प्रदक्षिणादिभिः सम्मानयितुं विस्मृतवान्, तदेव स्तभरूपं तव कर्म वर्तते। यतो हि तस्य कर्मणः रुष्टा सती सा धेनुः त्वां शप्तवती। मां तिरस्कृत्य गच्छन् असि, परन्तु मत्सुतस्य आराधनम् अकृत्वा न ते सुतो भविष्यति इति [१४] शापः त्वया, तव सारथिना च नद्याः भयङ्करशब्दत्वात् न श्रुतः। सा कामधेनुः तु अधुना पाताले जायमाने यज्ञे उपस्थिता, परन्तु तस्याः पुत्री अत्र विद्यते। तस्याः सुरभिकन्यायाः सपत्निकः सेवां कृत्वा मनोवाञ्छितं वरं प्राप्तुं शक्नोति" इति।

यदा वसिष्ठर्षिः स्वस्य उक्तानि वचनानि दिलीपं कथयन् आसीत्, तदैव नन्दिनीनाम्नी कामधेनुकन्या वनात् प्रत्यागता। ततः महाकविः कालिदासः नन्दिन्याः वर्णनं श्लोकत्रयेषु करोति। ततः ऋषिः कथयति यत्, हे नृप! तव मनोरथः शीघ्रमेव सफलो भवति इति नूनम् अवगच्छ यतः तव अन्वेष्टव्या इयं नन्दिनी नामोच्चारणमात्रम् एव सम्मुखे समुपस्थिता अस्ति। अधुना त्वम् एतस्याः अनुसरणं कृत्वा तां प्रसन्नां कुरु इति। ततः ऋषिः सुदक्षिणायाः कर्तव्यं वदन् कथयति यत्, तव स्त्री शुद्धान्तःकरणेन भक्तिभावेन अनुदिनं प्रातःकाले गन्धमाल्यादिभिः इमाम् अर्चयित्वा आश्रमपर्यन्तम् अनुव्रजेत्, सन्ध्यासमये पुनरपि आश्रमनिकटपर्यन्तं गत्वा इमां नमस्कृत्य आनयेत् इति।[१५] यावदियं गौः त्वयि प्रसन्ना न भवति, तावत्त्वं मम कथनानुसारेण एतस्याः परिचर्यां कुरु, तव पिता यथा पुत्ररत्नत्वेन त्वां प्राप्य सौभाग्यशाली परिगण्यते, तथैव त्वमपि त्वत्सदृशसुतरत्नस्य लाभेन पुत्रसौभाग्ये अग्रगण्यो भव इति। ततश्च गुरोः आज्ञां प्राप्य गुरुणा व्यवस्थापिते कुटिरे तौ दम्पती शयनं कृत्वा प्रातः आश्रमस्थानाम् ऋषिकुमाराणां वेदमन्त्राणां गानेन सह जागृतौ।

द्वितीयसर्गः[सम्पादयतु]

द्वितीये दिने प्रभाते नन्दिन्याः वत्सं दुग्धं पाययित्वा नृपमहिषी सुदक्षिणा मालाचन्दनादिभिः नन्दिन्याः अर्चनां करोति। सुदक्षिणया पूजितां तां नन्दिनीं यशःपरायणः दिलीपः वने स्वच्छन्दगमनाय मोचितवान्। ततः नन्दिन्याः पृष्ठे दिलीपः, तस्य पृष्ठे च सुदक्षिणा गच्छति। अग्रे आश्रमसीमायां सुदक्षिणां प्रतिप्रेषयित्वा दिलीपः नन्दिन्याः अनुसरणं करोति। आश्रमद्वारात् सुदक्षिणां, वनसीमातः स्वसेवकान् च दिलीपः अनुचलनात् निवारितवान्। एवं सः नन्दिन्याः पृष्ठे एकाकी एव अनुचलितवान्। वने स्वच्छन्दगम्यमानायाः नन्दिन्याः अनुसारणं कुर्वाणः दिलपीः सर्वाः क्रियाः नन्दिन्याः पश्चादेव करोति स्म। चलनं, विश्रामं, जलपानं च नन्दिन्याः अनन्तरमे सः करोति स्म। एवं कालिदासेन तस्य अनुसरणशीलतायै छायावत् अनुसरणस्य उपमा पदत्ता वर्तते।[१६]

वनस्थानां व्याघ्रादीनां हिंसकपशूनां प्रहारात् नन्दिन्याः रक्षणं कर्तुं राजा दिलीपः धनुष्काण्डैः सुसज्जः तस्याः अनुसरणं करोति स्म। आदिनं वनस्य विभिन्नभागेषु अटित्वा सायङ्काले नन्दिनी स्वतः आश्रमं प्रति यात्राम् आरब्धवती। एवं तौ उभौ आश्रमं प्राप्तवन्तौ। ततः आश्रमद्वारे सुदक्षिणा नन्दिन्याः पूजार्चनादिना स्वागतम् अकरोत्। नन्दिनी स्वस्य वत्सस्य दर्शनार्थं विह्वला आसीत्, तथाऽपि सा सुदक्षिणादिलीपयोः पूजां स्तब्धीभावेन स्वीकृतवती। ततश्च सा स्वस्य वत्सस्य पार्श्वे गतवती। दिलीपोऽपि वसिष्ठम्, अरुन्धतीं च भक्त्या प्रणम्य निजं सायमनुष्ठां कृत्वा च पुनः नन्दिन्याः सेवायामेव संयोजितः अभवत्। रात्रौ नन्दिन्याः पृष्ठतः तौ दम्पती क्रमेण तस्याः शयनोत्तरं निद्रां कृतवन्तौ, पातःकाले च जागरणोत्तरं जागृतः। एवं तौ एकविंशतिः दिनानि नन्दिन्याः सेवां कृतवन्तौ।

द्वाविंशे दिने नन्दिनी स्वसेवकस्य दिलीपस्य मनोगतं ज्ञातुम् इष्टवती लीलाम् अरचयत्। तस्मिन् दिने सा घोरवनं प्रविष्टवती। तत्रस्थं वातावरणं रमणीयम् आसीत्, अतः दिलीपः क्षणं यावत् नन्दिनीम् अदृष्ट्वा प्रकृतिं पश्यन् आसीत्। तस्मिन्नेव समये कश्चन सिंहः नन्दिन्याः उपरि आक्रमणम् अकरोत्। यतो हि दिलीपः प्रकृतिदर्शने निमग्नः आसीत्, अतः सिंहस्य आक्रमणं तु सः न दृष्टवान्, परन्तु ततः स दृष्टवान् यत्, सः सिंहः नन्दिन्याः उपरि आक्रमणं कृतवान् इति। रक्तवर्णीयाः नन्दिन्याः शरीरोऽपरि आरूढवन्तं तं केसरसिंहं मारयितुं दिलीपः तूणीराद् बाणम् उद्धर्तुम् इष्टवान्। परन्तु बाणस्य मूलप्रदेशे (पुच्छस्य प्रदेशः) गृहीते सति सः दिलीपः चित्रलिखितः (like image) स्यात्, तथा स्थिरो अभवत्। सम्मुखे स्थितम् अपारधिनं सिंहं किमपि कर्तुं न शक्तवतः राज्ञः अन्तःकरणे उद्वेगः समुद्भूतः। सः सिहः उक्तवान् यत्, हे राजन्! तव श्रमेण किमपि न भविष्यति, वृक्षान् उच्छेदयितुं समर्थः वायुः पर्वतस्य किमपि कर्तुं प्रभवति। महादेवः यदा श्वेतवर्णीये वृषभे आरोढुम् इच्छति, तदा निकुम्भनामकस्य सेवकस्य पृष्ठोपरि चरणं निधाय आरोहति। तस्य निकुम्भस्य मित्रम् अहं कुम्भोदरः शिवकिङ्करः अस्मि। तव अग्रे यः देवदारोः वृक्षः अस्ति, सः शिवेन पुत्रत्वेन स्वीकृतः अस्ति। भवानी तस्मै तरवे सुवर्णघटेन जलं सञ्चति। एवं संवर्धितस्य अस्य देवदारोः त्वक् एकदा हस्तिनः कपोलघर्षणेन उन्मथिता। दैत्येन स्कन्दस्य शरीरे आघाते कृते सति यथा पीडा अनुभूता, तथैव एतस्य तरोः कृते पार्वत्या पीडा अनुभूता। तेन शिवेन अहं देवदारुवृक्षस्यास्य रक्षायै नियुक्तः। कालबद्धा (यमेन बद्धा) एषा अत्र मम बुभूक्षां शमयितुम् उपस्थिता वर्तते। शस्त्रैः रक्षणं कर्तुं यत् वस्तु भवति, तस्य रक्षायाम् असमर्थे सति मानभङ्गः न भवति। अतः लज्जां त्यक्त्वा प्रतिगच्छ इति।

बाणसञ्चालने निष्फलः राजा दिलीपः उक्तवान् यत्, हे सिंह! जडचेतनानाम् उत्पत्तिप्रलयसंहारहेतुः स शिवः मे माननीयः। परन्तु अग्नौ आहुतिदातुः गुरोः धनस्य नाशं द्रष्टुं न शक्नोम्यहम्। समीपे आगतस्य जीवस्य शरीरेण उपजीव्यमानः त्वं मदीयेन देहेन उपजीव्य प्रसन्नो भव। परन्तु पुत्रमिलनोत्सुकाम् एतां वसिष्ठधेनुं मोचय इति। दिलीपस्य वचनं श्रुत्वा अट्टहास्यं कुर्वन् सिंहः उक्तवान् यत्, राजन्! त्वं तु विवेकहीनः प्रतिभासि। एकच्छत्रं संसारस्य स्वामित्वं, नवयौवनम् इदं मनोहरं शरीरं च गोः कृते कुतः त्यक्तुम् इच्छसि? यदि प्राणिजातेषु दयैव वर्तते, तर्हि शरीरान्ते इयमेका एव धुनुः कल्याणवती भविष्यति। परन्तु हे प्रजानाथ! यदि त्वं मह्यं निजशरीरम् अदत्त्वा प्रतिगच्छसि, तर्हि चिरकालं यावत् विघ्नेभ्यः प्रजारक्षणं कर्तुं प्रभविष्यसि। यदि एकधेनुयुक्तस्य अग्निमूर्तेः गुरोः क्रोधात् त्वं बिभेषि, तर्हि कोटिशः घटोध्नीं (a cow having a full udder) दत्त्वा त्वं तस्य रोषं दूरीकर्तुं समर्थोऽसि। अतः स्वस्य शरीरस्य रक्षां कुरु। यतो हि समृद्धिशालि राज्यमेव स्वर्गम् उच्यते इति।

शिवानुचरस्य सिंहस्य आघातेन दुःखितां भयभीतनेत्रयुक्तां नन्दिनीं दृष्ट्वा दयालुः सः दिलीपः उक्तवान् यत्, किल नाशात्त्रायते इति क्षत्रवर्णस्य उन्नतः क्षत्रशब्दः लोकेषु प्रसिद्धिं गतः, तस्मात् विरुद्धस्य व्यवहारस्य पुनः शासनं कृत्वा किं करिष्यामि? जुपुप्सामलिनैः प्राणैः किं प्रयोजनम्? अन्यघटोध्नीनां दानात् महर्षेः क्रोधापनयः कथं नु शक्यः? हि इमां नन्दिनीं कामधेनोः तुल्यां जानीहि, महेश्वरस्य सामर्थ्येन एव त्वया अस्याम् आक्रमणं कृतम्। तादृश्याः एतस्याः नन्दिन्याः रक्षणं स्वदेहदानविनिमयेन त्वत्तः मोचनम् एव न्यायः भविष्यति। एवं कृते सति तव पारणा भविष्यति, वसिष्ठर्षेः च होमादिप्रयोजनं लुप्तं न स्यात्। भवान्नपि स्वाम्यादेशेन परतन्त्रोऽस्ति। अतः महान्प्रयासेन एतस्य देवदारोः रक्षणं करोति। रक्षणीयवस्तोः विनाशं प्रापय्य सेवकेन स्वयं व्रणरहितेन प्रभोः अग्रे स्थितिं कर्तुं न शक्यते इति। ततः सिंहस्य स्वस्योपरि तीव्राघातः स्यात् इति विचिन्यमाणः दिलीपः नतमस्तकः सन् अतिष्ठत्।

तस्मिन्नेव समये विद्याधरैः दिलीपस्योपरि पुष्पवर्षाः कृताः। हे पुत्र उत्तिष्ठ! इत्यमृतरसपूर्णं वचो निशम्य राजा दिलीपः यदोत्थितः सन् पश्यति, तदा तस्य सम्मुखे स्वां मातरमिव कामदुधा दृष्टा, सिंहस्तु लुप्तः आसीत्। यतो हि तत् सर्वं नन्दिन्याः माया आसीत्। यतो हि नन्दनी दिलीपस्य परीक्षां कर्तुम् इच्छति स्म। अतः सा उक्तवती यत्, वसिष्ठस्य प्रतापात् कालोऽपि मां प्रहर्तुम् असमर्थः, तर्हि अन्ये हिंसकानां का स्थितिः? वत्स! गरौ भक्त्या, मयि दयया च तुभ्यं प्रसन्ना अस्मि। ईप्सितं वरं याचस्व। मां केवलं दुग्धानां दात्रीं न विद्धि, किन्तु यदा प्रसन्ना भवामि, तदा मनोभिलषितं पूरयामि इति। तदा दिलीपः हस्ताञ्जलिं बध्वा कुलविस्तारस्य कृते सुदक्षिणायां कीर्तिमन्तं पुत्रम् अयाचत। अतः नन्दिनी तथास्तु इति प्रतिज्ञां कुर्वन्ती आदिष्टवती यत्, हे पुत्र! मम दुग्धं पलाशनिर्मिते पात्रे दुग्ध्वा पिब इति। तदा नृपः कथयति यत्, हे मातः! वत्सपानस्य शेषभूतम्, अग्निहोत्रात् अवशिष्टञ्च तव पयः पृथिव्याः षष्ठभागम् इव गुरोः आज्ञया पातुम् इच्छामि इति। ततः तौ आश्रमं प्राप्तवन्तौ। दिलीपस्य मुखाकृतिना एव वसिष्ठः धनोः अनुग्रहं ज्ञातवान् पश्चात् सुरक्षिणायै अपि दिलपीः वृत्तं श्रावयितवान्। ततः गुरोः आदेशं प्राप्य वत्सपानस्य, हवनस्य च अवशिष्टं धेनोः दुग्धं दिलीपः अपीबत्।

जितेन्द्रियस्य वसिष्ठस्य विधानानुसारं प्रातःकाले विधिपूर्वकं व्रतपारणां समाप्य प्रास्थानिकं स्वस्तिवचनं प्रयुञ्ज्य च तौ दम्पती राजधानीं प्रति प्रस्थितौ। राजधान्यां राज्ञः दिलीपस्य प्रजाभिः स्वागतं कृतम्। ततः दिलीपः राजकार्यस्य दायित्वं पुनः स्वीकृत्य शासने निरतः। कालान्तरे सुदक्षिणया अपि गर्भधारणं कृतम्।

तृतीयसर्गः[सम्पादयतु]

सगर्भायाः सुदक्षिणायाः सर्वाः इच्छाः दिलीपः पूरयति स्म। एवं तेन पुंसवनादयः विधयः अपि समापिताः। समये सञ्जाते अर्धरात्रौ सुदक्षिणया पुत्रः जनितः। यदा विश्वस्तः परिचारकः आगत्य कुमारजन्मनः वार्तां राज्ञे न्यवेदयत्, तदा राजा अमृतमिव वचनम् आकर्ण्य आत्मनः सर्वाण्येव आभूषणानि तस्मै प्रादात्, केवम् अत्युज्ज्वलं राजच्छत्रं चामरद्वयं च अदेयत्वात् तस्मै न प्रदत्तम्। पुत्रः मेऽयं स्वशक्त्या अशेषशास्त्रसागरस्य पारं गमिष्यति, सम्पूर्णशत्रुसैन्यव्यूहं च भित्त्वा गमिष्यति इति तस्य गमनशीलत्वं निश्चित्य स राजा स्वपुत्रस्य रघुः इति नामकरणम् अकरोत्।[१७] दिलीपः स्वपुत्रस्य प्राथमिकं शिक्षणम् अकरोत्। सः एव तस्मै वक्तुम्, अङ्गुलिं धृत्वा चलितुं, शिरसा प्रणामं कर्तुं च अशिक्षयत्। एवं पुत्रचेष्टाभिः अत्यन्तः हर्षितः दिलीपः रघुं धनुर्विद्याम् अपाठयच्च।[१८]

रघ्वाख्यानस्य आरम्भः[सम्पादयतु]

यथा शुक्लपक्षस्य प्रतिपच्चन्द्रः तेजोनिधेः सूर्यस्य किरणसम्पर्केण कलाभिः दिने दिने वर्द्धते, तथैव स कुमारोऽपि पितुः प्रयत्नेन मनोहरैः अङ्गैः दिने दिने वृद्धिङ्गतः। ततः कालान्तरे तस्य चूडाकरणसंस्कारः अभवत्। यथा मकरादिजलजन्तवः नदीम् आश्रित्य तेनैव पथा अनन्तसागरं गच्छन्ति, तथैव कृतचुडाकरणः रघुरपि समयवयस्कैः मनोहरैः सचिवसुतैः सह वर्णमालां यथाविधिः अभ्यस्य क्रमेण अनन्तशब्दशास्त्रस्य पारं गतवान्।[१९] ततः गर्भात् एकादशे वर्षे रघोः उपनयनसंस्कारः अभवत्।[२०] निपुणाः आचार्याः गुरुसेवकं तं रघुं विद्याः शिक्षितवन्तः। तथा च शीघ्रं हि सः विद्याचतुष्टयस्य ज्ञाता अभवत्। तेन धनुर्विद्यायाः अध्ययनकाले स्वपितुः दिलीपात् दिव्यास्त्राणां ज्ञानम् अर्जितम् असीत्। यथा वत्सतरः पूर्णयौवनः सन् महोक्षः भवति, यथा च करिशावकः पूर्णयौवनः सन् महागजो भवति, तथैव रघुः अपि क्रमेण पूर्णयौवनः सन् पुष्टावयवः महापुरुषाकृतिः जातः। ततः राजकन्याभिः सह रघोः विवाहः अभवत्। राजकुमारपदधर्त्ता रघुः नवनवतिवारं पितुः अश्वमेधयज्ञानाम् आश्वमेधिकानां रक्षणम् अकरोत्।

शततमे अश्वमेधावसरे दिलीपः यदा यज्ञाश्वम् अमोचयत्, तदा इन्द्रः अदृश्यरूपो भूत्वा धेनुर्भृतां रक्षिणाम् अग्रतः एव तम् अश्वम् अपहृत्य गतः। तस्मिन्नेव काले विसिष्ठर्षेः कामधेनुः नन्दिनी तत्र समुपस्थिता। तस्याः अङ्गनिष्यन्दजलेन (गोमूत्रेण) स्वनेत्रे प्रक्षाल्य तत्कालमेव परोक्षाणाम् अपि पदार्थानाम् अवलोकने समर्थः अभवत् रघुः।[२१] एवं प्राप्तदिव्यचक्षुः स रघुः पूर्वस्यां दिशि यावत् दृष्टिम् अकरोत्, तावत् दृष्टवान् यत्, पर्वतपक्षभेदी इन्द्रः अश्वम् अपहृत्य गच्छति, अश्वश्च तदीयरथरश्मिबद्धः परां चञ्चलतां प्रकटयति, सारथिः तं स्थिरीकर्तुं भूयोभूयो प्रयत्नं कुर्वन्नस्ति इति। ततः इन्द्रम् उद्दिश्य रघुः गम्भीरस्वरेण तं समबोधयत्। रघोः गम्भीरस्वरं श्रुत्वा भीतः इन्द्रोऽपि स्थिरः अभवत्।

रघुः तम् उक्तवान् यत्, अये देवेन्द्र! त्वम् एव यज्ञभागभुजां निर्जराणाम् अग्रगण्यो असीति पण्डिताः आहुः, पिता च में भवताम् एव प्रीणनाय नित्यं यज्ञेषु दीक्षितः वर्तते। तत् कथं तस्यैव यज्ञकर्मणि विघ्नं करोषि त्वम्? यदि कोऽपि त्रिलोके धर्मकार्येषु विघातं करोति, तदा तस्य दमनं त्रिलोकिशासकेन सर्वसाक्षिणा त्वया एव करणीयम्। यदि त्वं स्वयं धर्मरक्षको भूत्वा सत्क्रियाः विहंसि, तर्हि धर्मानुष्ठानस्य लोपः भविष्यति। अत एव हे मघवन्! मम पितुः अश्वमेधयज्ञस्य प्रधानसाधनम् अश्वं मे देहि, भवादृशाः धर्ममार्गप्रचारकाः स्वयमेव कुत्सितमार्गे न खलु प्रवर्तन्ते? इति।[२२] रघोः मुखात् स्पर्धापूर्णानि वचनानि श्रुत्वा इन्द्रोऽपि रथं निवर्त्य तस्मै उत्तरं यच्छन् उक्तवान् यत्, अये राजकुमार! सत्यमुक्तं त्वया। किन्तु मादृशानां यश एव सर्वस्वं तव पिता यदि क्रतुशतं समापयेत्, तदा मे त्रिलोकिप्रख्यातं यशः विलुप्तं स्यात्, अतो येन केन प्रकारेण आत्मनो यशः रक्षणीयम्मया। संसारेऽस्मिन् यथा पुरुषोत्तमशब्दः नारायणाय, त्रिनेत्रशब्दः महेश्वाराय रूढोऽस्ति, तथैव शतक्रतुशब्दः मामेव बोधयति। एषः शब्दः द्वितीयगामी नास्ति। यतो हि केवलम् अहमेव शतक्रतुः अस्मि। पुरा यथा कपिलमुनेः कोपेन सगरस्य अश्वमेधः भग्नः अभवत्, तथैव अधुना मम क्रोधेन तव पितुः यज्ञः भग्नो भविष्यति। अतः अलं तव वृथापरिश्रमेण इति। तस्मै प्रत्युत्तरं यच्छन् रघुः सदर्पम् उक्तवान् यत्, हे पुरन्दर! यदि एवं ते सङ्कल्पः, तदा युद्धाय सज्जो भव। यावत् मां जेतुं न शक्नोषि तावत् कृतकार्यः (सफलः) न भविष्यसि इति। एवम् उक्त्वा रघुः तस्य सम्मुखे धनुष्काण्डैः युद्धाय सज्जः उपस्थितः। इन्द्रोऽपि तेन सह युद्धाय सज्जो सन् स्वस्य धनुषि अमोघं शरं संहितवान्। पूर्वं कदाऽपि असुरं विहाय मनुष्ये तस्य शरस्य उपयोगः न कृतः इन्द्रेण।[२३] इन्द्रः अमोघास्त्रस्य प्रयोगं कुर्यात् तस्मात् प्रागेव रघुणा इन्द्रस्योपरि प्रहारः कृतः, यस्मिन् इन्द्रस्य भुजा रक्तचिह्निता अभवत्। ततश्च द्वितीयशरेण रघुणा इन्द्रस्य वज्रसदृशः ध्वजः स्वगतः (स्वाधीनः) कृतः। सर्वप्रयत्नेन अपि इन्द्रः रघुं किमपि कर्तुम् असमर्थः आसीत्। ततः रघुः इन्द्रस्य धनुः एव स्वबाणाघातेन अभङ्गयत्। अतः इन्द्रः वज्रम् उत्थाप्य रघोः वक्षस्थले प्राहारयत्। तेन आघातेन रघुः पृथिव्याम् अपतत्। तस्य पतनं दृष्ट्वा तस्य सैनिकेषु महान् उद्वेगः समुत्पन्नः, परन्तु समनन्तरमेव रघुः वज्रवेदनां विहाय उत्थितवान्। तेन सर्वैः सैनिकैः सिंहघोषः कृतः। इन्द्रस्य वज्रस्य कठोराघातेषु सत्सु अपि रघोः अत्यन्तं प्रराक्रमं दृष्ट्वा इन्द्रः सन्तुष्टः। अतः स उक्तवान्, हे राजकुमार! यतः पर्वतपक्षान् अपि विभक्तवान्, त्रिलोके कोऽपि यस्य प्रहारं सोढुं न शक्नोति, तादृशं वज्रम् अपि त्वं व्यर्थम् अकरोः। अतः तव पराक्रमातिशयेन प्रसन्नोऽहं तुभ्यं तुरङ्गं (अश्वं) वर्ज्जयित्वा यत्किमपि दातुं शक्नोमि इति। इन्द्रस्य मनोहरं वचनं श्रुत्वा रघुः तुणिरे बाणं पुनस्स्थाप्य उक्तवान् यत्, हे इन्द्र! यदि अश्वप्रत्यप्रणं कर्तुं नेच्छसि, तर्हि यथा मे पिता इदम् अश्वं विनापि अस्य अश्वमेधयज्ञस्य सम्पूर्णं फलं लभेत, तथा विधीयाताम्। एवञ्च सभायां शिवांशत्वेन दुःसहः महाराजः दिलीपः स्थितः अस्ति, तस्मै तव दूतः इदं वृत्तान्तं श्रावयेत् तथा विधीयताम् इति। "तथैव भविष्यति" इति सङ्कल्पं कृत्वा इन्द्रः स्वस्थानं गतः। रघुः अपि सभां प्रति गतः। रघोः आगमनात् प्रागेव दिलीपः पुरन्दरदूतमुखात् सर्वं वृत्तान्तं ज्ञातवान् अधुना समीपमागतं तं सुतमालिङ्गनादिभिः अभिनन्दितवान् च। वज्रप्रहरव्रणयुक्तं सुतं सदयं स्पृशन् आनन्दयुक्तो अभवत् सः। एवं कृत्वा स्वर्गारोहणस्य इच्छुकः राजा नवनवतिः महायज्ञानां पङ्क्तिं पूर्णाम् अकरोत्। अथ स वृद्धो राजा सुयोग्यं पुत्रं रघुं साम्राज्ये अभिषिच्य सर्वाश्च विषयान् सन्त्यज्य परमपुरुषार्थलाभाय सस्त्रीकः तपोवने वासम् अकरोत्। यतः वार्धक्ये इक्ष्वाकुकुलोत्पनानाम् स एव कुलाचारः आसीत्।

चतुर्थसर्गः[सम्पादयतु]

दिलीपस्य शासनकाले एव शत्रूणां हृदयेषु दुःखाग्निः ज्वलनोन्मुख इव आसित्। अथ रघौ सिंहासनारूढे सति तु सः प्रज्वलित इव अभवत्। अतः ते नवराजानं रघुम् उच्चाटयितुम् आक्रमणम् अकुर्वन्। परन्तु दिग्विजयाभियाने शत्रुनिराकरणाय रघुः सङ्कल्पम् अकरोत्। ततः सः रघुः प्रथमं स्वीयराष्ट्रदुर्गाणां पृष्ठदेशस्य च सर्वथा रक्षां कृत्वा यात्रकालोचितं सम्पूर्णं मङ्गलं विधाय षड्विधं बलमादाय दिग्जिगीषया प्रस्थानम् अकरोत्। रघुणा प्रप्रथमं पूर्वा दिक् जेतुं प्रयत्नः कृतः।[२४] जयशीलः सः रजा पूर्वदिशः राज्यानि जित्वा ताल-तरुपङ्क्तिभिः श्यामवर्णीयं वनं यत् महासमुद्रस्य तटप्रान्ते अस्ति, तत्र प्राप्तवान्। नदीस्त्रोभिमुखं प्रणतान् वैतसान् यथा भयङ्करोऽपि नदीप्रवाहो नैव समुन्मूलयति, तथैव रघुः प्रणतान् सुह्मदेशीयान् नृपान् नैव उत्पाटितवान्। वङ्गदेशीयाः भूपाः रणतरीः सज्जीकृत्य युद्धे प्रवृत्ताः अभूवन्, रघुरपि सर्वांस्तान् निर्जित्य गङ्गाप्रवाहमध्यगतेषु देशेषु विजयस्तम्भान् आरोपयत्।[२५] वङ्गप्रदेशस्य राजभिः सह यानि युद्धानि जातानि, तेषु सर्वे राज्ञः पराजिताः। परन्तु तान् पदभ्रष्टान् अकृत्वा रघुः तेभ्यः सम्मानितं पदं दत्तवान्।

ततः स्वस्य दिग्विजयाभियानम् अग्रे सरयन् रघुः निजहस्तिपरम्पराभिः कपिशां नदीं तीर्त्वा उत्कलैः राजभिः सन्दर्श्तिमार्गः सन् कलिङ्गदेशं जेतुम् अगच्छत्। अपरत्र कलिङ्गनाथोऽपि युद्धाय सज्जः आसीत्। धर्मार्थविजयशीलः स रघुः प्रथमम् उद्धतभावेन युद्धाय प्रवृत्तं तं कलिङ्गनाथं बन्दीकृत्य पश्चात् तं मोचयित्वा तस्य श्रियम् एव व्यपनयत्, राज्याधिकारं तु न हृतवान्। अयत्नसिद्धविजयी रघुः पूर्वदिशां निर्जित्य फलभिरनताभिः पूगवृक्षपङ्क्तिभिः परिशोभितेन सागरतटेन दक्षिणां दिशम् अगच्छत्। दक्षिणदिशि प्रयातस्य रघोः प्रतापः पाण्डुदेशीयाः नृपाः सोढुम् असमर्थाः आसन्। अतः ते तस्य चरणमले प्रणताः। एवं मलय-दुर्दराख्ययोः पर्वतयोः समीपस्थानि राज्यानि निर्जित्य सागरात् दूरे स्थितं सह्यपर्वतम् अलङ्घयत्।

केरलप्रदेशस्य मुरलानद्याः तटमार्गेण पारसीकान् यवनान् जेतुं गतः। तत्र अश्वसैन्यसहायैः यवननृपतिभिः सार्द्धं रघोः घोरः सङ्ग्रामः जातः। रघुणा भल्लास्त्रैः खण्डशः कृतानि श्मश्रुमण्डितानि यवनशिरांसि मधुमक्षिकायुक्तानि क्षौद्रपटलानीव समरभूमिम् आच्छादितानि। शेषाः यवनाः प्रार्थनादर्शनार्थं स्वमस्तेभ्यः उष्णीषान् दूरीकृत्य तस्य शरणं स्वीकृतवन्तः। ततः रघुः उत्तरदिशं प्रति गतः। सिन्धूनन्द्याः तीरे तेन विश्रामः कृतश्च। तत्र हूणजातीयम्लेच्छानां नाशने रघुः घोरं पराक्रमं दर्शितवान्। कम्बोजदेशस्य राजानः युद्धे तस्य रघोः पराक्रमं सोढुं न शक्तवन्तः। ते पराजिताः कम्बोजदेशीयाः राजानः उत्तमाश्वादिभिः उपहारैः कोसलस्वामिनः रघोः समीपे उपस्थिताः।

ततः अश्वसैन्यसहायः सन् रघुः पर्वतीयगणान् जेतुं हिमालयम् आरूढवान्। तत्र तस्य युद्धम् उत्सवसङ्केताख्य-म्लेच्छजातीनां गणैः सह भयङ्करं युद्धम् अभवत्। तस्याः म्लेच्छजात्याः सप्तसमूहाः आसन्। ते सर्वेऽपि रघोः शरणं स्वीकृतवन्तः। हिमालयात् अवतीर्य लौहित्यनदीम् उल्लङ्घ्य प्राग्जोतिषदेशं प्राप्तवान्। तस्य प्रदेशस्य राज्ञा सह युद्धं कृत्वा तं पराजितवान्। एवं चतुर्षु दिग्क्षु विद्यमानानां राज्यानां विजयोत्तरं रघुः दिग्विजयाभियानात् निवृत्तः। ततः सः विश्वजितयज्ञम् अकरोत्। विश्वजितयज्ञस्य परिसमाप्तौ सत्कारेण सह पराजितान् राज्ञः मोचयितवान् च। विश्वजितयज्ञे स्वस्य सर्वं धनं रघुः दानम् अकरोत्।

पञ्चमसर्गः[सम्पादयतु]

विश्वजितयज्ञोऽत्तरं सर्वं धनं दानत्वेन दत्तवतः रघोः पार्श्वे कौत्सर्षिः १४ कोटिः सुवर्णमुद्राः दानत्वेन स्वीकर्तुम् उपस्थितः। सः कौत्सर्षिः वरतन्तुमहर्षेः शिष्यः आसीत्, यः चुतुदर्शविद्यासु पारङ्गतः आसीत्। शरणागतरक्षकः रघुः यज्ञे सर्वस्वदानात् धातुपात्राभावात् मृन्मये पात्रे पूजार्थम् उपकरणं समादाय विद्यासम्पन्नम् अभ्यागतं तं कौत्सं प्रति अगच्छत्। सः वेदशास्त्रसम्पन्नं तं कौत्सं श्रौतेन विधिना सत्कृतवान्। पश्चात् समीपे सुखासीने तस्मिन् बद्धाञ्जलिः सन् आगमनस्य प्रयोजनं अपृच्छत्। सः उक्तवान् यत्, हे सूक्ष्मबुद्धे ब्रह्मन्! रविः यथा अन्धकारान्धं लोकं प्रकाशेन उद्बोधयति, तथा अज्ञानतिमिरान्धं त्वां यः ज्ञानप्रकाशेन उद्बोधितवान् स वेदनिधिः ते गुरुः कुशली अस्ति? तस्य गुरोः तपसि विघ्नं तु न समुद्भूतम् अस्ति खलु? भवद्भिः आलवालबन्धनजलसेचनादिभिः उपायैः सुतसदृशप्रेम्णा संवर्धिताः ये आश्रमवृक्षाः फलच्छायादानेन श्रान्तानां सकलसन्तापम् अपहरन्ति, तान् दावानलवात्यादिः उपद्रवः न बाधते किच्चित्? आश्रमस्थाः हिरणाः कुशलाः सन्ति खलु? आश्रमस्थानि नदीसलिलानि तु शिवानि सन्ति खलु? धान्यं तु सुरक्षितम् अस्ति खलु? तव गुरुः उत्तमविद्यायाः दानं कृत्वा तुभ्यं लोकोपकारकं गृहस्थाश्रमं प्रवेष्टुम् अनुमतिं दत्तवान्। यतो हि तव गृहस्थाश्रमस्य कालः समुद्भूतः अस्ति। किं त्वं गुरोः आज्ञया उत स्वेच्छया अत्र समागतः? इति।

रघोः उदारवचनानि श्रुत्वा मृन्मयम् अर्घ्यपात्रं दृष्ट्वा च स्वस्य अर्थप्राप्तेः उद्देशस्य नैष्फल्येन हताशः कौत्सः वदयति यत्, हे राजन्! भवतः स्वामित्वे अस्माकं सर्वं कुशलम् अस्ति। पूज्यानां भक्तिः तव कुलपरम्परा अस्ति। तस्याः भक्त्याः आचरणेन त्वया पूर्वपुरुषाः अतिक्रमिताः। अहं याचकत्वेन कुसमये एव तव पार्श्वे समुपस्थितः। एष एव मे विषादः। त्वया तु स्वस्य सर्वं धनं दानत्वेन प्रदत्तम्, अतः अहम् अन्यत्र गुरुप्रयोजनं सिद्धं कर्तुं प्रयासं करिष्ये। यतो हि चातकोऽपि जलरहितेभ्यः जलदेभ्यः जलं न याचते इति। एवम् अभिधाय प्रस्थानोद्यते कौत्से राजा तं गमनात् निवार्य्य विनयपूर्वकम् अपृच्छत्, अयि वेदविदांवर! किं स्वरूपा ते गुरुदक्षिणा, किं वा तस्याः मानम् इति।

ततः कौत्सः सम्पूर्णां कथां श्रावयति। सः कथयति यत्, अहं महर्षेः सकाशात् विद्याः समधिगम्य दक्षिणार्थं गुरुम् अनुरुद्धवान्, महर्षिः अपि स्नेहाद् अवदत्, वत्स! ते दृढतया भक्त्या प्रीतोऽस्मि किं दक्षिणया? इति। तथाऽपि अहं तद्ग्रहणाय गुरुम् अत्यन्तम् उपरुद्धवान्। तदा सः रोषात् उक्तवान् यत्, त्वया मत्तः चतुर्दश विद्याः अधीताः, अतः मे विद्यया परिसङ्ख्यया चतुर्दशकोटिसुवर्णं दीयताम् इति। परन्तु भवान् केवलं नाममात्रम् एव राजा अस्ति। भवतां सम्पूर्णः कोषागारस्तु रिक्तः अस्ति, अतः मम कोऽपि उपरोधः अनुचतः भविष्यति इति। एवम् उक्त्वा कौत्सर्षिः प्रतिगन्तुम् उद्युक्तः द्वाराभिमुखी सन् चलितः। परन्तु रघुः तं गमनात् निवार्य्य पुनः तम् अकथयत् यत्, वेदविद्यापारगामी सः ब्राह्मणः गुरुदक्षिणार्थं रघुं शरणम् आगत्य अप्राप्तमनोरथः सन् अन्यं दातारं प्रतिपेदे इति मे अपवादस्य नवावतारो मा भूत्। हे भगवन्! होमाग्नित्रयशोभिते मे निर्मले प्रशस्ते अग्न्यगारे त्वं साक्षात् चतुर्थः वह्निरिव निवसन् दिनद्वयं दिनत्रयं वा प्रतीक्षस्व, यावदहं ते कार्यसाधनाय यत्नं करोमि इति।

सत्यशीलस्य रघोः तथा वचनेन सः कौत्सः परां प्रीतीम् अगच्छत्। रघुरपि सकलधनसङ्ग्रहात् वसुधां धनशून्याम् अवलोक्य कुबेरात् तद्देयं धनं बलाद् आहर्तुम् अचिन्तयत्। ततः धैर्यवान् रघुः प्रतिवेशिराजीव एव तस्य बलेन विजयस्य इच्छां कृत्वा शस्त्रैः युक्ते रथे रात्रौ सुप्तवान्। परन्तु कुबेरविजयकामनया सज्जं तं रघुं प्रातः साश्चर्याः तस्य कोषाध्यक्षाः सूचितवन्तः यत्, स्वामिन्! आकाशात् प्रभूता हरिण्यवृष्टिः कोषागारे न्यपतत् इति। रघोः सङ्कल्पं ज्ञात्वा कुबेरः रात्रौ एव तद्गृहे सुवर्णराशिम् अवर्षयत्। सुवर्णाचलस्य वज्रपातस्खलितं पादवमिव प्रकाशमानं तं सम्पूर्णमेव सुवर्णराशिं रघुः कौत्साय अयच्छत्। परन्तु कौत्सः गुरुदक्षिणयाः अतिरिक्तं धनं ग्रहीतुं न सज्जः आसीत्। रघुः अपि सर्वं धनं तस्मै दातुम् आग्रहशीलः आसीत्। ब्राह्मणस्य निःस्वार्थभावं रघोः च औदार्यं दृष्ट्वा सर्वेऽपि अयोध्यावासिनः साश्चर्यम् उभयोः साधुवादं कृतवन्तः।[२६] अथ तम् अकलितं स्वर्णराशिं रघुः उष्ट्रवडवासहस्रैः प्रेषितवान्। कौत्सोऽपि वाञ्छाधिकफललाभात् प्रहृष्टो भूत्वा प्रयाणकाले प्रणामानतशीर्षं तं नृपं करतलेन स्पृशन् अवदत् यत्, सदाचारप्रवृत्तो राजा यत् भूम्याः अभिमतार्थं लभते, न एतत् आश्चर्य्यम्। इदन्तु अत्यन्ताश्चर्यं यत्, भवान् अभीष्टं स्वर्गादपि लब्धवान्।[२७] सर्वर्द्धिसम्पन्नस्य ते किञ्चित् अलब्धं नास्ति। अत एव लब्धलाभाय त्वयि आशीर्वचनं वृथा एव। केवलम् इदमेव आशास्महे वयं यत्, भवान् सर्वगुणसम्पन्नं सुतं लभताम् इति। ततः कौत्सः स्वगन्तव्यं गतः।

अजोपाख्यानस्य आरम्भः[सम्पादयतु]

ब्राह्मणाशीर्वादेन अचिरमेव रघोः राजमहिषी गर्भवती अभवत्। ब्राह्मेमुहूर्ते स्वामिकार्तिकस्य समानः पुत्रः समुत्पन्नः। पिता ब्रह्मणः नाम्ना एव तस्य अजः इति नामकरणम् अकरोत्।[२८] यथा दीपात् उत्पादितः अपरो दीपः स्वोत्पादकात् पूर्वदीपात् स्वरूपतो किञ्चिदपि न भिद्यते, तथा स बालोऽपि गुणेन, रूपेण च स्वपितुः रघोः किञ्चिदपि न भिन्नः आसीत्। गुरोः विधिपूर्वकं विद्यार्जनं कृतवान् युवावस्थां प्राप्तः अजः विवाहयोग्यः अभवत्। अथ विदर्भदेशाधिपतिः भोजः स्वभगिन्याः स्वयंवरार्थम् अजम् आनयनाय स्वविश्वासपात्रं दूतं रघुसमीपे प्रेषितवान्। रघुः अपि ससैन्यं कुमारं भोजनगरीं प्रेषितवान्। मार्गे विश्रामाय स्थितस्य रघोः शिविरं केनचित् वनकरिणा आगतम्। सः मदत्वात् अनियन्त्रितः अजस्य सेनासु उत्पातम् अजनयत्। अतः वन्यः गजः अवध्यः इति मन्यमानः अजः अभ्यापतन्तम् अपि तं गजं न अवधीत्। परन्तु शरासनमिषदाकृष्य तं निवर्त्तयितुम् अयोमुखेन बाणेन तस्य कुम्भस्थले विघातम् अकरोत्। अजबाणेन विद्धमात्रः स गजः नागदेहं विहाय गगनविहारि तेजःसम्पन्नं दिव्यरूपं प्राप्तवान्। तद्दर्शनमात्रेण अजसैनिकाः आश्चर्ययुक्ताः अभूवन्। सः दिव्यरूपधारी स्वपरिचयं यच्छन् उक्तवान् यत्, अहं प्रियदर्शनस्य गन्धर्वस्य सुतः अस्मि। पुराहम् अभिमानात् महर्षिमतङ्गं तिरस्कृतवान्, ततश्च तस्य मुनेः शापात् गजत्वं प्राप्तवान्। यदाहं करुणावचनैः तं प्रार्थितवान्, तदा सः मतङ्गः स्वभावसिद्धां करुणां प्रदर्श्य उक्तवान् यत्, इक्ष्वाकुवंशोत्पन्नः अजः यदा लोहाग्रेण बाणेन ते गण्डस्थलं भेत्स्यति, तदा त्वं शापविमुक्तः पुनरपि स्वकीयं शरीरं लप्स्यसे इति। तदाप्रभृति सुचिरं भवदागमनं प्रतीक्षमाणोऽहम् अत्र स्थितः। भवतः प्रसादात् अद्य तस्मात् शापात् निर्मुक्तोऽस्मि। यदि अहं प्रत्युपकारं न करोमि, तर्हि मे स्वस्थानप्राप्तिः वृथा स्यात् इति। एवम् उक्त्वा सः गन्धर्वसुतः अजाय सम्मोहनं नाम गन्धर्वास्त्रम् अयच्छत्, येन अजः शत्रुवधं विनैव जयश्रियं नेतुं शक्नुयात्।[२९] ततः अजः नर्मदायाः पवित्रं जलमाचम्य उदङ्मुखो भूत्वा तस्मात् प्रयोगसंहारसहितम् अस्त्रं स्वीकृतवान्। एवं दैवयोगेन मित्रं प्राप्तवन्तौ गन्धर्वाजौ स्वगन्तव्यम् अगच्छताम्। गन्धर्वसुतः कुबेरस्य उद्यानं प्रति गतः, अजश्च विदर्भदेशं प्रति यात्राम् आरभत।

यदा विदर्भप्रदेशं प्राप्तवान् अजः नगरस्य समीपे प्राप्तवान्, तदा विदर्भराजः तस्य स्वागताय तत्र सम्प्राप्तः। भोजराजः स्वयं पुरो गत्वा अजं नगराभ्यन्तरम् आनीय प्रासादं प्रति अनयत्। रात्रौ विदर्भराजस्य आतिथ्यं स्वीकृतवान् अजः सूतपुत्राणां सुतितमङ्गलैः जागरितः सन् प्रातःकृत्यं यथाविधिं कृत्वा शृङ्गारसम्पन्नः सन् स्वयंवरसभाम् अगच्छत्।

षष्ठमसर्गः[सम्पादयतु]

यदा सभायाम् उपस्थिताः नृपाः अजं दृष्टवन्तः, तदा तेषां मनांसि इन्दुमतीनिराशानि अभूवन्। ततः सः बहुमूल्यमतिश्रेष्ठं सुवर्णसिंहासनम् अधिष्ठितवान्। ततः भोजस्य भगिनी इन्दुमती नृपतीनां समीपे आगता। तस्याः सौन्दर्यातिशयं दृष्ट्वा सर्वे भूपाः अन्तःकरणैः तस्यां निपेतने केवलं शरीरैः आसनेषु संस्थिताः आसन्। पुंवत् भाषिणी द्वारपालिनी सुनन्दा कन्यां क्रमशः मगध-अङ्ग-अवन्ति-अनूप-शूरसेन-कलिङ्ग-पाण्ड्य-देशीयानां नृपाणां परिचयं कारयन्ती अन्ते अजस्य समीपं ताम् अनयत्। कुमारी इन्दुमती तस्य अजस्य दर्शनं कृत्वा अग्रे चलनं स्थगितवती।

पूर्वापरक्रमं ज्ञातवती अर्थात् अजं प्रति इन्दुमत्याः भावं ज्ञातवती सा सुनन्दा इन्दुमतीम् उद्दिश्य अजस्य सविस्तारं (श्लो.७१-७९) परिचयम् आरब्धवती। अजस्य वंशपरम्परां श्रुत्वा तस्य च कमनीयं रूपं दृष्ट्वा इन्दुमती मनसा अजं स्वीकृवती। परन्तु लज्जया किमपि वक्तुं न शक्तवती। अतः तस्याः परिहासं कुर्वन्ती सुनन्दा उक्तवती यत्, हे आर्ये! अग्रे चलावः किम्? इति। तस्याः प्रश्नं श्रुत्वा असूयापूर्वकं वक्रदृष्टिं कृत्वा वधूः इन्दूमती ताम् नेत्रसङ्केतं कृतवती। ततः करभपमोरूः सा इन्दुमती मङ्गलचूर्णेन रक्तगुणमालां मूर्धिधरं प्रेमाणम् इव सुनन्दायाः हस्ताभ्यां अजस्य गलप्रदेशे यथास्थानां सक्तं कारितवती। अतः राजा प्रसन्नः अभवत्, परन्तु अन्ये राजानः रुष्टाः अभूवन्।

सप्तमसर्गः[सम्पादयतु]

अथ विदर्भाधिपतिः अजसहितां स्वभगिनीम् इन्दुमतीं नीत्वा पुरं प्रति अगच्छत्। विफलमनोरथत्वात् निराशाः नृपाः शिबिरोन्मुखाः अभूवन्। स्वयंवरकाले इन्द्राण्याः पूजनं भवति, अतः तत्र विघ्नोत्पादनस्य धृष्टतां केऽपि राजानः अकृत्वा शान्त्या अतिष्ठन्। राजमार्गे गजारूढयोः नवदम्पत्योः दर्शनाय नगरजनेषु अत्यन्तः उत्साहः आसीत्। कुतूहलवशात् सर्वेऽपि स्वस्य कार्यं त्यक्त्वा दर्शनाय लालायिताः आसन्। एवं नगरजनानां सत्कारं प्राप्तवन्तः अजादयः प्रासादं प्राप्तवन्तः। भोजराजेन रत्नसिंहासनारूढस्य अजस्य मधुपर्कार्घ्यादिना स्वागतं कृत्वा तस्मै वस्त्रद्वयं (धौतवस्त्रम्, उपवस्त्रं च) दत्तम्। ततः विनीतैः अवरोधरक्षैः सः इन्दुमत्याः पार्श्वे नीतः। तत्र भोजनृपस्य पूजितः अग्नितुल्यः पुरोहितः तस्मिन् स्थाने घृतादिभिः वह्निं हुत्वा तमेवाग्निं विवाहकर्मणि साक्षिणं कृत्वा वधूकुमारयोः विवाहम् अकारयत्। विवाहोत्तरं भोजः अन्येषां नृपतीनां पृथक् सत्कारार्थम् अधिकारिणः आदिष्टवान्। विकारान् हृदि गोपयन्तः सन्तोषं प्रदर्शयन्तः ते राजानः विदर्भराजस्य आज्ञां प्राप्य स्वगन्तव्यार्थं निर्गताः। परन्तु पूर्वमेव दुर्गोष्ठ्या अजस्य मार्गबाधितसङ्कल्पकृताः ते राजानः इन्दुमत्याः अपहरणं कर्तुम् अजस्य मार्गम् अवरोधयन्। पूर्वमेव ते राजानः रघोः दिग्वजये गृहीतधने रघौ प्ररूढवैराः आसन्। अतः ते तत्पुत्रस्य अजस्य स्त्रीरत्नप्राप्तिं सोढुं न शक्तवन्तः।

इन्दुमत्याः अपहरणार्थम् आगतैः राजभिः सह अजस्य भयङ्करं युद्धम् अभवत्। ततः सः प्रियंवदनामकेन गन्धर्वेण प्रदत्तस्य सम्मोहननामकस्य गन्धर्वास्त्रस्य प्रयोगम् अकरोत्।[३०] तस्य अस्त्रस्य प्रहारेण सर्वे राजानः निद्राधीनाः अभूवन्। सर्वेषां राज्ञां ध्वजेषु "अधुना तु रघुपुत्रः अजः यूष्मभ्यं यशः एव अनयत्, परन्तु जीवनदानम् अयच्छत्" एषः सन्देशः रक्तलिप्तबाणानाम् अग्रभागैः लेखितः अजेन। ततः सवधूः अजः अयोध्यां प्राप्तवान्। तस्य आगमनात् पूर्वमेव रघुः मार्गजातस्य युद्धस्य विवरणं ज्ञातवान् आसीत्। अतः प्रशंसनीयस्त्रीयुक्तस्य अजस्य स्वागतं कृत्वा तस्य अभिनन्दनम् अकरोत्। ततः मुक्तीच्छुकः रघुः अजाय राजभारं दत्त्वा वानप्रस्थाश्रमं प्रविष्टः (वनं गतः)।

अष्टमसर्गः[सम्पादयतु]

राजसुताः यद्राज्यं विषप्रयोगादिनिषिद्धोपचारैः अपि स्वाधीनं कर्तुं यतते हि स्वतः सभागतं, तद्राज्यम् अजः पितुः आज्ञया स्वीकरोति। वसिष्ठः अजस्य राज्याभिषेकं च कृतवान्। अजः अयोध्याधीषः अभवत्, ततः रघुः सन्यस्तधर्मस्य अनुपालनाय राजप्रासादं त्यक्तुम् उद्यतः। परन्तु अजः प्रार्थनां कृत्वा तस्य गमनं वारयितवान्। रघुः अपि स्वपुत्रस्य इच्छापूर्त्यै प्रासादे न्यवसत् परन्तु कदापि राजलक्ष्याः उपभोगं नाकरोत्।[३१] कालान्तरे रघुः योगसमाधिना परमात्मानं प्राप्तवान्।[३२] अजः पितुः देहोत्सर्गोत्तरं अग्निसंस्काररहिताम् अन्त्येष्टिं संन्यासिभिः सह अकरोत्। कालान्तरे इन्दुमत्याः गर्भात् पुत्रोत्पत्तिना अजः पिता अभवत्। सूर्यसमानस्य यशोयुक्तस्य तस्य बालकस्य नामकरणं दशरथः अभवत्।[३३]

सुपुत्रवान् सः अजः कदाचित् इन्दुमत्या सह नगरोपवने अमरावत्युपकण्ठवने विहारं कुर्वाणः आसीत्। तस्मिन्नेव समये आकाशमार्गेण नारदः गच्छन्नासीत्। तस्य नारदस्य वीणायाः अग्रे निवेशितां दिव्यैः पुष्पैः रचितां मालां वेगवान् पवनः अनयत्। सा दिव्यमाला इन्दुमत्याः स्तनयोः अग्रभागे पतिता। तत्क्षणं सा प्राणान् अत्यजत्। आत्मविहीनं इन्दुमत्याः शरीरं अजस्योपरि अपतत्। अजोऽपि मूर्च्छितः अभवत्। राज्ञः मूर्च्छा तु व्यजनादिसाधनैः दूर्यभवत्। परन्तु औषध्युपायैः अपि इन्दुमत्याः रक्षा नाभवत्। यतो हि तस्मात् पूर्वमेव तस्याः देहः आत्मविहीनः जातः आसीत्। अत्र कालिदासः कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति।

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।

प्रतिक्रारविधानमायुषः सति शेषे हि फलाय कल्पते।।[३४]

अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति। पश्चाद् सः मृत्योः अचिन्तनीयं साधनम् अपि अजद्वारा वर्णयति।

कुसमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि।

न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः।।[३५]

अर्थात् पुष्पाण्यपि शरीरसंसर्गात् आयुरपहर्तुं प्रभवन्ति। यदि हन्त हन्तुम् इच्छतः देवस्य पुष्पं साधनं भवितुम् अर्हति, तर्हि अन्यवस्तु तु निश्चयेन भवेदिति। एवम् अजः इन्दुमत्याः पार्थिवं स्वक्रोडे संस्थाप्य बहुधा विपालम् अकरोत्। ततः इन्दुमत्याः अन्तिमक्रियोत्तरम् अजः केवलं नाममात्रेण जीवितः दरीदृश्यते स्म।[३६] अयोध्याधिपतिं शोकमग्नं दृष्ट्वा यज्ञदीक्षितः विशिष्ठः स्वशिष्यम् अजस्य शोकं भङ्गयितुम् प्रैषयत्।

सः वसिष्ठशिष्यः अजम् उक्तवान् यत्, हे सदाचारशील! सूक्ष्मसन्देशपदा तस्य वसिष्ठस्य वाङ्मयि विद्यते। हे प्रख्यातधैर्यातिशय! तां भारतीं शृणु। एनां वाचं धर्तुं योग्योऽसि त्वम्। त्रिकालज्ञः सः वसिष्ठेन ज्ञानदृष्ट्या यत् दृष्टं तत् शृणु इति। वसिष्ठर्षिणा सन्देशः प्रेषितः अस्ति यत्, पूर्वकाले तीव्रं तपश्चरतः तृणबिन्धु-नामकात् कस्माद् ऋषेः भीतः शक्रः तपोविनाशिनां हरिणीं नाम देवाङ्गनाम् अस्मै राजर्षये प्रेरितवान्। सः मुनिः तपोविघ्नक्रोधेन प्रकाशितमनोहरविलासां ताम् अप्सरसं मर्त्यलोके मनुष्यस्त्री भव इति शापम् अयच्छत्। तदा सा अप्सरा इन्द्रस्य पराधीना अस्मि इत्युक्त्वा ऋषेः शरणं गत्वा क्षमायाचनाम् अकरोत्। ततः देवपुष्पस्य दर्शनं यावत् त्वं मृत्युलोके निवशिष्यसि इति सः मुनिः अकथयत्। क्रथकैशिकवंशस्य कन्या सा हरिणी दीर्घकालं यावत् तव राजमहिषी आसीत्। शापनिवृत्त्यै पुष्पमालां प्राप्य सा देहम् अत्यजत्। अतः तस्याः देहत्यागस्य शोकः व्यर्थः वर्तते। प्राणिभ्यः विपत्तयः भवन्त्येव। अतः त्वं राजकार्यं पश्य। राज्ञः पृथिव्या एव पत्नीयुक्ताः भवन्ति। ऐश्वरप्राप्तौ सति निन्दादुःखं परिहरता सत्यपि मदकारणे अमाद्यता त्वया यत् अध्यात्मप्रचुरं ज्ञानं प्रकाशितम् आसीत्, तच्छ्रुतं मनःसन्तापे प्राप्ते सति धैर्येण पुनः प्रकाश्यताम्। पण्डितेन सर्वास्ववस्थासु अपि धीरेण भवितव्यम् [३७]। रुदनेन न च मरणोत्तरं परलोके अपि त्वं तां प्राप्तुं न शक्नोषि। यतो हि लोकान्तरं गतानां जीवानां गतिः स्वकर्मानुसारं पृथक् पृथक् भवति [३८]। मृतकस्य पृष्ठे निरन्तररोदनं प्रेतं दुःखीं करोति इति। वसिष्ठर्षेः सन्देशं श्रुत्वा "एवमेव भवतु" इत्युक्त्वा वसिष्ठशिष्यं विसृष्टवान् सः अजः।

अष्टवर्षं यावत् पुत्रस्य पालनं कृत्वा अजः स्वकर्तव्यम् अवहत्। परन्तु प्रियपत्न्याः वियोगे अनन्तो गत्वा प्राणान् त्यक्तुम् ऐच्छत्।[३९] अतः तेन स्वपुत्राय रक्षणविधेः शास्त्रानुसारम् उपदेशः प्रदत्तः, ततश्च शरीरत्यागस्य इच्छया अन्नत्यागस्य व्रतं स्वीकृतम्। ततः अजः गङ्गा-सरयूसङ्गमे तीर्थे शरीरत्यागम् अकरोत्।

नवमसर्गः[सम्पादयतु]

अजस्य देहोत्सर्गोत्तरं दशरथः कोसलाधिपतिः अभवत्। तस्य अनेकाः पत्न्यः आसन्। परन्तु तिस्रः पत्न्यः प्रमुखाः आसन्। ताः क्रमेण कौशल्या, कैकेयी, सुमित्रा च। एकदा राजा आखेटाय वनं प्रति अगच्छत्। सः कूपस्य समीपे पशोः जलपानार्थम् आगमनस्य प्रतीक्षां कुर्वन् धनुष्काण्डैः सज्जः स्थितः। समये व्यतीते तत्र मृगाणां कश्चन समूहः सम्प्राप्तः। अतः अश्वारूढः सः दशरथः तस्य समूहं प्रति वेगेन गतवान्। ततः सः हरिणस्य उपरि शरसन्धानम् अकरोत्। परन्तु तस्य सहचरी हरणी बाणस्य सम्मुखे उपस्थिता। अतः दयया सः बाणं नात्यजत्। ततः सः शूकराणां समूहस्य पृष्ठे अगच्छत्। एवं विभिन्नतया आखेटं कुर्वन् सः रात्रौ वनस्थे कुटुरे एव न्यवसत्। द्वितीये दिने सः पुनः आखेटं कुर्वन् तमसानद्याः तटं प्राप्तवान्। तस्याः तमसानद्याः जले घटपूरणात् कश्चन ध्वनिः समुत्पन्नः। सः ध्वनिः हस्तिना जलसंयोगे उद्भूतः इति मत्वा दशरथः शब्दपातिनं (शब्दभेदकं) बाणम् अत्यजत्।

दशरथस्य ऋषिकुमारस्य उपरि शरप्रहारः

नीतिविहीनं तस्य गजाक्रमणकार्यं विपरीतफलदायि अभवत्। युद्धभूमौ अपि अनावश्यकं हस्तिनां हत्या न कर्तव्या इति शास्त्रवचनस्य तेन उल्लङ्घनं कृत्वा बाणं त्यक्तम्।[४०] परन्तु बाणत्यागस्य दिशः "हा तात!" इति चित्कारः समुत्पन्नः। तं चित्कारं श्रुत्वा दशरथः हतोत्साही अभवत्। तस्य चित्कारस्य अनुसरणं कुर्वन् सः अग्रे अचलत्। तत्र तेन शरेण आहतः घटधारी मुनिकुमारः दृष्टः। पीडया विह्वलः सः मुनिकुमारः स्खलितशब्दैः स्वस्य परिचयं दशरथाय अयचछत्। सः उक्तवान् यत्, मम पिता वैश्यः अस्ति। मम माता च शूद्रपुत्री। तयोः अहम् एक एव पुत्रः। तौ समीपे एव स्तः। कृपया मां तत्र नयतु इति। ततः दशरथमुनिकुमारौ वृद्धदम्पत्योः समीपे उपस्थितौ। तत्र दशरथः गजं मत्वा प्रहारं कृतवान् इति स्वस्य दोषम् अङ्गीकृतवान्। तौ मुनिदम्पती अपि बहु विलापम् अकुरुताम्। अनन्तो गत्वा मुनिकुमारस्य शरीरे स्थितं बाणं तस्य पित्रा निष्कासितम्। बाणनिष्कासनोत्तरं मुनिकुमारस्य मृत्युः अभवत्। ततः पाणौ जलं गृहीत्वा वृद्धमुनिः दशरथाय शापम् अयच्छत्। सः उक्तवान् यत्, यथा अहं वृद्धावस्थायां पुत्रशोकेन प्राणान् त्यजामि, तथैव तव अपि पुत्रवियोगात् मृत्युः भविष्यति इति। शापं श्रुत्वा दशरथः उक्तवान् यत्, एतावता अहं पुत्रसुखं न प्राप्तवान्। भवतः वचनं निश्चयेन सत्यं भविष्यति, येन अहं पुत्रसुखं प्राप्स्यामि। अतः अनेन शापेन भवता तु मयि अनुग्रहः एव कृतः अस्ति इति।[४१]

ततः दशरथः मुनिं पृष्टवान् यत्, अहं भवतः कृते किं कर्तुं शक्नोमि इति। पुत्रस्य पृष्ठे मुनिः सपत्नी देहत्यागस्य इच्छां प्रागटयत्। अतः तेन एधानकाष्ठानि याचितानि। ततः मुनेः आज्ञायाः पालनं कृत्वा शापं स्वहृदये निगुह्य राजधानीं प्रत्यगच्छत् दशरथः।

दशमसर्गः[सम्पादयतु]

रामजन्मः

पृथ्वीं पालयतः दशरथस्य दशसहस्त्रवर्षाणि व्यतीतानि। परन्तु सः पितृऋणमुक्तये पुत्रं न प्राप्तवान्। अतः सः शोकान्धकारे निमग्नः आसीत्। अतः ऋष्यशृङ्गादयः महर्षयः याज्ञिकाः जितान्तःकरणाः सन्तः सुतार्थिनः तस्य दशरथस्य सुतनिमित्ताम् इष्टिम् (पुत्रेष्टिम्) अकुर्वन्। तस्मिन्नेव समये रावणस्य अत्याचारात् पीडिताः देवाः भगवतः विष्णोः शरणं गताः। तत्र तैः परमात्मनः कथागानं कृतम्। ततः देवाः राक्षसानाम् उत्पातस्य विषये विवरणम् अकुर्वन्। ततः भगवान् विष्णुः उक्तवान् यत्, हे देवाः! याज्ञिकैः विधिवदुपहृतं हविर्भागं मायावद्भिः निशाचरैः अनास्वादितं शीघ्रं हि पुनर्ग्रहीष्यध्वे। देवानां मार्गे विमानैश्चरनतः) तोयदावरणतत्पराः पुण्यशालाः दशाननयानावलोकभयं त्यजन्तु। ततः विष्णुः अन्तर्धानः अभवत्।

ततः तस्य दशरथनृपस्य पुत्रकामेष्टेः अवसाने सति अग्नेः कश्चन पुरुषः ऋत्विजाम् आश्चर्यसहितः प्रकटितः। तस्य दिव्यपुरुषस्य हस्ते सुवणपात्रपूरितं पायसम् आसीत्। तत् पायसपूर्णं हेमपांत्रं सः दिव्यपुरुषः दशराथाय अयच्छत्। दशरथः तस्य पायसस्य विभाजनं कृत्वा द्वयोः राजमहिष्योः मध्ये व्यभाजयत्। तस्य नृपस्य कौसल्या मान्या कैकेयी प्रिया आसीत्। अतः नृपः सुमित्रां कौसल्याकैकयीभ्यां भागदानेन मानिताम् इच्छति स्म। उचितज्ञस्य महीपतेः दशरथस्य अभिप्रायज्ञे ते उभे कौसल्याकैकय्यौ चरोरर्धार्धभागाभ्यां तस्यै सुमित्रियै अयच्छताम्। एवं ताभिः तिसृभिः राजमहिषीभिः यज्ञपुरुषेण प्रदत्तः पायसः स्वीकृतः। कालान्तरे ताः गर्भम् अधरन्त। ताः सर्वाः राजपत्न्यः एकदा रात्रौ स्वप्नेषु शङ्ख-खड्ग-गदा-धनुश्चक्रलाञ्छतमूर्तिभिः खर्वैः पुरुषैः रक्षितस्वरूपं ददृशुः।[४२] पत्नीनां स्वप्नस्य विषये ज्ञात्वा दशरथः आनन्दितः अभवत्।

अथ दशरथस्य पतिव्रता ज्येष्ठमहिषी कौसल्या प्रसूतिकाले रात्रौ अन्धकारस्य नाशकस्य प्रकाशस्य कृते औषधिसमानं पुत्रं प्राप्तवती। मनोहारेण शरीरेण प्रेरितो वसिष्ठः दशरथस्य सुतस्य लोकानां प्रथममङ्गलं सुलक्षणं रामः इति नामधेयम् अकरोत्। कैकेय्याः भरतः अभवत्। सुमित्रा लक्ष्मण-शत्रुघ्नौ अजनयत्। शनैः शनैः ते कुमाराः वृद्धिङ्गताः। तेषु कुमारेषु विरोधानाम् अभावः आसीत्।[४३] तुल्येऽपि सौभ्रात्रे यथोभौ रामलक्ष्मणौ प्रेम्णा द्न्द्वम् आस्तां तथा भरतशत्रुघ्नौ अपि प्रीत्या द्वौ द्वौ साहचर्येण अभिव्यक्तौ आस्ताम्।

एकादशः सर्गः[सम्पादयतु]

रामलक्ष्मणौ विश्वामित्रस्य शुश्रूषायाम्
ताडकावधम्

विश्वामित्रः दशरथात् लक्षणसहितं रामम् अयाचत्,[४४] यतो हि यज्ञस्य विघ्नोच्चाटनाय तस्य आवश्यकता आसीत्। कष्टेन अपि दशरथः लक्ष्मणसहितं रामं विश्वामित्रेण सह प्रैषयत्। पितुः आज्ञां, मातॄणाम् आशीर्वादान् च प्राप्य तौ कुमारौ ऋषेः अनुगमनम् अकुरुताम्। मार्गे विश्वामित्रेण ताडकाकथा श्राविता आसीत्। तया ताडकया निर्जिनकृते मार्गे विश्वमित्रसहितौ तौ कुमारौ अचलताम्।[४५] तस्मिन् मार्गे एव ताडका तेषां सम्मुखे उपस्थिता। तीव्रवेगेण वृक्षान् कम्पयन्ती मृतकचीवरवसा शब्देन उग्रया तया ताडकया श्मशानोत्थया वात्येव भरताग्रजस्य उपरि आक्रमणं कृतम्। यष्टिवत् एकां भुजाम् उपरि उन्नितवतीं, मनुष्याणाम् आन्त्रमेखलां कटिप्रदेशे धृतवतीं च ताडकां दृष्ट्वा नारीवधनिमित्तां जुगुप्सां शरेण सह रामः त्यक्तवान्। (यद्यपि नारी अवध्या। परन्तु आततायिनी न।) रामशरेण तस्याः हृदयं भेदितम्। एवं शरभिन्नहृदया सा भूमौ निपतिता।

ततः रामचन्द्रः मुनेः अनुकरणं कुर्वन् वामनाश्रमं प्राप्तवान्। पूर्वजन्मनि वामनत्वेन जन्मधृतः रामः पूर्वजन्मनः चेष्टां न स्मृतवान् अपि उत्कण्ठितः आसीत्।[४६] ततः सर्वे विश्वामित्रस्य आश्रमं प्राप्तवन्तः। तत्र शिष्येण यज्ञस्य सज्जा कृता आसीत्। एवं विश्वामित्रः यज्ञरतः अभवत्, तौ च दशरथकुमारौ यज्ञरक्षायै सशस्त्रम् इतस्ततः अटन्तौ आस्ताम्। अथ बन्धुजीवस्य पुष्पस्थूलैः रुधिरकरणैः उपहतां वेदिं वीक्ष्य त्यक्तव्यापाराणां स्रुचां त्यक्तन्तः ऋषयः आश्चर्यचकिताः अभूवन्। शीघ्रं हि शरसन्धानाय सज्जः रामः आकाशे राक्षससेनाम् अपश्यत्। तस्यां सेनायां यौ मुख्यौ आस्तां, तयोः रामचन्द्रेण वाय्वस्त्रस्य सन्धानं कृतम्। तेन शरेण ताडकायाः पुत्रं सः अमारयत्। ततः सुबाहुनामकः अपरः राक्षसः आसीत्, स्वमायया इतस्ततः अधावत्। परन्तु श्रीरामः तीक्ष्णबाणैः तस्यापि शरीरस्य अङ्गानि अच्छेदयत्। ततः विश्वामित्रस्य यज्ञः निर्विघ्नेन पूर्णः अभवत्।[४७]

अहल्योद्धारः

यज्ञकर्ता मिथिलानरेशः जनकः विश्वामित्रम् आहूतवान्। अतः विश्वामित्रः रामलक्ष्मणाभ्यां सह जनकपुरीम् अगच्छत्। मार्गे सन्ध्यायाः काले गौतमस्य आश्रमस्य कस्यचित् वृक्षस्य अधः सर्वैः विश्रामः कृतः। तत्र एव गौतमर्षेः पत्नी इन्द्रस्य क्षणमात्रेण भार्या अभवत्। इन्द्रेण अहल्यया सह सङ्गमः कृतः आसीत्, अतः गौतमः अहल्यायै शापं दत्तवान् आसीत् यत्, त्वं शिला भव। रामचन्द्रस्य पादरजैः तव उद्धारो भविष्यति इति। अतः शिलारूपेण स्थिता सा अहल्या रामस्य चरणरजं स्पृष्टवती स्त्रीसुन्दरशरीरं पुनः प्राप्तवती। विश्रामोत्तरं ते यात्रां कृत्वा मिथिलानगरीं प्राप्तवन्तः।

विश्वामित्रस्य आगमनसमाचारान् प्राप्य जनकः स्वागतार्थं समागतः। जनकः तयोः बालकयोः हस्ते धनुष्काण्डं दृष्ट्वा विश्वामित्रम् अपृच्छत् यत्, हे मुने! बृहद्भिः महागजैः अपि दुस्साध्यं यत्कर्म, तत्र कर्मणि बालगजस्य व्यर्थव्यापारचेष्टितं साहसमनुमन्तुमहं नोत्सहे। तयोः स्कन्धयोः भारयुक्तं धनुः वर्तते इति। जनकं प्रत्युत्तरं यच्छन् विश्वामित्रः उक्तवान् यत्, अयं रामः बलेन श्रयताम् अथवा गहिरा सारवर्णनयालं किन्तु अशनिः पर्वत इव धनुष्येव तव दृष्टसारो भविष्यति। ततः रामस्य बलस्योपरि विश्वस्तः सः जनकः सर्वान् नीत्वा राजभवनं प्रविष्टः। ततः सः स्वसेवकेभ्यः धनुः आनेतुम् आज्ञापयत्।

शिवः येन धनुषा यज्ञमृगम् अनुगच्छन्तं बाणं त्यक्तवान् आसीत्, तत् धनुः रामः प्रसुप्तसर्पेन्द्र इव भयङ्करं गृहीतवान्। रामः तत् धनुः सहजतया उत्थापितवान्। तेन रामेण अतिमात्रकर्षणात् भज्यमानं वज्रवद्भीषणशब्दं धनुः दृढक्रोधाय परशुरामाय क्षत्रवंशं पुनरुद्धतं ज्ञापितवत्। अथ जनकः शिवचापे दृष्टबलं धनुर्भङ्गरूपं वीर्यमूल्यम् अभिनन्द्य रामाय देवयजनसम्भवां सीतां साक्षात्लक्ष्मीमिव अर्प्रितवान्। जनकः ब्राह्मणमाध्यमेन दशरथस्य पार्श्वे निवेदनं प्रेषितवान् यत्, कृपया निमेः कुलकन्यां सीतां स्वपुत्रवधूत्वेन अङ्गीकरोतु इति। दशरथोऽपि रामतुल्यायाः कन्यायाः अन्वेषणे आसीत्। अतः सः झटिति अङ्ग्यकरोत्। ततः ससैन्यं जनकपुरीं प्रति प्रस्थानम् अकरोत्। ततः ताभ्यां राजभ्यां तयोः विवाहः विस्तारितः। अर्थात् न केवलं रामसीतयोः विवाहः अपि तु चतुर्णां भ्रातॄणां विवाहस्य आयोजनं कृतम्।[४८]

धनुर्भङ्गः

रामः सीतां परिणीतवान्, लक्ष्मणः तदनुजाम् ऊर्मिलाम् उदवहत् च। भरतशत्रुघ्नौ च जनकानुजस्य कुशध्वजस्य कन्यके माण्डवीं, श्रुतकीर्तिं च उदवहताम्। एवं चतुर्णां पुत्राणां विवाहोत्तरं दशरथः अयोध्यां न्यवर्तत। मार्गस्य वायुः प्रतिकूलः आसीत्। तत्कालम् एव कश्चन तेजस्समूहः सेनायाः पुरतः समुपस्थितः। तेजसा अक्षिणी दर्शनसामर्थ्यं त्यक्तवती। परन्तु शनैः शनैः तस्मात् तेजसः पुरुषाकारः प्रत्यक्षोऽभवत्। ततः परशुरामस्य वर्णनं समायाति। सेनायाः सम्मुखं क्षत्रवंशहन्तारं परशुरामं दृष्ट्वा दशरथः दुःखितः भवति।[४९] सः परशुरामः अर्घ्यम् अर्घ्यम् इति (अर्घ्यं स्वीकरोतु) वदन्तं दशरथम् अदृष्ट्वा रामस्य सम्मुखम् एव क्रोधदृष्ट्या अपश्यत्। ततः युद्धतत्परः सः रामम् उक्तवान् यत्, क्षत्रजातिः मे पितृवधरूपेण अपकारेण द्विपेमी, तत् क्षत्रकुलम् एकविंशतिवारं निहत्य शमं गतोऽस्मि। तथापि सुप्तभुजगो दण्डघट्टनादिव तव पराक्रमस्य श्रवणात् कोपं प्रापितोऽस्मि। अन्यैः नृपैः पूर्वम् अनमितमस्य जनकस्य धनुः त्वं क्षतवान् खलु तद्धनुर्भग्नम् आकर्ण्य भवता आत्मनो वीर्यशृङ्गं भग्नम् इव मन्ये। अन्यस्मिन् काले जगति राम इत्ययं शब्द उच्चारितः सन्माम् एव आङ्गात्, अधुना त्वय्युदयोन्मुखे सति विपरीतवृत्तिः स शब्दो मे लज्जां करोति। अहं द्वौ एव रिपुत्वेन अङ्गीकरोमि। प्रथमः कामधेनोः हर्ता सहस्रार्जुनः, मम कीर्तिहारकं त्वं च।[५०] किं च शैवं धनुः विष्णोः बलेन हृतसारं च जान। तत्र तव कोऽपि परामक्रमः न। तस्मात् मदीयमिदं कार्मुकं ज्या संयोज्य सशरं यथा तथा व्या विकृष्यतां, रणः तावदास्तां धनुष्कर्षणे अपि अहं समबाहुबलेन त्वया जितः। यदि मम परशुधारया भीतोऽसि, तर्हि अभयप्रार्थनां कुरु इति। रौद्ररूपधारिणः परशुरामेण एवम् उक्ते सति सस्मितं किमपि न उक्तवान् श्रीरामः परशुरामस्य धनुः एव स्वीकृतवान्। एवं पूर्वजन्मनः अवतारस्य धनुना युक्तः सः रामः धनोः प्रत्यञ्चाम् अपि अध्यारोपयत्। ततः तस्मिन् धनुंषि अमोघास्त्रम् आरोप्य रामः उक्तवान् यत्, पराजिते सत्यपि त्वयि विप्रत्वात् निर्दयं प्रहारं कर्तुं न शक्नोमि। किन्तु अनेन बाणेन ते गमनं (गतिं) हिन्मि? वा यज्ञार्जितं स्वर्गं हन्मि? इति।

शान्तचित्तः परशुरामः श्रीरामं प्रति विनम्रभावेन उक्तवान् यत्, तत्त्वतः त्वां पुरातनं पुरुषं वेद्मि, किन्तु भुवम् अवतीर्णस्य तव वैष्णवं तेजो द्रष्टुम् इच्छुना मय कोपितः कृतोऽसि।[५१] पितृवैरिणः कोपेन भस्मीकुर्वतः ससागरां भूमिं पात्राधीनां कृतवतः कृतकृत्यस्य मे परमपुरुषेण त्वया कृतः पराजयोऽपि श्लाघ्यः एव। तस्माद् हे मतिमतां वर! पवित्रतीर्थगमनाय ईप्सितां मे गतिं पालय, किन्तु स्वर्गपद्धतिः भोगनिःस्पृहं मां न पीडयिष्यति इति। रामः अपि तथा अङ्गीकृतवान्। इन्द्रदिङ्मुखः बाणं त्यक्तवान्। येन वर्षाः अभूवन्। रामचन्द्रोऽपि क्षम्यताम् इति वदन् भार्गवस्य चरणौ प्रणनाम। तथा हि विक्रमवतां बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये भवति।

राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत्।

निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये।।[५२]

"अहं गच्छामि, सुरकार्यं सम्पादयिष्यतरते विघ्नाभावोऽस्तु" इत्युक्त्वा परशुरामः अन्तर्धानः अभवत्। परशुरामस्य गमनोत्तरं रामस्य क्षेमेण हर्षितः दशरथः तस्य आलिङ्गनम् अकोरत्। ततः यात्रां कृत्वा दशरथः सर्वैः सह अयोध्यां प्रविष्टवान्।

द्वादशः सर्गः[सम्पादयतु]

कोपभवनस्य दृश्यम्

आत्मनः वृद्धावस्थां दृष्ट्वा राजा दशरथः नागरिकाणां प्रियस्य रामस्य राज्याभिषेकस्य चर्चाम् आरभत। परन्तु क्रूरनिश्चयकृतवत्याः कैकेय्याः कारणेन रामस्य राज्याभिषेकं सः स्थगयितवान्। अतिक्रोधशीला सा कैकेयी पुरा पतिना आश्वासनत्वेन दत्तयोः वरयोः याचनाम् अकरोत्। प्रथमे वरे सा रामस्य चतुर्दशवर्षाणां वनवासं याचयित्वा द्वितीयवरत्वेन स्वपुत्रस्य भरतस्य कृते राज्यश्रीम् ऐप्सत्। रामः प्रसन्नचित्तेन पितुः आज्ञायाः पालनं कर्तुं वनवासाय सज्जः अभवत्।[५३] ततः रामः सीतालक्ष्मणयोः सह दण्डकारण्यम् अगच्छत्। पुत्रवियोगेन दुःखितः दशरथः अपि स्वस्य कर्मणा प्राप्तं शापं [५४] स्मृत्वा शरीरत्यागेन एव प्रायश्चितं भविष्यति इति विचन्त्य देहत्याम् अकरोत्।[५५]

अयोध्याधिपतेः मृत्योः अनन्तरं मातुलस्य गृहे निवसतः भरतस्य मन्त्रिभिः आह्वाहनं कृतम्। यदा दशरथस्य मृत्योः कारणं पुत्रवियोगः इति भरतः अजानत्, तदा सः स्वस्य मातुः, राजलक्ष्याः च त्यागम् अकरोत्।[५६] ततः ससैन्यं सः रामस्य अनुगमनं कुर्वन् चित्रकुटम् अगच्छत्। तत्र भरतः परिवेत्तृदोषस्य (ज्येष्ठभातुः पूर्वं यस्य विवाहः जातः) आत्मानं दोषित्वेन स्वीकुर्वन् सः रामं पुनः राज्यं समागन्तुं न्यवदेयत्। पितुः आज्ञया प्रत्यावर्तनं कर्तुम् असमर्थस्य रामस्य पादुकां नीत्वा मात्रा कृतस्य पापस्य प्रायश्चितं कर्तुं भरतः अयोध्याम् अप्रविष्य नन्दिग्रामं गतः।[५७]

वनवासं कुर्वन् रामः वनेषु सीतालक्ष्मणाभ्यां सह अटन् विश्रामं कर्तुं कस्यचित् वृक्षस्य छायायां स्थितः। यात्रया क्लान्तः सः सीतायाः क्रोडे शिरः अस्थापयत्। ततः इन्द्रस्य पुत्रः जयन्तः काकरूपं धृत्वा सीतायाः स्तनयोः प्रहारम् अकरोत्। सीतया जागृतः रामः सर्वं वृत्तान्तं श्रुत्वा तस्य काकस्य उपरि इषीकास्त्रस्य प्रहारम् अकरोत्। तेन अस्रेण जयन्तः एकेन अक्षिणा काणः अभवत्।[५८] चित्रकुटे निवसतः रामस्य मनसि भरतस्य पुनरागमनस्य शङ्का समुद्भूता, यतो हि भरतः अत्यन्तं दुःखितः आसीत्। एवं हरिणैः परिपूर्णं तत् चित्रकुटवनं त्यक्त्वा रामः दक्षिणदिशां प्रति अग्रे यात्राम् आरभत। मार्गे विराध-नाम कश्चन राक्षसः रामस्य मार्गम् अवारोधयत्। सः रामलक्ष्मणोः मध्ये स्थितायाः सीतायाः हरणम् अकोरत्।[५९] रामलक्ष्मणौ तं मारयित्वा तस्य पार्थिवं भूमिं खनित्वा निक्षिप्तवन्तौ। ततः रामः सीतालक्ष्माभ्यां सह पञ्चवट्यां न्यवसत्।

रामः पञ्चवट्यां कुटीरं निर्मीय सपरिवारं निवसति स्म। एकदा तत्र रावणस्य कामपीडिता अनुजा शूर्पणखा रामस्य समीपे समुपस्थिता। तस्मिन् समये सीता रामेण सह एव स्थिता आसीत्। परन्तु तस्याः सम्मुखम् एव शूर्पणखा स्वस्य कुलस्य विवरणम् उक्त्वा मनसा एव रामेण सह विवाहम् अकरोत्। एतस्मिन् अवसरे महाकविः कालिदासः शूर्पणखायाः कामाग्नेः रौद्ररूपस्य वर्णनं कुर्वन् कथयति यत्, वेगवन्तः स्त्रीणां कामः कालम् अपि न पश्यति इति।

शूर्पणखायाः प्रणययाचना

अत्यारूढो हि नारीणाम् अकालज्ञो मनोभवः।[६०]

तस्याः कामप्रस्तावं श्रुत्वा श्रीरामः कथयति यत्, हे बाले! अहं स्त्रीयुक्तः अस्मि। अतः त्वं मम अनुजस्य पार्श्वे गच्छ इति। परन्तु लक्ष्मणोऽपि तस्याः निवेदनं नाङ्ग्यकरोत्। अतः सा पुनः रामस्य पार्श्वे समागच्छत्। यदा सा पुनरागता, तदा शान्तचित्ता आसीत्।

संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम्।

निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः।।[६१]

परन्तु सीता उपालम्भपूर्वकं तस्यां हसितवती। सीतायाः हास्यं दृष्ट्वा सौम्या सा शूर्पणखा कुपिता। क्रोधयुक्ता सा उक्तवती यत्, अस्य उपहासस्य फलं सम्प्रति एव प्राप्स्यसि। मां पश्य। त्वया कृतं कृत्यं व्याघ्र्याः विषये मृग्याः कृतः तिरस्कारवद् अस्ति इति। शूर्पणखायाः वचसा भीता सीता रामस्य अङ्कं प्रति गच्छति। समनन्तरमेव शूर्पणखा स्वस्य नामसमानं भयङ्करं रूपं धृतवती। ततः तस्याः ध्वनिं श्रुत्वा लक्ष्मणः कुटीरं प्रविष्टवान्। सुन्दररूपधृतवती सा मायाविनी इति ज्ञात्वा लक्ष्मणः तस्याः कर्णौ, नासिकां च उदच्छेदयत्। ततः सा आकाशं गत्वा रामलक्ष्मणौ प्रति भर्त्सनां कृतवती। समीपस्थान् राक्षसान् रामलक्ष्मणयोः उपरि आक्रमणं कर्तुं सा उक्तवती। अतः सर्वेऽपि राक्षसाः आक्रमणाय समागताः। रामः सीतायाः रक्षणदायित्वं लक्ष्मणाय दत्त्वा एकाकी एव तैः राक्षसैः सह युद्धम् अकरोत्। तेषु राक्षसेषु ये मुख्याः आसीन्, तेषां राक्षसाणां नाम क्रमेण दूषणः, खरः, त्रिशिरा च। तान् सर्वान् रामः अमारयत्। तेषु सर्वेषु राक्षसेषु केवलं शूर्पणखा एव अवशिष्टा, या रावणस्य समीपं गत्वा राक्षसाणां दुःस्थितेः विवरणं दत्तवती। स्वभगिन्याः अङ्गविकलं दृष्ट्वा, स्वप्रियाणां मृत्योः वार्तां ज्ञात्वा च रावणः रामेण स्वस्य अपमाननम् अभवत् इति अमन्यत।

रक्षसा मृगरूपेण वञ्चयत्वा स राघवौ।

जहार सीतां पक्षीन्द्रपयासक्षणविघ्नितः।।[६२]

अतः सः (सुवर्ण)मृगरूपधारकेण राक्षसेण (मारिचेन) रामलक्ष्मणौ वञ्चयित्वा पक्षिराजेन (जटायुना) क्षणमात्रं विघ्नयुक्तः भूत्वा सीताहरणम् अकरोत्। सीतायाः अन्वेषणं कुर्वन्तौ तौ लूनपक्षं जटायुम् अपश्यत्। सः जटायुः रावणेन सीतायाः हरणस्य, स्वस्य युद्धस्य च वृत्तम् उक्त्वा देहम् अत्यजत्। रामलक्ष्मणौ पितृवत् तस्य अन्त्येष्टिम् अकुरुताम्। ततः कश्चन दैत्यः मार्गे सम्प्राप्तः, यस्य वधं रामः अकरोत्। (सः कबन्धनामकः दैत्यः पूर्वजन्मनि दनु-नामकः देवः आसीत्।) स्वशापात् मुक्तो सः रामाय सुग्रीवस्य पार्श्वे गन्तुं परामर्शं ददाति। अतः रामः सुग्रीवस्य पार्श्वे गत्वा तस्य दुःखं हरन् बालिनम् अमारयत्। ततः सुग्रीवेण आदिष्टाः वानराः सीतायाः अन्वेषणे इतस्ततः भ्रमणम् आरभन्त। समुद्रस्य परे सीता अस्ति इति सम्पातेः कथनेन मारुतिः समुद्रम् अलङ्घयत्। लङ्कायां सीतायाः अन्वेषणं कुर्वन् हनुमान् राक्षसीभिः आवृत्तां सीताम् अपश्यत्। हनुमान् रामेण प्रदत्तम् अङ्गुलीयं तस्यै अयच्छत्। ततः अक्षयस्य वधोत्तरं क्षणमात्रं बन्दिनो भूत्वा हनुमान् लङ्कादयनं कृत्वा निर्गतः।

सीतायै रामस्य मुद्रिकादानम्

रामस्य समीपं प्राप्तः हनुमान् सीतया प्रदत्तं मणिं रामाय अयच्छत्। सीतायाः वृत्तान्तं श्रुत्वा रामः समुद्रस्य दिशायां यात्राम् आरभत। समुद्रतटे स्थितस्य रामस्य पार्श्वे विभीषणः समुपस्थितः। रामोऽपि तस्मै राज्यं दातुं प्रतीज्ञाम् अकरोत्। ततः वानरसेनया समुद्रोपरि सेतुनिर्माणं कारयित्वा ससैन्यं रामः लङ्कां प्राप्तवान्। ततः वानर-राक्षरसेनयोः मध्ये भयङ्करं युद्धम् अभवत्। अनन्तरं रावणः मायया सीतायाः सम्मुखं रामस्य शिरः प्रस्तुतं करोति। तेन स्वामिनः मृत्योः विषये चिन्तयती सीता प्राणान् त्यक्तुम् उद्यता। परन्तु तस्याः रक्षिका त्रिजटा तां वास्तविकतां बोधयति।

रामरावणयोः युद्धम्

मेघनादस्य लक्ष्मणेन सह भीषणं युद्धं भवति। तस्मिन् युद्धे मेघनादः नागास्त्रस्य बन्धने लक्ष्मणं बध्नाति। परन्तु गरुडस्य आगमनेन सः पाशः सहजतया विमुक्तो भवति। ततः रावणः लक्ष्मणस्य वक्षोपरि कासू-अस्त्रस्य प्रहारं कृत्वा तं गभीरतया आहतं करोति। लक्ष्मणस्य स्थितिना दुःखितः रामः अतीव शोकविदीर्णः भवति। परन्तु हनुमता आनीतया ओषधिना (सञ्जीवन्या) लक्ष्मणः स्वस्थो भवति। ततः लक्ष्मणः मेघनादस्य वधम् अकरोत्। ततः रामेण कुम्भकर्णः हतः। रावणोऽपि दृढनिश्चयः रामेण सह योद्धुं प्रासादात् निर्गतः। परन्तु रथारूढं रावणं, पदातिं रामं च दृष्ट्वा इन्द्रः रामस्य कृते रथं प्रैषयत्।[६३] रथेन सह मालतिनामकः सारथी अपि आसीत्, यः रामाय इन्द्रस्य कवचम् अयच्छत्। रामरावणयोः भयङ्करे युद्धे रामः रावणस्योपरि ब्रह्मास्त्रस्य प्रहारम् अकरोत्। तेन रावणस्य मस्तकसमूहः विच्छिन्नः। शिवस्य आरधनाकाले रावणेन स्वस्य शिरांसि तस्मै समर्पितानि। परन्तु ततः तानि शिरांसि पुनः युक्तानि अभूवन्। तथैव अधुना न भवेत् इति देवानां मनसि शङ्का समुद्भूता। रावणस्य वधोत्तरं रामं पृष्ट्वा इन्द्रः स्वरथं स्वर्गं प्रति अनयत्। रामोऽपि अग्निपरीक्षया शुद्धां सीतां नीत्वा विभीषणस्य राज्याभिषेकं कृत्वा लक्ष्मण-सुग्रीव-विभीषणैः सह पुष्पकविमानारूढः सन् अयोध्यापुरीं प्रति अगच्छत्।

त्रयोदशः सर्गः[सम्पादयतु]

एतस्य सर्गस्य अर्धं भागं यावत् रामः पुष्पविमाने स्थित्वा सीतां प्रति विभिन्नानाम् ऋषीणाम् आश्रमान्, नदी-पर्वत-कन्दराः, वनस्थलानि च प्रदर्शयन् विस्तृतं प्रकृतिवर्णनं करोति। ततः सः सरयूनद्याः तटे स्थिताम् अयोध्यापुरीं प्राप्नोति। हनुमान् पूर्वमेव रामस्य आगमनस्य सूचनां भरताय प्रयच्छति, अतः भरतः गुरुणा वसिष्ठेन सह स्वागताय अग्रे आगच्छति। तस्य पृष्ठे मन्त्रिणः, नगरवासिनः अपि समागताः आसन्। सर्वेऽपि आकाशात् अवतीर्यमाणस्य पुष्कविमानस्य अवतरणं पश्यन्ति। गुरुणा अर्घ्यगृहीतः रामः अश्रुयुक्तः सन् भरतस्य आलिङ्गनम् अकरोत्। ततः रामः सुग्रीव-विभीषणयोः परिचयं कारयति। लक्ष्मणस्य भरतेन सह मेलनं भवति। भरतः सीतां नमति। ततः रामः सहपरिवारम् अयोध्यायाः उपवनेषु शत्रुघ्नेन निर्मितेषु शिबिरेषु निवासं कृतवान्।

चतुर्दशः सर्गः[सम्पादयतु]

रामस्य राज्याभिषेकः

उपवने यत्र रामादयः आसन्, तत्र कौशल्यासुमित्रे उपस्थिते। रामलक्ष्मणौ मातरौ प्रणामं कृतवन्तौ। मम कारणेन एव पतिः सङ्कटग्रस्तः अभवत् इति वदन्ती सीता अपि भेदभावं विना श्वश्र्वौ अनमत्। सस्नेहं ते वदतः यत्, तव पवित्राचरणेन एव अनुजसहितः रामः महतः कष्टात् तीर्तवान् इति। ततः रथारूढः रामः अयोध्यां प्रविष्टः। तस्य अनुजौ लक्ष्मणशत्रुघ्नौ चामरं चालयन्तौ आस्ताम्। भरतश्च श्वेतच्छत्रं धृतवान् आसीत्। नगरजनैः रामस्य स्वागतं कृतम्। रामस्य राज्याभिषकोत्तरं सुग्रीवः, विभीषणश्च ससैन्यं स्वराज्यं गतवन्तौ। रामः पुष्पकविमानम् अपि कुबेरस्य कृते प्रेषितवान्।[६४] रामस्य राज्ये प्रजाः धनिकाः, कर्तव्यपरायणाः, पितृयुक्ताः, पुत्रवत्यः च आसन्। तेषां स्थितेः कारणं रामस्य क्रमशः दाता, विघ्ननाशकः, विनयशिक्षकः, शोकनाशकः च एते गुणाः महाकविना उल्लिखिता।[६५] कालान्तरे सीता गर्भम् अधरत। रामः प्रेम्णा सीतायाः मनोभिलषितं ज्ञातुम् इष्टवान्। अतः सीता उक्तवती यत्, गङ्गातटे स्थितानां तपोवनानाम् आश्रयं स्वीकर्तुम् इच्छा अस्ति इति। रामोऽपि "तथैव करिष्यावः" इति उक्तवान्।

एकदा रामः भद्र-नामकं गुप्तचरम् आहूय स्वस्य विषये जनेषु जायमानानां लोकचर्चानां विषये ज्ञातुम् इष्टवान्। आग्रहेण पृष्टः सः उक्तवान् यत्, हे राजन्! नागरिकाः रावणस्य अधीनायाः देव्याः (सीतायाः) पुनःग्रहणं विहाय भवतः सर्वैः आचरणैः प्रसन्नाः सन्ति इति। एवं पत्न्याः निन्दां श्रुत्वा गभीरेण अपयशसा आघातप्राप्तं रामस्य हृदयं विदीर्णम्। "किं स्वस्य अपकीर्तेः उपेक्षां करवाणि उत निर्दोषां पत्नीं त्यजानि?" इति व्याकूलहृदयः रामः किङ्कर्तव्यमूढः अभवत्।

किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि।

इत्येकपक्षाश्रयविक्लत्वादासीत्स दोलाचलचित्तवृत्तिः।।[६६]

"किं स्वस्य अपकीर्तेः उपेक्षां करवाणि उत निर्दोषां पत्नीं त्यजानि?" इति।

निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत्।

अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः।।[६७]

अर्थात्, अन्यप्रकारेण अपकीर्त्याः निवारणं न भविष्यति इति विचिन्त्य सीतायाः त्यागेन अपकीर्तिं निवारयितुम् इष्टवान्। एवं सीतायाः त्यागस्य निर्णयः तेन कृतः। अत्र कालिदासः उपमां ददाति यत्, यशोधनानां कृते यशः स्वशरीराद् अपि श्रेष्ठः वर्तते, तर्हि इन्द्रियस्य विषयात् (सीतायाः अपेक्षया) तु श्रेष्ठः एव भवति, तत्र नास्ति कोऽपि सन्देहः इति।

रामः सर्वान् अनुजान्, मन्त्रिणः च आहूय कथयति यत्, सूर्यवंशीयराजर्षीणां कुले समुद्भूतस्य मम सम्मुखे कीदृशः अपयशकरः कलङ्कः समुद्भूतः इति भवन्तः पश्यन्तु। तत् अपयशः अहं सोढुं न शक्नोमि। अतः यथा पूर्वं पितुः आज्ञया पृथ्व्याः अर्थात् राज्यस्य त्यागः कृतः आसीत्, तथैव अधुना सीतायाः त्यागं करिष्यामि।

तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः।

त्यक्ष्यामि वैदेहसुतां पुस्तात्समुद्रनेमिं पितुराज्ञयेव।।[६८]

रामः पुनः सीतायाः निर्दोषतायाः विषये स्वस्य अभिप्रायं वदति यत्, जनाः भूमेः या छाया चन्द्रमसः उपरि पतति, तां छायां चन्द्रमसः मलिनतात्वेन स्वीकुर्वन्ति। तत्र लोकापवादः बलवान् भवति। सीतायाः निर्दोषताम् अहं जाने परन्तु अहं लोकापवादं बलवन्तं स्वीकरोमि इति।[६९] ततः सः सर्वैः सह मन्त्रणां कृत्वा तां वाल्मिकेः आश्रमं नयतु इति लक्ष्मणं कथयति। तपोवनगमनेन प्रसन्ना जानकी प्रियरामस्य चिन्तनं कुर्वती रथारूढा। मार्गे अशुभसङ्केतत्वादेव अनिष्टस्य चिन्तया सा दुःखिता जाता। वाल्मिकेः आश्रमं प्राप्तवतीं सीतां लक्ष्मणः अतीव कष्टेन रामस्य आज्ञां कथयति। स्वत्यागेन अभिहिता सा सीता मूर्च्छितायां सत्यां भूमौ अपतत्। साध्वी सीता पत्युः कृते नन्दिनीयवचनानि अनुक्त्वा आत्मानमेव नन्दितवती। ततः लक्ष्मणः सीतां वाल्मिकेः आश्रमस्य मार्गं प्रदर्श्य रामस्य रूक्षतायाः कृते क्षमाम् अयाचत्। सीताऽपि तस्मै दीर्घायोः आशीर्वादं दत्त्वा उक्तवती यत्, मम गर्भस्य मङ्गलतायै प्रार्थनां कुर्वन्तु इति सर्वाः स्वश्रून् कथयतु इति। तस्मै राज्ञे कथयतु यत्, प्रत्यक्षतया अग्निना शुद्धां मां लोकनिन्दया त्यक्त्वा स्वकुलोचितं कृतवान्। यदि तस्य तेजः (गर्भः) मयि न स्यात्, तर्हि एतत् शरीरम् अपि त्यजेयम्। अहं सन्तत्योत्तरं सूर्यं प्रति दृष्ट्वा तपः करिष्यामि, येन जन्मान्तरेषु स एव भर्तृत्वेन लभेत, तस्मात् च मम विरहो न भवेत् इति।

लक्ष्मणोऽपि आज्ञां प्राप्य ततः निर्गतः। तस्य गमनोत्तरं कष्टेभ्यः भीता सीता मुक्तकण्ठम् अरुदत्। हविं स्वीकर्तुं निर्गतः वाल्मिकिः सीतायाः रोदनं श्रुत्वा तत्र प्राप्तवान्। प्राप्तं मुनिं दृष्ट्वा सीता तम् अनमत्। पुत्रवती भव इति आशीर्वादान् दत्त्वा वाल्मीकिः उक्तवान् यत्, पतिना त्यक्तां त्वाम् अहं ध्यानत्वात् जनामि। हे जनकनन्दिनि! त्वं स्वपितुः देशमेव प्राप्तवती इत्यतः दुःखं त्यज। त्रयाणां लोकानां कण्टकस्य उत्पाटनकर्तुः, पितुः आज्ञया चतुर्दश वर्षाणि वने स्थित्वा सत्यप्रतिज्ञापालकात्, आत्मप्रशंसायाः अकर्तुः च तव विषये निष्कारणं निन्दिताचरणं कुर्वतः रामात् अहं कुपितः अस्मि इति।[७०] ततः वाल्मीकिः सीताम् आश्रमं प्रति अनयत्।

जानक्याः सन्देशं श्रुत्वा किं राजा दयालुः भविष्यति इति विचिन्त्य लक्ष्मणः रामं सीतायाः सन्देशं श्रावयति। यतो हि रामः सीतायाः शीलविषये निश्चितमनाः आसीत्, अतः लोकनिन्दायाः स्वभयस्य विषये चिन्तयन् सः रुदति। ततः कालान्तरे शोकं स्वहृदि गोपयन् रामः राजकार्येषु निमग्नः अभवत्। रामः निन्दायाः भयात् सीताम् अत्यजत्।[७१] परन्तु सः एकपत्नीव्रताचारी आसीत्, अतः द्वितीयविवाहं नाकरोत्। परन्तु सः सीतायाः सुवर्णमूर्तिम् अर्धाङ्गिनीत्वेन स्वीकृत्य यज्ञान् अकरोत्। पत्युः एतादृशेन आचरणेन सीता अपि त्यागकष्टं सोढितवती।

पञ्चदशः सर्गः[सम्पादयतु]

लवण-नामकेन निशाचरेण दुःखिताः यमुनातटवासिनः मुनयः शराणार्थित्वेन रामस्य समीपं गताः। रामोऽपि तस्य राक्षसस्य वधं कर्तुं प्रतिज्ञाम् अकरोत्। ते मुनयः अपि तस्य राक्षसस्य वधोपायं बोधयन्तः रामम् उक्तवन्तः यत्, हे राम! सः लवणासुरः शूलयुक्तः दुर्जयः भवति। किन्तु शूररहिते सति तस्मिन् आक्रमणं करोतु इति। ततः रामः शत्रुघ्नाय लवणासुरस्य निकन्दनं कर्तुम् आज्ञापयत्। शत्रुघ्नोऽपि ऋषिभिः इङ्गितं क्षेत्रं प्रति यात्राम् आरब्धवान्। मार्गे एकरात्रं यावत् सः वाल्मीकेः आश्रमे उषितवान्। तस्यामेव रात्रौ शत्रुघ्नस्य भ्रातृजाया गर्भवती सीता कान्तियुक्तौ बालकौ अजनयत्।[७२] ततः प्रातःकाले भ्रातुः पुत्रोत्पत्तेः वार्तां श्रुत्वा मुनेः आज्ञां स्वीकृत्य यात्राम् अन्ववर्तत।

शत्रुघ्नः लवणासुरेण शासितं 'मधूपघ्न'नगरं प्राप्तवान्। तत्र सः राक्षसः कर-त्वेन नागरिकाणां प्राणान् स्वीकरोति स्म। सहसा सः शत्रुघ्नस्य सम्मुखे उपस्थितः। शत्रुघ्नः शूलरहितं तं दृष्ट्वा तस्योपरि प्रहारं करोति। लवणासुरोऽपि स्वबुभुक्षां शमयितुं शत्रुघ्नस्योपरि वृक्षोन्मूलनं कृत्वा आक्रमणम् अकरोत्। शत्रुघ्नस्य बाणप्रहारैः सः वृक्षः खण्डशः विभक्तः भूमौ अपतत्। ततः लवणासुरः विशालं पाषाणखण्डम् अक्षिपत्। शत्रुघ्नः ऐन्द्रास्त्रस्य उपयोगं कृत्वा तमपि खण्डशः व्यभाजयत्। ततः सः लवणासुरः हस्तम् उन्नीय शत्रुघ्नस्योपरि प्रहाराय उद्यतः परन्तु सः वैष्णवास्त्रस्य प्रहारेण प्राणान् त्यक्त्वा भूमौ अपतत्। ततः यमुनानद्याः तीरे शत्रुघ्नः मथुरा-नामकस्य नगरस्य स्थापनाम् अकरोत्।[७३] शत्रुघ्नः मथुरायाः, विदिशायाः च राज्यं क्रमेण स्वपुत्रयोः सुबाहवे, बहुतश्रुताय च दत्तवान्।[७४]

अपरत्र दशरथ-जनकयोः मित्रं मन्त्रद्रष्टा वाल्मीकिः अपि मैथिल्याः पुत्रयोः विधिपूर्वकं संस्कारम् अकरोत्। कुशेन, गोपृच्छरोमैः च वाल्मीकिः सीतायाः उभयोः पुत्रयोः गर्भजन्यं उपद्रवम् अनाशयत्। अतः सः क्रमेण कुशः, लवः (गोपृच्छरोमः) च तयोः नामकरणम् अकरोत्।[७५] वाल्मीकिः षडाङ्गैः सहितं वेदं पाठयित्वा शैशवावस्थां प्राप्तवन्तौ तौ प्रप्रथमां कविताबीजभूतां रचनां (रामायणम्) अगापयत्। अयोध्यां प्रति प्रत्यागमनकाले शत्रुघ्नः वाल्मीकेः आश्रमम् अगत्वा साक्षात् अयोध्याम् अगच्छत्। तत्र नगरजनाः, रामश्च लवणासुरघातकस्य स्वागतम् अकुर्वन्। शत्रुघ्नः वाल्मीकिमुनेः आज्ञया सीतायाः सन्तानस्य विषये रामं किमपि नावदत्।[७६]

राजद्वारे एकदा कश्चन ब्राह्मणः युवावस्थां न प्राप्तस्य स्वपुत्रस्य देहं स्वक्रोडे स्थापयित्वा मुक्तकण्ठेन अरुदत्। सः आक्रोशपूर्वकम् उच्चस्वरैः वदन् आसीत् यत्, हे पृथ्वि! त्वं शोचनीया असि, यत् त्वं दशरथहीना भूत्वा रामस्य अधीना जाता इति। ब्राह्मणस्य दुःखकारणम् अर्थात् पुत्रस्य अकालमृत्युं ज्ञात्वा रामः अतीव कष्टं प्राप्तवान्, यतो हि इक्ष्वाकुवंशीयानां काले कदापि अकालमृत्युः न भवति स्म।[७७] मुहूर्तमात्रं क्षमस्व अर्थात् मुहूर्ताभ्यान्तरे तव पुत्रम् आनयामि इति ब्राह्मणाय आश्वासनं दत्त्वा रामः पुष्पकविमानस्य आह्वाहनम् अकरोत्। पुष्पकवाहनारूढः रघुश्रेष्ठः रामः यदा धर्मराजं जेतुम् उद्यतः, तदा आकाशवाणी अभवत्। आकाशवाण्यां तेन श्रुतं यत्, हे राजन्! तव प्रजासु कश्चन हीनाचरणम् अर्थात् वर्णाश्रमप्रतिकूलम् आचरणं कुर्वन्नस्ति, तस्य नाशे कृते सति त्वं सफलो भविष्यति इति। अतः रामः सर्वासु दिक्षु अन्वेषणम् आरभत।

ततः सः रामः धूम्रपानेन रक्तनेत्रयुक्तं, वृक्षस्य शाखाम् अवलम्बिनं, निम्नमुखं कृत्वा तपस्यां कुर्वन्तं कमपि पुरुषम् अपश्यत्। रामेण वंशे पृष्टे सति सः आत्मानं स्वर्गाभिलाषिणम् उक्त्वा शम्बूक नाम शूद्रत्वेन परिचयम् अयच्छत्। तपस्यायै अधिकारहीनस्य तस्य पापात्मनः शिरोच्छेदनम् अकरोत्। मार्गे रामः अगस्त्यमुनिना सह अमिलत्। सीतायाः त्यागोत्तरम् आभूषणानि न धारयते रामाय अगस्त्यमुनिः आभूषणानि अयच्छत्। तानि आभूषणानि रामः अधारयत्। ततः रामस्य अयोध्याप्राप्तेः पूर्वमेव ब्राह्मणस्य मृतपुत्रः जीवितः तस्य पार्श्वे प्राप्तः। यदा रामः तत्र प्राप्तवान्, तदा रामनिन्दां कुर्वाणः पश्चात् सः ब्राह्मणः रामस्तुतिं करोति।

अश्वमेधयज्ञाय रामः अश्वं त्यक्तवान् आसीत्। अतः विभीषणादयः राक्षसाः, सुग्रीवादयः वानराः, भारतवर्षस्य अन्ये राजानः च तस्मै उपहाराणि अयच्छन्। रामेण आमन्त्रिताः महर्षयः न केवलं निवासस्थानानि त्यक्त्वा रामस्य समीपे गताः, अपि तु दीव्यस्थानानि त्यक्त्वा अपि रामस्य यज्ञे उपस्थिताः। चतुर्मुखिनी सा अयोध्यापुरी महर्षिभिः सुशोभिता। सीतायाः सुवर्णमूर्तिं स्त्रीत्वेन स्थापयित्वा रामः यज्ञकार्यं पूर्णम् अकोरत्। ततः शास्त्रविधीनां साधकस्य यज्ञस्य आरम्भः अभवत्, यस्मिन् यज्ञविघ्नोत्पादकाः राक्षकाः रक्षकाः आसन्, अतः तस्य पूर्णता निश्चिता आसीत्। तस्मिन्नेव काले वाल्मीकिमुनिनः आदेशेन सीतायाः पुत्रौ कुशलवौ प्रथमकाव्यं तत्र गातुम् उपस्थितौ। रामोऽपि तेषां गानम् अशृणोत्। सभासदः रामस्य छविना सह तयोः छव्याः समानतां पश्यन्तः आसन्। कः गानमिदम् अपाठयत्, कश्च रचयिता इति रामेण पृष्टे सति तौ वाल्मीकेः नाम अवदताम्।

कुश-लवौ

रामः अनुजैः सह वाल्मीकेः आश्रमं गत्वा स्वराज्यं समार्पयत्। परन्तु दयालुः वाल्मीकिः तौ कुमारौ उद्दिश्य वदति यत्, एतौ मैथिलीकुमारौ तव पुत्रौ स्तः तौ स्वीकुरु इति। तदा रामः कथयति यत्, हे तात! भवतः स्नुषा सीता अस्माकं सर्वेषां सम्मुखम् अग्निशुद्धा आसीत्। अतः तस्याम् अस्माकम् अविश्वासः नास्ति। परन्तु अत्रत्याः प्रजाः रावणस्य दुष्टतायाः कारणेन तस्यां न विश्वसन्ति।

तात शुद्धा समक्षं नः स्नुषा सते जातवेदसि।

दौरात्म्याद्र7सस्तां तु नात्रत्याः श्रद्दधुः प्रजाः।।[७८]

अतः सा यदि स्वस्य चरित्रस्य विषये प्राजसु विश्वासम् उत्पादयेत्, तर्हि अहं भवतः आज्ञया पुत्रसहितां तां स्वीकरिष्ये इति। रामस्य प्रतीज्ञां श्रुत्वा वाल्मीकिः शिष्यैः सीताम् आह्वयति। द्वितीये दिने उपस्थितकार्यस्य सिद्ध्यै रामः नगरवासिनः एकत्रीकृत्य वाल्मीकिम् आहूतवान्। रामस्य आह्वाहने सति वाल्मीकिः सपुत्रया सीतया सह तत्र उपस्थितः।

काषायपरिवीतेन स्वपदार्पितचक्षुषा।

अन्वमीयत शुद्धेति शान्तेन वपुषैव सा।।[७९]

काषाय-परिधानं धृतवत्याः सीतायाः पादयोः दृष्टिं कुर्वन्तः सर्वेऽपि सीतायाः शान्तशरीरादेव तस्याः शुद्धतायाः अनुमानम् अकुर्वन्। वाल्मीकिः सीताम् उक्तवान् यत्, वत्स! पत्युः सम्मुखं सदाचारस्य विषये जनानां सन्देहस्य उन्मूलनं कुरु इति। वाल्मीकिशिष्येण प्रदत्तस्य पवित्रजलस्य आचमनं कृत्वा सीता सत्यवचनम् उक्तवती यत्, वाङ्मनःकर्मभिः पत्याः विषये यदि अहम् अस्खलिता अस्मि, तर्हि हे मातः (वसुन्धरे) माम् अन्तर्हितां करोतु इति। पतिव्रतायाः सीतायाः उक्तवचनोत्तरमेव पृथिव्याः महान् प्रकाशसूमहः उद्भूतः। तस्मिन् प्रकाशसमूहे सर्पस्य फणायां राजसिंहासने पृथ्वीदेवी आरूढा आसीत्। सीता तस्याः क्रोडे स्थितवती। रामः मा मेति वदन् आसीत्, परन्तु सीता स्वपतिं पश्यन्ती आसीत्। ततः पृथ्वीदेवी तां नीत्वा पातालम् अगच्छत्।[८०] विधिविधानम् अनुसरन्तौ वसिष्ठ-वाल्मीकी उभौ कुपितं रामं शान्तम् अकुरुताम्। ततः यज्ञसमाप्त्योत्तरम् आगन्तुकानां गमनानुकूलं सत्कारं कृत्वा पुत्रसहितं राज्यकार्यम् आरब्धवान्।

एकदा भरतस्य मातुलस्य युधाजितः कथनेन रामः 'सिन्धु'नामकं देशं भरताय अयच्छत्। तत्र गन्धर्वप्रदेशे भरतः सर्वान् गन्धर्वान् पराजित्य गानशास्त्रस्य स्थापनाम् अकरोत्। ततः राजाभिषेकाय योग्याभ्यां तक्ष-पुष्कलाभ्यां स्वपुत्राभ्यां क्रमेण तक्षशिलायाः, पुष्कलावत्याः च नगर्यौ समर्प्य अयोध्यां प्रत्यगच्छत्। रामस्य आदेशेन लक्ष्मणोऽपि स्वपुत्रौ अङ्गद-चन्द्रकेतू क्रमेण कारापथ-देशस्य स्वामित्वेन अघोषयत्। एवं पुत्रेभ्यः पूर्वोत्तरदिशि प्रस्थाप्य प्रजारक्षकाः ते रामसहिताः रघुवंशिनः पतिलोकं प्राप्तवत्याः मातुः क्रमशः तर्पण-श्राद्धादीनि पारलौकिककर्माणि अकुर्वन्।[८१]

समये प्राप्ते कालः (यमः) मुनिवेशं धृत्वा रामस्य समीपम् उपस्थितः। वार्तालापारम्भात् पूर्वमेव यमः रामात् वचनं स्वीकृतवान् यत्, तयोः चर्चायां यः बाधां जनयेत्, तस्य रामः त्यागं करिष्यति इति। ततः रामस्य सम्मुखं स्वस्य रूपं प्रकट्य सः उक्तवान् यत्, ब्रह्मणः आदेशानुसारं भवान् स्वर्गं गच्छतु इति। चर्च्यमाणयोः तयोः बाधारक्षकत्वेन द्वारस्थितः लक्ष्मणः ज्ञात्वाऽपि चर्चायां विघ्नम् उदपादयत्। यतो हि रामदर्शनाभिलाषी दुर्वासाऋषिः उपस्थितः। तस्य शापस्य भयात् सः विघ्नम् अजनयत्। ततः सरयूनद्याः तटे योगविद्यया शरीरं त्यक्त्वा लक्ष्मणः स्वभ्रातुः प्रतिज्ञायाः पूर्तिम् अकरोत्।[८२]

शत्रुरूपाणां गजानाम् अङ्कुशभूताय कुशाय कुशवतीं, सुन्दरवचनैः सज्जनानाम् अश्रुलवकारकाय लवाय शरावतीं च दत्त्वा रामः अनुजैः सह अयोध्यायाः उत्तरदिशं प्रति अगच्छत्। रामस्य गमनं ज्ञातवन्तः वानराः, राक्षसाः, अयोध्यावासिनः च वने तस्य अनुगमनम् अकुर्वन्। रामस्य कृते स्वर्गात् विमानं सरयूनद्याः तीरे अवातरत्। तस्मिन् आरूढः भक्तवत्सलः रामः सरयूनदीं यावत् तस्य अनुगमनं कृतवद्भ्यः स्वर्गसोपानम् अरचयत्। अर्थात् तत्र उपस्थिताः सर्वेऽपि सहजतया स्वर्गं प्राप्तवन्तः।[८३] यतो हि तत्र सरयूनद्यां स्नानकुर्वतां सम्मर्दः गवां प्रतरत्वेन (गवां समूहसम्मर्दत्वेन) अभवत्, अतः तस्य स्थलस्य नाम 'गोप्रतरः' इति अभवत्।[८४] विष्णुः रावणवधरूपं स्वदेवकार्यं समाप्य लङ्काधीशं, पवनपुत्रं च कीर्तिस्तम्भत्वेन क्रमेण दक्षिणपर्वते (चित्रकूटे), उत्तरपर्वते (हिमालये) प्रस्थाप्य स्वलोगम् अगच्छत्।

षोडशः सर्गः[सम्पादयतु]

सानुजस्य रामस्य स्वर्गारोहणोत्तरं रघुवंशश्रेष्ठाः सप्त राजानः (रामपुत्रः लवः, भरतपुत्रौ तक्ष-पुष्कलौ, लक्ष्मणपुत्रौ अङ्गद-चन्द्रकेतू, शत्रुघ्नपुत्रौ सुबाहु-बहुश्रुतौ) कुशाय उत्तमोत्तमानि रत्नानि ज्येष्ठत्वात्, श्रेष्ठगुणवत्वाच्च अयच्छत्। ते परस्परम् अष्टभागेषु विभक्तायाः राज्यसीमायाः कदापि उल्लङ्घनं न कुर्वन्ति स्म।

एकदा मध्यरात्रौ जागृतः कुशः शयनागारे प्रवासस्थ-कलत्रवेशं धृतवतीं स्त्रीम् अपश्यत्। सा स्त्री प्रप्रथमं कुशस्य सम्मुखे स्थित्वा 'जय'शब्दस्य उच्चारणम् अकरोत्। ततः पर्यङ्के स्थितः सः कुशः तां स्त्रीम् अपृच्छत् यत्, त्वं कथं, किमर्थं च पहितं प्रकोष्टं सम्प्रविष्टा? मृणालिन्या मुखाकृतिना योगिनी तु न दृश्यसे। स्वदुःखं परस्त्रीषु विमुखव्यवाहारिणं मां रघुवंशिनं कथय इति। सा उक्तवती यत्, यस्याः पुर्याः भवतः पिता स्वर्गम् अगच्छत्, पुरवासिनः अपि अनयत्, तस्याः अयोध्यापुर्याः अहम् अनाथा अधिष्ठात्री देवी अस्मि। पुरा सुन्दरस्य राज्ञः उपस्थितौ उत्सवयुक्ताम्, ऐश्वर्युक्तां च अलकापुरीं त्यक्त्वा आगवती अहम् अधुना सम्पूर्णशक्तियुक्तानां सूर्यवंशिनां कारणेन दीनावस्थां प्राप्तवती। रामं विना मम गृहं नष्टं जातमस्ति। यस्मिन् राजमार्गे पुरा देदीप्यमानाः, नूपुराणां मधुरध्वनिकर्त्र्यः च अभिसारिकाः विहरन्त्यः आसन्, तत्र अधुना मांसान्वेषिकाः कोष्ट्र्यः सञ्चरन्ति। विविधप्रकारैः नष्टां मम पुरीं दृष्ट्वा अहं दुःखिता अस्मि। अतः एतां कुशावतीं त्यक्त्वा अयोध्यापुरीं प्राप्नोतु इति। कुशोऽपि प्रसन्नचित्तेन अधिष्ठात्रीदेव्याः निवेदनं स्वीकृत्य "तथास्तु" इति उक्तवान्। ततः सा प्रसन्नमुखा देवी अन्तर्धानम् अभवत्।[८५]

प्रातःकाले राजा कुशः सर्वं वृत्तान्तं ब्राह्माणान् न्यवदेयत्। ततः सर्वे ब्राह्मणाः तस्मै अयोध्यापतित्वेन स्वीकृत्य कुशाय आशीर्वादान् अयच्छन्। वैदिकब्राह्मणेभ्यः राजकार्यस्य दायित्वं दत्त्वा कुशः अयोध्यां गतः। तत्र ग्रामस्य बहिः स्वसेनया सह शिबिरम् अस्थापयत्। ततः उच्चगुणवत्तायुक्तान् शिल्पिनः नियोज्य सम्पूर्णायाः अयोध्यापुर्याः कायाकल्पम् अकरोत्। ततः वसन्तऋतौ कुशस्य जलविहारस्य इच्छा अभवत्, अतः सः सरयूनदीं जलविहाराय गतः। जलविहारे मग्नस्य कुशस्य विजयशीलाभूषणं जले निगम्नम्। तदाभूषणं रामः अगस्त्यमुनेः प्रप्तवान् आसीत्, तदेव रामः राज्याभिषेककाले कुशाय अयच्छत्।

विहारं समाप्य तटं गतः कुशः आभूषणहीनं स्वहस्तम् अपश्यत्। पितुः प्रदत्ताभूषणस्य पतनं सः सोढुं न शक्तवान्। अतः सः आभूषणान्वेषणाय आज्ञापयत्। परन्तु आभूषणं न प्राप्तम्। तदा सरयूनद्यां स्थितः कुमुद-नामकः नागः कदाचित् लोभवशात् स्वीकृतवान् स्यात् इति सर्वेषां शङ्का समुद्भूता। अतः कुशेन गरुडास्त्रस्य सन्धाने कृते सति भीतः नागः स्वकन्याम् अग्रे कुर्वन् बहिः समागतः। प्रत्युपहारत्वेन भूषणं दृष्ट्वा कुशः गरुडास्त्रं स्वगतम् अकरोत्। गरुडास्त्रस्य प्रभावं ज्ञातवान् कुमुदाख्यः नागः उक्तवान् यत्, रामपुत्रेण सह विपरीतव्यवहारम् अहं कर्तुं न शक्नोमि। एतया बालया कौतूकवशात् भवतः विजयाभूषणं स्वीकृतम् आसीत्। परन्तु पुनः भवान् तदाभूषणं धरतु। हे राजन्! स्वापराधं ज्ञातवत्याः मम अनुजायाः कुमुद्वत्याः पाणिग्रहणं करोतु इति। कुशोऽपि तां कन्यां कुलभूषणत्वेन अङ्ग्यकरोत्।[८६] एवं त्रिलोकाधीशस्य रामस्य पुत्रं कुशं कुमुदः, कुशश्च तक्षकस्य पञ्चमपुत्रं कुमुदं बन्धुत्वेन प्राप्तवान्।

सप्तदशः सर्गः[सम्पादयतु]

कुमुद्वती अतिथि-नामकं पुत्रम् अजनयत्। कुशः तस्मै कुलविद्यां पाठयित्वा तस्य राजकुमारीभिः सह विवाहम् अकारयत्। इन्द्रस्य सहायतायै युद्धमग्नः कुशः दुर्जयनामकं दैत्यम् अमारयत्, परन्तु तस्मिन् युद्धे सोऽपि हतः। कुशस्य देहोत्सर्गेण सह कुमुद्वती अपि देहम् अत्यजत्। कुशस्य आज्ञानुसारं मन्त्रिणः अतिथिम् अधपतित्वेन अस्थापयन्। सर्गेऽस्मिन् बहुधा अतिथिना कथं राज्यं कृतम् इत्यस्य वर्णनम् अस्ति। ततः प्रजानां पालनं कुर्वन् अतिथिः अश्वमेधयत्रम् अपि कृतवान्।[८७]

अष्टादशः सर्गः[सम्पादयतु]

अतिथेः विवाहः निषधदेशाधिपतेः कन्यया सह जातः आसीत्। तयोः पुत्र निषधः प्रसिद्धः। अतिथिः निषधाय राजदायित्वं दत्त्वा रघुवंशोचितं स्वर्गम् अगच्छत्। निषधः स्वराजकालं समाप्य तस्य पुत्राय नलाय राजदायित्वम् अयच्छत्। नलस्य नभस् नामकः पुत्रः अभवत्। तस्मै राज्यं दत्त्वा सः मुक्तोऽभवत्। नभसः पुण्डरीक-नामकः पुत्रः तस्य राजकार्यस्य उत्तरदायित्वम् अवहत्। पुण्डीरकस्य पुत्रः क्षेमधन्वा जातः। क्षेमधन्वनः पुत्रः अनीकः। तस्य नाम्नः अग्रे देव इति युक्ते सति सः देवानीकः इति प्रसिद्धः अभवत्। क्षेमधन्वा पुत्राय राजकार्यं दत्त्वा स्वर्गम् अगच्छत्। देवानीकस्य पुत्रः अहीनगुः अभवत्। अहीनगोः पुत्रः पारियात्रः जातः। पारियात्रात् शिलः, शिलात् उन्नाभः, उन्नाभात् वज्रनाभः, वज्रनाभात् शङ्खणः, शङ्खणात् व्युषिताश्वः, व्युषिताश्वस्य विश्वसहः, विश्वसहस्य हिरण्यनाभः, हिरण्यनाभात् कौशल्यः, कौशल्यस्य ब्रह्मिष्ठः, ब्रह्मिष्ठस्य पुत्रः (पुत्रः जैमिनिमुनेः पार्श्वे योगाभ्यासं पठित्वा देहम् अत्यजत्।), पुत्रस्य पुष्यः, पुष्यात् धुवसन्धिः(आखेटकाले सिंहेन मारितः), धुवसन्धेः सुदर्शनः समुद्भूतः। [८८]

एकोनविंशः सर्गः[सम्पादयतु]

सुदर्शनात् अग्निवर्णः समुत्पन्नः। अग्निवर्णः स्वस्य शासनस्य प्रारम्भिके काले सुचारुरीत्या राज्यदायित्वम् अवहत्। परन्तु युवावस्थां प्राप्तवान् सः स्त्रीषु आसक्तः अभवत्। कामिनीयुक्तः चिरान्तःपुरवासी सः अग्निवर्णः उत्सवेषु एव निमग्नः भवति स्म। अतः तस्य ध्यानं प्रजापालनेऽपि न भवति स्म।[८९] इतः परं दशमात् श्लोकात् नवचत्वारिंशत्तमश्लोकं यावत् अग्निवर्णस्य सम्भोगलीलायाः, विलासीनतायाः च वर्मनम् अस्ति। भोगाधिक्येन अग्निवर्णः क्षयरोगी भवति। वैद्याः अयोग्येभ्यः पदार्थेभ्यः तं दूरे स्थातुं निवेदयन्ति, परन्तु सः वैद्यान् न अनुसरति स्म। पाण्डुवर्णस्य मुखम्, आधारेण चलनं, क्षीणस्वरः च तस्य रोगचिह्नानि प्रदर्शयन्ति स्म।[९०] अनेकस्त्रीणाम् उपभोगं कृतवान् सः अग्निवर्णः पवित्रसन्तानस्य जनकः नाभवत् इति मन्त्रिणः चिन्तिताः आसन्। अन्ततोगत्वा अग्निवर्णः देहं त्यजति। अग्निवर्णस्य देहत्यागोत्तरं मन्त्रिभिः ज्ञातं यत्, एका राजमहिषी गर्भवती अस्ति इति। ततः सा एव अग्निवर्णस्य स्थाने मन्त्रिणां साहाय्येन शासनम् अकरोत्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. रघुवंशमहाकाव्यम्, सर्गः - २, श्लो. ६४
  2. Journal Asiatec Society of Bengal, Vol – XLVII (16), 1879, pt I P - 33
  3. India an Antiquary 1879
  4. Martin’s Eastern India III P. 513
  5. बुद्धगयायाः १००५ विक्रमसंवति आकीर्णः कश्चन शिलालेखः वर्तते। तत्र तेषां नवरत्नानां नामानि सन्ति।
  6. रघुवंशम्, सर्गः - प्रथमः, श्लो. १
  7. रघुवंशम्, सर्गः - १, श्लो. २-५
  8. रघुवंशमहाकाव्यम्, सर्गः - ६, श्लो. ७१
  9. रघुवंशमहाकाव्यम्, सर्गः - ६, श्लो. ७४
  10. रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. १९
  11. रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. २१-२५
  12. रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. ३०
  13. इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः।
    क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः।। रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. ७३
  14. रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. ७७
  15. रघुवंशमहाकाव्यम्, सर्गः - १, श्लो. ९०
  16. रघुवंशमहाकाव्यम्, सर्गः - २, श्लो. ६
  17. श्रुतस्य यायादयमन्मर्भकस्तथा परेषां युधि चेति पार्थिवः। अवेश्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्।।२१।। रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. २१
  18. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. ३१
  19. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. २८
  20. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. २९
  21. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. ४१
  22. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. ४४-४६
  23. रघुवंशमहाकाव्यम्, सर्गः - ३, श्लो. ५४
  24. रघुवंशमहाकाव्यम्, सर्गः - ४, श्लो. २८
  25. रघुवंशमहाकाव्यम्, सर्गः - ४, श्लो. ३६
  26. रघुवंशमहाकाव्यम्, सर्गः - ५, श्लो. ३१
  27. रघुवंशमहाकाव्यम्, सर्गः - ५, श्लो. ३३
  28. रघुवंशमहाकाव्यम्, सर्गः - ५, श्लो. ३६
  29. रघुवंशमहाकाव्यम्, सर्गः - ५, श्लो. ५७
  30. सम्मोहनं नाम सखे! ममास्त्रं प्रयोगसंहारविभरक्तमन्त्रम्।
    गान्धर्वमादत्स्व यतः पयोक्तुर्न चारिहिंसा विजयश्च हस्ते।। रघुवंशमहाकाव्यम्, सर्गः - ५, श्लो. ५७
  31. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. १४
  32. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. २४
  33. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. २९
  34. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ४०
  35. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ४४
  36. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ७२
  37. उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया।
    मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम्।। रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ८४
  38. रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते। परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम्।। रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ८४
  39. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ९३
  40. रघुवंशमहाकाव्यम्, सर्गः - ९, श्लो. ७४
  41. रघुवंशमहाकाव्यम्, सर्गः - ९, श्लो. ८०
  42. रघुवंशमहाकाव्यम्, सर्गः - १०, श्लो. ६०
  43. रघुवंशमहाकाव्यम्, सर्गः - १०, श्लो. ८०
  44. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ६
  45. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. १४
  46. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. २२
  47. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ३०
  48. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ५३
  49. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ६१
  50. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ७४
  51. रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ८५
  52. राध रघुवंशमहाकाव्यम्, सर्गः - ११, श्लो. ८९
  53. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ७-८
  54. रघुवंशमहाकाव्यम्, सर्गः - १०, श्लो. ७३-७९
  55. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ११
  56. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. १३
  57. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. १८-१९
  58. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. २३
  59. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. २९
  60. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ३३
  61. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ३६
  62. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ५३
  63. रघुवंशमहाकाव्यम्, सर्गः - १२, श्लो. ८४
  64. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. २०
  65. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. २३
  66. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ३४
  67. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ३५
  68. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ३९
  69. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ४०
  70. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ७१-७३
  71. रघुवंशमहाकाव्यम्, सर्गः - १४, श्लो. ८६-८७
  72. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. १३
  73. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. २८
  74. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ३६
  75. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ३२
  76. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ४१
  77. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ४४
  78. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ७२
  79. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ७७
  80. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ८४
  81. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ८७-९१
  82. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. ९५
  83. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. १००
  84. रघुवंशमहाकाव्यम्, सर्गः - १५, श्लो. १०१
  85. रघुवंशमहाकाव्यम्, सर्गः - १६, श्लो. ४-२३
  86. रघुवंशमहाकाव्यम्, सर्गः - १६, श्लो. ८६
  87. रघुवंशमहाकाव्यम्, सर्गः - १७, श्लो. ८०
  88. रघुवंशमहाकाव्यम्, सर्गः - १८, श्लो. ३-३६
  89. रघुवंशमहाकाव्यम्, सर्गः - १९, श्लो. ४-६
  90. रघुवंशमहाकाव्यम्, सर्गः - १९, श्लो. ५०
"https://sa.wikipedia.org/w/index.php?title=रघुवंशम्&oldid=426484" इत्यस्माद् पुनः प्राप्तिः