कुम्भकर्णः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुम्भकर्णः
कुम्भकर्णः जृम्भण
देशीयता लङ्का
अन्यानि नामानि राक्षस
कृते प्रसिद्धः रावण भ्रातृ, रामायण
Kumbhakarna yawns as he is roused from sleep

अयं कुम्भकर्णः अपि रामायणस्य किञ्चन महत्त्वभूतं पात्रम् अस्ति । पुलस्त्यस्य पुत्रेण विश्रवसेन कैकस्यां जातः जात्या राक्षसः । महाशूरस्य रावणस्य अनुजः । परमधार्मिकः विभीषणः अपि अस्य कुम्भकर्णस्य सहोदरः ।

ब्रह्नणः शापः[सम्पादयतु]

जन्मतः एव अस्य आकारः भयङ्करः । सद्योजातः एव सहस्राधिकजानान् निगलितवान् । एतत् श्रुत्वा इन्द्रः ऐरावतारूढः तत्रागत्य वज्रप्रहारम् अकरोत् । तदा कुम्भकर्णः ऐरावतस्य दन्तमेकं भञ्जयित्वा युद्धमकरोत् । पराजितः इन्द्रः ततः पलायितः ब्रह्माणं वार्तां प्रापितवान् । ब्रह्मा बर्षे बहुकालं निद्रां कुर्वाणः भवतु इति शापरूपं वरं दत्तवान् । ब्रह्मा विश्रवसस्य प्रार्थनां श्रुत्वा भवतः पुत्रः वर्षे एकं दिनं जागरितः भवति इति प्रतिवरं दत्तवान् । कञ्चित्कालाननन्तरं कुम्भकर्णः गोकर्णक्षेत्रं गत्वा तत्र ब्रह्माणम् उद्दिश्य घोरं तपः समाचरत् । तपसः देवाः भीताः ब्रह्माणं प्रार्थयन् । ब्रह्मा देवेभ्यः अभयं दत्तवान् । कुम्भकर्णं सम्भ्रान्तं करोतु इति देवीं सरस्वतीम् उक्त्वा ब्रह्मा वरं दातुं कुम्भकर्णस्य पुरतः प्रत्यक्षः अभवत् । वरं यचितुं ब्रह्मणि पृष्टे सति निद्रां ददातु इति अयाचत । ब्रह्मा तथास्तु इति उक्त्वा गतवान् ।

अग्रिमजीवनम्[सम्पादयतु]

कुम्भकर्णः पातालस्य बलिचक्रवर्तिनः पुत्रीं वृत्रजालां परिणीय कुम्भः निकुम्भः इति पुत्रौ प्राप्तवान् । यदा रावणं कुबेरं जित्वा लङ्कापुरीं प्राप्तवान् तदा तत्र आगतवान् । ततः पूर्वं श्लेष्मातकः इति प्रदेशे वसति स्म । रावणेन सीतापहरणस्यपश्चात् हनूमान् लङ्कां प्रविश्य सीतां दृष्ट्वा वार्तालापं कृत्वा राक्षसा भाययित्वा लङ्कां वह्निना ज्वालितवान् । पश्चात् जागरितः कुम्भकर्णः सर्वं वृत्तान्तं ज्ञात्वा रावणस्य निकटं गत्वा श्रीरामं शरणङ्गत्वा सीतां प्रत्यर्पयितुं सूचितवान् । किन्तु रावणेन तत् न अङ्गीकृतम् । तदा कुम्भकर्ण रावणस्य अविवेकं दूषयन् प्रत्यागतवान् । कतिपयदिनानां पश्चात् रामरावणयोः महायुद्धम् अभवत् । रावणस्य सैनिकाः बान्धवाः सर्वे हताः । अपि च कुम्भकर्णस्य पुत्रौ अपि मृतौ । तदा रावणः अन्यथा मार्गम् अविज्ञाय अकाले कुम्भकर्णजागरणस्य व्यवस्थां कृतवान् । बहुप्रयासेन सेवकाः कुम्बकर्णं जागरितवन्तः । प्रबुद्धः कुम्भकर्णः सर्वसमाचारं ज्ञात्वा अग्रजस्य मूर्खत्वार्थं बहुधा शोचयन् सीतां रामाय समर्पयितुं पुनः न्यवेदयत् । तदापि विफलश्रमः कुम्भकर्णः युद्धरङ्गं प्रविश्य् भयङ्कररीत्य युद्धमकरोत् । अन्ते श्रीरामेण हतः सद्गतिमवाप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुम्भकर्णः&oldid=400157" इत्यस्माद् प्रतिप्राप्तम्