अरण्यकाण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अरण्यकाण्डस्य कथा[सम्पादयतु]

रामः सीता लक्ष्मणश्च दक्षिणदिशि गोदावरीतीरं प्रति अगच्छन् । तत्र ते कुटीरं निर्मीय जीवनम् आरब्धवन्तः । पञ्चवट्यां ते रावणस्य सहोदर्या राक्षस्या शूर्पणखया अमिलन् । सा रामलक्ष्मणयोः पीडनम् अकरोत् । ततः सा सीतां मारयितुं प्रयत्नम् अकरोत् । तावता लक्ष्मणः तस्याः नासिकां कर्णे च अकर्तयत् । इदं ज्ञातवान् तस्याः सहोदरः खरः राजकुमारयोः उपरि आक्रमणम् अकरोत् । रामः तान् समूलं पराजितवान् ।
इमं वार्तां ज्ञातवान् रावणः रामस्य वधां कर्तुं निश्चितवान् । राक्षसं मारीचं स्वर्णमृगरूपेण गत्वा सीताम् आकर्ष्टुम् आदिष्टवान् । स्वर्णमृगात् नितराम् आकृष्टा सीता तं वशीकर्तुं रामं प्रैरयत् । इदं राक्षसानां माया इति जानन् अपि रामः, सीतायाः अपेक्षां निराकर्तुम् अशक्नुवन् सीतां लक्ष्मणाधीनां कृत्वा मृगस्य ग्रहणाय अगच्छत् । किञ्चित् समयानन्तरं 'हा सीता' 'हा लक्ष्मण' इति आक्रन्दनं श्रुतम् । तस्य श्रवणात् भीता सीता रामस्य रक्षणाय लक्ष्मणं 'भवान् गच्छतु' इति अवदत् । सीताम् एकाकिनीं त्यक्त्वा गन्तुं निराकुर्वन्तम् अपि लक्ष्मणम् अनुरोधपूर्वकं प्रैषयत् । गमनात् पूर्वं लक्ष्मणः रेखां विलिख्य इतः बहिः अपरिचितानां मेलनाय न गन्तव्यम् इति संसूच्य एव गच्छति । तस्य बहिर्गमनानन्तरं रावणः संन्यासीवेषं धृत्वा भिक्षाय सीतायाः समीपम् आगच्छति । तेषां कुयोजनाम् अजानती सीता तस्मै भिक्षाम् अयच्छत् । तदा रावणः ताम् अपहृत्य अगच्छत् ।
पक्षी जटायुः सीतां रक्षितुम् इच्छन् रावणम् अवरुद्धवान् । रावणेन नितरां क्षतः जातः । सीता राक्षसीनाम् आश्रये अस्थापयत् । रावणः सीतां परिणयाय अनुरोधम् अकरोत् । रामे दत्तहृदया सीता रावणस्य अपेक्षां सम्पूर्णतया निराकृतवती । रामलक्ष्मणौ सीतायाः विषयं जटायुतः ज्ञातवन्तौ । तस्याः रक्षणाय प्रयासम् आरब्धवन्तः । अन्वेषणावसरे ताभ्यां राक्षसं कबन्धम् अमिलताम् । शबर्या अपि तौ अमिलताम् । सा तौ सुग्रीव-हनुमतयोः समीपं प्रैषयत् ।

अरण्यकाण्डस्य केचन नीतिश्लोकाः[सम्पादयतु]

१ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
   त्रयाणामपि लोकानामीश्वरो्ऽपि न तिष्ठति ॥

२ नानुतिष्ठन्ति कार्याणि भयेषु न बिभेति च ।
   क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥

३ सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
   अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ (३७-२)

४ पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ।
   कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ (५१-३२)

५ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ।
   शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ (६८-२४)

Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/अरण्यकाण्डम्

"https://sa.wikipedia.org/w/index.php?title=अरण्यकाण्डम्&oldid=373241" इत्यस्माद् पुनः प्राप्तिः