सुग्रीवः
सुग्रीवस्य जन्म[सम्पादयतु]
सूर्यपुत्रः सुग्रीवः कश्चन वानरश्रेष्ठ:। तारनामकस्य राज्ञ्यः पुत्री रुमा सुग्रीवस्य पत्नी । वाली सुग्रीवस्य अग्रजः । एकदा कपिराजः ऋक्षराज: एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् । तत् दृष्ट्वा तस्मिन् स्त्रीरूपे सूर्यः इन्द्रश्च अनुरक्तौ । सूर्यात् सुग्रीवः, इन्द्रात् वाली च जन्म प्राप्तवान् ।
वालीसुग्रीवयोः कलहः[सम्पादयतु]
एकदा मायावीनामकराक्षसेन सह वाली एकस्यां गुहायां युद्धं कुर्वाण: आसीत् । गुहातः रक्तप्रवाह आरब्धः। अग्रजः वाली स्वर्गस्थोऽभवदिति मत्वा सुग्रीवः तस्य उत्तरकर्म समासाद्य सिंहासनमधिरूढः । कतिपयदिनानन्तरं गुहातः बहिरागत्य सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितः वाली अनुजेन सह युद्धमकरोत् । भयेन पलायितः सुग्रीवः ऋष्यमूकपर्वतमगच्छत् ।
श्रीरामसन्दर्शनम्[सम्पादयतु]

रावणेन अपहृतां सीतामन्विष्यन् यदा श्रीरामः ऋष्यमूकपर्वतमागतवान् तदा सुग्रीवस्य मैत्री अभवत्।सुग्रीवसाहाय्येन सीताशोध: आरब्धः । हनूमता यदा लङ्कायां सीता दृष्टा तदा सुग्रीवसेना समुद्रस्य सेतुबन्धनं कृत्वा लङ्कां प्रविष्टवती। रावणकुम्भकर्णाभ्यां सह सुग्रीवः युद्धं कृतवान् । श्रीरामसाहाय्येन अग्रजं वालिनं हतवान् ।
मरणम्[सम्पादयतु]
श्रीरामस्य निर्गमनानन्तरम् अग्रजस्य पुत्राय अङ्गदाय किष्किन्धायां राज्याभिषेकं कृत्वा स्वयं दिव्यदेहधारी सन् सद्गतिं प्राप्तवान् ।
देवीभागवते सुग्रीवः[सम्पादयतु]
अयं शुम्भनिशुम्भनामकयोः दैत्ययोः दूतः । त्रिपुरसुन्दर्यां देव्यामनुरक्तौ दैत्यौ एनं सुग्रीवं दूतरूपेण देव्याः समीपं प्रेषितवन्तौ आस्ताम्।