दशरथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते । अयोध्याधिपः अयम् अजमहाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम । तस्य कोसलदेशस्य भानुमतः पुत्री कौसल्या , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री कैकेयी ,मगधदेशस्य शूरसेनस्य पुत्री सुमित्रा इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः भरतः , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य शान्ता नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय रोमपादाय दत्तवान् आसीत्। दशरथस्य आस्थाने धृष्टिः ,जयन्तः ,विजयः ,सुराष्ट्रः ,राष्ट्रवर्धनः ,अशोकः ,मन्त्रपालः तथा सुमन्तः इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य वसिष्ठः , वामदेवः , जाबाली , कश्यपः , गौतमः , मार्कण्डेयः तथा कात्यायनः इति सप्त पुरोहिताः आसन् ।

कैकेय्याः कृते दशरथेन दत्तं वरद्वयम्[सम्पादयतु]

पुरा तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

मुनिशापः[सम्पादयतु]

यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये श्रवणकुमारनामकं ताण्डवमुनिकुमारं मृगभ्रान्त्या मारितवान् । तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् ।

पुत्रकामेष्टिः[सम्पादयतु]

दशरथस्य पुत्रसन्तानं नासीत् । अतः वसिष्ठसूचनानुसारं पुत्रकामेष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् ।ऋष्यशृङ्गमुनेः नेतृत्वे अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् । यागान्ते सन्तुष्टः यज्ञनारायणः प्रसादरूपं पायसं दशरथाय प्रायच्छत् । तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् ।

श्रीरामादीनां विवाहः[सम्पादयतु]

प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् । जनकतनयां सीतां श्रीरामचन्द्रः, ऊर्मिलां लक्ष्मणश्च परिणीतवन्तौ । जनकस्य अनुजः कुशध्वजः। तस्य पुत्रीं माण्डवीं भरतः ,श्रुतकीर्तिं शत्रुघ्न: च परिणीतवन्तौ ।

दशरथस्य मरणम्[सम्पादयतु]

कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी

पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे मन्थरानाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति । पितृवाक्यं परिपालयितुं रामः वनं गतवान् । तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः । दशरथः पुत्रवियोगं सोढुं न शक्तवान् । मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् ।

आधाराः[सम्पादयतु]

१ वाल्मीकिरामायणम्


श्रेणी:रामायणस्य पात्रचित्रणम्

"https://sa.wikipedia.org/w/index.php?title=दशरथः&oldid=299957" इत्यस्माद् पुनः प्राप्तिः