मार्कण्डेयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मार्कण्डेयः
Information
Family मृकण्डुः (पिता) मरुद्वति (माता)
भार्या(ः)/भर्ता धूमोर्णा

मार्कण्डेयः पुराणे प्रसिद्धः ऋषिःमहाभारते अपि अस्य उल्लेखः विद्यते। एषः भृगुमहर्षेः वंशे जातः मृकण्डुमहर्षेः पुत्रः। मार्कण्डेयजैमिन्योः संवादः मार्कण्डेयपुराणे उक्तः विद्यते। भागवते अपि मार्कण्डेयेन कृता स्तुतिः, मार्कण्डेयस्य उपदेशाः च वर्तन्ते[१]। अद्यत्वे उत्तराखण्डस्य उत्तरकाश्यां यमुनोत्रीगमनमार्गे मार्कण्डेयाश्रमः विद्यते[२]

जन्म[सम्पादयतु]

मृकण्डुऋषेः अपत्यम् नासीत्। अतः सः शिवमुद्दिश्य तपः आचरितवान्। शिवः प्रत्यक्षः सन् मृकण्डुमुनये विकल्पद्वयं दत्तवान्। कश्चन बुद्धिहीनः दीर्घायुः बालः जायते, आहोस्वित् बुद्धिमान् अल्पायुः बालः जायते इति। मृकण्डुः बुद्धिमान् अल्पायुः एव बालः भवेत् इति वरम् अपृच्छत्। एवं तस्य मरुद्मत्यां मार्कण्डेयः जातः। तस्य आयुः षोडशवर्षाणि इति निर्णीतम् आसीत्।

व्युत्पत्तिः[सम्पादयतु]

मृकण्डोः अपत्यं पुमान् इति मार्कण्डेयः। शुभ्रादिभ्यश्च इति सूत्रेण ढक् प्रत्ययः।[३]

मृत्योः तारणम्[सम्पादयतु]

यमाद् मार्कण्डेयं रक्षन् शिवः

मार्कण्डेयः सर्वदा अपि शिवपूजने एव रतः आसीत्। शिवलिङ्गस्य अर्चने एव सः समयं यापयति स्म। यदा तस्य आयुः षोडशवर्षं भवति, तदानीं यमः तं नेतुम् आगच्छति। परन्तु सः शिवपूजायां निरतः इति कारणतः तं स्प्रष्टं न शक्नोति। परन्तु समाप्तायुः सः कथञ्चित् नेतव्यः इति कृत्वा नासिकायां गृहीत्वा कर्षति। तदानीं मार्कण्डेयः शिवलिङ्गस्योपरि पतति। शिवः तत्रागत्य यमेन सह युद्धं करोति। यमः पराजितः भवति। शिवः मार्कण्डेयः चिरञ्जीवी भवतु इति वरं दत्तवान्। अतः एव सप्तानां चिरञ्जीविनां नामोच्चारणानन्तरं मार्कण्डेयस्यापि नामोच्चारणं क्रियते। यथा-

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चिरजीविनः॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयं तथाष्टमम्।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः[४]

महाभारते शिवयमयोः युद्धं न वर्णितम्। मार्कण्डेयस्य निरन्तरपूजया सन्तुष्टः शिवः एव आगत्य मार्कण्डेस्य चिरञ्जीवित्वं समकल्पयत् इति कथा वर्तते [५]

पार्वत्याः वरदानम्[सम्पादयतु]

मार्कण्डेयपुराणान्तर्गते सतीपुराणे पार्वत्याः वरदानस्य उल्लेखः विद्यते। चिरञ्जीविने मार्कण्डेयाय पार्वती वीरचरिताख्यं स्तोत्रं रचयितुं शक्तिं दत्तवती। तेन मार्कण्डेयः पार्वत्याः चरितम् लिखितवान्। तदेव अद्यत्वे दुर्गासप्तशती इति प्रसिद्धं विद्यते[६]

भागवते[सम्पादयतु]

विष्णुं प्रार्थयमानः मार्कण्डेयः

भागवतपुराणे मार्कण्डेयस्य अपरा कथा वर्तते। तत्र कदाचित् मार्कण्डेयः विष्णोः सन्निधानं गत्वा मायाशक्तिः दर्शनीया इति न्यवेदयत्। विष्णुः स्वमायां दर्शयितुं समुद्रे वटपत्रे शिशुरूपेण शयनम् अकरोत्। मार्कण्डेयं परितः जलं व्यापृतम्। मार्कण्डेयः रक्षां प्राप्तुं विष्णोः मुखं प्रविष्टः। विष्णोः उदरे प्रविश्य सप्त लोकान् सर्वाणि सम्राज्यानि च दृष्टवान्। विष्णोः स्मरणेन ततः बहिः आगतवान्। तदनन्तरं १००० वर्षाणि यावत् विष्णोः सह एव जीवनं यापितवान्। तस्मिन् एव काले बालमुकुन्दाष्टकम् अरचयत् च[७]

महाभारते[सम्पादयतु]

महाभारते अपि मार्कण्डेयऋषेः उल्लेखः विद्यते। पाण्डवानां वनवासकाले मार्कण्डेयः काम्यकवनमागत्य पाण्डवान् अबोधयत्। तथैव कन्यादानकालः, कन्यादानकर्ता, पातिव्रत्यम् इत्यादिविषये नारदेन सह सम्भाषणं च अकरोत् इत्युल्लेखः दृश्यते। मार्कण्डेयाश्रमः सरयूगोमतीनद्योः सङ्गमस्थाने वर्तते। जन्मदिादिषु मार्कण्डेयस्य स्मरणं एवं क्रियते।

“द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम् ॥[३]

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मार्कण्डेयः&oldid=448128" इत्यस्माद् पुनः प्राप्तिः