यमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योगशास्त्रस्य प्रणयिता पतञ्जलिः

योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (यो. द. -२/३०) । अहिंसा – सत्य- अस्तेय (अचौर्यम्)- ब्रह्मचर्य –अपरिग्रहाः (शब्दस्पर्शादीनां भोगसाधनानामसंग्रहः ) एते पञ्च यमाः भवन्ति आसक्तिं परित्यज्य शरीरे विद्यमानेषु इन्द्रियेषु वैराग्यप्रदर्शनं यम इति कथ्यते । त्रिशिखाब्राह्मणोपनिषदि वर्णितं यत् –

देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः (२/२८) इति ।

प्राणवियोंगानुकूलव्यापाराभावः अहिंसा । वाङ्मनसोः याथार्थ्यं सत्यम् । अथवा वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयम् । अन्यस्य धनस्य नापहरणमस्तेयम् । अचौर्यमित्यर्थः । जननेन्द्रियस्य नियन्त्रणं भवति ब्रह्मचर्यम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवति । योगसाधनानामनङ्गीकारः अपरिग्रहः ।

यमाः[सम्पादयतु]

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. ब्रह्मचर्यम्
  5. अपरिग्रहः

एषां पालनेन बाह्यशुद्धिर्भवति ।

"https://sa.wikipedia.org/w/index.php?title=यमः&oldid=473089" इत्यस्माद् प्रतिप्राप्तम्