नारदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
नारदः

दैवे दैवसृष्टौ च विशेषप्रीतिमान् ऋषिपुङ्गवः नारदमहर्षिः । सः ब्रह्मणः मानसपुत्रः । महाविष्णोः परमभक्तः च । महतीनामिकां वीणां वादयन् सः नारायणनाम जपन् देशसञ्चारं करोति । मनुष्याणां हितकाङ्क्षिषु नारदस्य प्रथमं नाम । विष्णुतः प्राप्तां विद्यां सः अर्हान् मानवान् बोधितवान् । नारायणनाम स्मरन् त्रिषु लोकेषु अपि सञ्चरन् असहायानां सज्जनानाम् उपकारं करोति स्म सः ।
मानवेषु सच्चारित्र्ययुक्तः श्रेष्ठः पुरुषः कः इति यदा वाल्मीकिना पृष्टं तदा नारदः तं श्रीरामवृत्तान्तम् उक्तवान् । तस्य कथनात् प्रेरितः वाल्मीकिः तमसानदीतीरस्थे आश्रमे उपविश्य रामायणमहाकाव्यं रचितवान् ।
पाण्डवाः यदा नूतनस्य नगरस्य निर्माणार्थं चिन्तनं कुर्वन्तः आसन्, तदा नारदः तत्र गत्वा आत्मना दृष्टः इन्द्रपुरी अलकानगरी इत्यादीः दिव्यनगरीः वर्णितवान् । तदनन्तरं पाण्डवाः राजधानीम् इन्द्रप्रस्थं निर्मितवन्तः ।
'नारदः कलहप्रियः' इति अपवादवचनं श्रूयते लोके । वस्तुतः तु आपाततह् दर्शनात् नारदस्य कलहप्रियता दृश्यते चेदपि तस्य आन्तर्यस्य दर्शनात् ज्ञायते यत् लोककल्याणम् एव तस्य उद्देशः इति । सज्जनत्वरूपेण दुष्टतायाः परिवर्तनार्थं, धर्मस्य जयार्थं च नारदस्य कलहप्रियता मार्गं कल्पयति स्म । अत्र उदाहरणनि बहूनि । द्वापरयुगे बालः कृष्णः कुत्र वर्धमानः अस्ति इति ज्ञातुम् अशक्नुवन् कंसः यदा चिन्ताक्रान्तः आसीत् तदा नारदह् कृष्णस्य वासस्थलं कंसम् उक्तवान् । कृष्णस्य मारणार्थं त्वरां कुर्वन् कंसः स्वयं मरणं प्राप्तवान् । एवं लोकस्य पीडायाः निवारणार्थं, कंसस्य दुष्कृत्यानां समापनार्थं च नारदस्य 'कलहप्रियता' एव कारणं जाता ।
रावणस्य मरणार्थम् अपि परोक्षतया नारदः एव कारणम् आसीत् । कदाचित् रावणः नारदं पृष्टवान् यत् ओङ्कारस्य किं रहस्यं, किं च तात्पर्यम् इति । तदा नारदः उक्तवान् यत् तत् ज्ञातुं भवतः अर्हता नास्ति इति । एतत् श्रुत्वा कुपितः रावणह् नारदस्य जिह्वां च्छेदयितुम् उद्युक्तः । तदा नारदः शापं दत्तवान् - 'अचिरात् एव भवतः दशानाम् अपि शिरसां च्छेदः भवतु' इति ।
नारदस्य जिज्ञासा अधिका । कदाचित् सः महाविष्णुं पृष्टवान् - 'प्रपञ्चस्य सृष्टेः आधारः माया इति वचनं श्रूयते । सा माया कीदृशी ?' इति । तदा महाविष्णुः मन्दहासपूर्वकम् उक्तवान् - 'एतं विषयं भवान् स्वानुभवात् एव ज्ञास्यति' इति ।
कदाचित् नारदः यथापूर्वं भूलोकसञ्चारं कुर्वन् कस्मिंश्चित् ग्रामे सञ्चारं कुर्वन् आसीत् । तदा अकस्मात् महती वृष्टिः आगता । आश्रयम् इच्छन् नारदः कस्यचित् गृहस्य द्वारम् अङ्गुल्या ताडितवान् । काचित् सुन्दरी युवतिः द्वारम् उद्घाटितवती । तस्याः मातापित्रोः प्रार्थनां पुरस्कुर्वन् नारदः तां तरुणीं परिणीय तत्रैव वासम् आरब्धवान् । तस्य पुत्राः उत्पन्नाः । कौटुम्बिकजीवनस्य सुखदुःखादिकम् अनुभूतवान् सः । अथ कदाचित् रात्रौ उग्रः नदीप्रवाहः तस्य गृहम् आवृत्य अतिष्ठत् । पत्नीपुत्रादयः नदीप्रवाहेण नीताः । एतत् दृष्ट्वा दुःखं सोढुम् अशक्नुवन् नारदः विलपन् - 'हा हन्त ! मम पत्नीपुत्रादयः निर्गताः खलु ! हे भगवन् ! कीदृशः एषह् निष्करुणव्यवहारः भवतः' इति क्रन्दनं कृतवान् ।
अपरक्षणे एव भगवान् विष्णुः तस्य पुरतः प्रत्यक्षीभूय - 'नारद ! त्रिलोकसञ्चारिणः विवेकिनः भवतः का एषा दुर्दशा ? किम् एतत् अनुचितं विलपनम् ?' इति पृष्टवान् । तदा 'माया नाम का' इति सम्यक् अवगच्छन् नारदः विष्णुं साष्टाङ्गं नमस्कृत्य तस्य स्तोत्रं कृतवान् ।
'विवाहानन्तरं वर्षाभ्यन्तरे सत्यव्रतः आयुः समाप्तं भविष्यति' इति सावित्र्याः पितरम् अश्वपतिं नारदः एव उक्तवान् । ततः एव सावित्री मनस्थैर्यं प्राप्य यमं सम्मुखीकर्तुं, पत्युः प्राणान् प्रतिप्राप्तुं च शक्तवती । एवं बह्वीषु पुराणकथासु नारदस्य प्रस्तावः विशेषतः कृतः दृश्यते । भक्तिसाहित्यक्षेत्रे नारदभक्तिसूत्राणां विशेषमहत्त्वम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नारदः&oldid=423193" इत्यस्माद् पुनः प्राप्तिः