अश्वत्थामा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अश्वत्थामः नारायणास्त्रप्रयोगं करोति
अश्वत्थामः नारायणास्त्रप्रयोगं करोति

बाल्यम्[सम्पादयतु]

कृपिद्रोणाचार्यौ एतस्य पितरौ । क्षीरस्य स्थाने एषः पिष्टोदकं पीतवान् इति श्रूयते । जन्मनः अनुक्षणम् एव एषः अश्वः इव हेषारवं कृतवान् आसीत् । तदर्थं तस्मै 'अश्वत्थामा’ इति नामकरणं कुर्वन्तु इति अशरीरवाणी श्रुता ।

महाभारतयुद्धे तस्य पात्रम्[सम्पादयतु]

द्रोणः अर्जुनस्य पुरतः युद्धभूमौ कष्टम् अनुभवन् यदा आसीत् तदा एषः अर्जुनेन सह युद्धं कृत्वा तं रक्षितवान् । किन्तु युद्धे पराजयं प्राप्तवान् । अर्जुनस्य श्लाघनं कृत्वा कर्णं निन्दितवान् । माहिष्मतेः राजा नीलराजेन सह युद्धं कृतवान् । घटोत्कचेन सह युद्धं कृतवान् । द्रोणवधस्य अनन्तरं दुर्योधनः सेनाधिकारम् अश्वत्थाम्ने न दत्तवान्, कर्णाय दत्तवान् । तस्मिन् सन्दर्भे कर्णकृपयोः बहुवाग्वादः चलति । कर्णः कृपस्य तिरस्कारं करोति । एषः कर्णं मारयितुं यत्नं कृतवान् । नारायणास्त्रस्य प्रयोगः । युद्धे अशक्तः भूत्वा शस्त्रत्यागं कृत्वा पलायनं कृतवान् । भीमेन सह अपि युद्धं कृतवान् । युधिष्ठिरः अश्वत्थामानं निन्दयति । पाण्ड्यराजानं मारितवान् । धृषृद्युम्नेन सह युद्धम् अकरोत् । पाण्डवैः सह सन्धिं करोतु इति दुर्योधनं प्रेरयति । दुर्योधनः यदा सरोवरे आत्मानं गोपितवान् आसीत् तदा एषः कृपकृतवर्माभ्यां सह दुर्योधनस्य समीपं गतवान् । दुर्योधनः अश्वत्थामानं सेनाधिपतित्वेन नियुक्तवान् । अश्वत्थामा पाण्डवान् मारयामि इति प्रतिज्ञां करोति । उलूकेन अनेकेषां काकानां मारणं दृष्ट्वा स्वेनापि एवमेव पाण्डवाः मारयितव्याः इति चिन्तितवान् । पाण्डवानां शिबिरस्य द्वारे अश्वत्थाम्ना महाभूतदर्शनं प्राप्तम् । अग्नये स्वस्य शरीरस्य आहुतिं दत्त्वा शिवस्य प्रीतिं प्राप्य शैवतेजं प्राप्तवान् । पाण्डवानां शिबिरे धृष्टद्युम्नं, शिखण्डिम्, उपपाण्डवान् च मारितवान् । द्रौपद्याः प्रेरणया भीमः अश्वत्थामानं मारयितुं यत्नं करोति । पाण्डवानां मारणार्थम् अश्वत्थामा ब्रह्मास्त्रस्य (अपाण्डवेयास्त्र अथवा ऐषीकास्त्र) प्रयोगं करोति । श्रीकृष्णेन शापं प्राप्तवान् । पाण्डवाः तस्य शिरोरत्नम् आकृष्य स्वीकृतवन्तः । तीर्थयात्रार्थं प्रस्थाय अश्वत्थामा नर्मदातटम् आगत्य तत्रत्यैः मुनिवृन्दैः 'सुप्तघातक' इति निन्दितः भवति । बदरीं गत्वा व्यासं दृष्ट्वा तस्य सूचनानुगुणं सेतुस्नानं कृतवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अश्वत्थामा&oldid=479933" इत्यस्माद् प्रतिप्राप्तम्