विदुरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

महात्मा विदुरः तु साक्षात् धर्मस्य अवतारः आसीत् । माण्डव्यऋषेः शापेन एषः शूद्रः भूत्वा जन्म प्राप्तवान् । एषः महाराजस्य विचित्रवीर्यस्य दास्याः पुत्रः । एकरीत्या एषः धृतराष्ट्रस्य, पाण्डोः च भ्राता एव । एषः बहुबुद्धिमान्, नीतिज्ञः, धर्मज्ञः, विद्वान्, सदाचारी, भगवद्भक्तः च आसीत् । एतस्य गुणानां कारणेन जनाः एतं बहुगौरवेण पश्यन्ति स्म । निर्भीतः सत्यवादी च एषः धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।

दुर्योधनः जन्मनः अनुक्षणमेव शृगालः इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेकाः अमङ्गलसूचनाः अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुरः ब्राह्मणैः सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवतः एषः पुत्रः निश्चयेन कुलनाशकः भविष्यति । अतः एतस्य त्यागः वरम् । एषः जीवति चेत् भवद्भिः दुःखम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मनः निमित्तं सम्पूर्णपृथिव्याः परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् धृतराष्ट्रः विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दुःखम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दुःखम् आहूतवान् ।

यदा दुर्योधनः पाण्डवानाम् उपरि अत्याचारान् कर्तुम् आरब्धवान् तदा विदुरः सहजतया पाण्डवेभ्यः सहानुभूतिं दर्शयन् आसीत् । यतः प्रथमं तु ते पितृहीनाः आसन् । द्वितीयं ते धर्मात्मनः आसन् । विदुरः प्रत्यक्षपरोक्षरूपेण पाण्डवानां रक्षणं साहाय्यं च करोति स्म । पाण्डवानां यावत् वा विपदाः आगच्छन्तु नाम अन्तिमः विजयः तु तेषामेव इति विदुरः ज्ञातवान् आसीत् । दीर्घायुष्मतः पाण्डवान् केऽपि मारयितुं न शक्नुवन्ति इति एषः जानाति स्म । कदाचित् क्रीडासमये दुर्योधनः भीमसेनाय विषं खादयित्वा तं गङ्गानद्यां नुत्तवान् आसीत् । भीमः समये न प्रत्यागतवान् इति मातुः कुन्त्याः चिन्ता, दुर्योधनस्य विषये संशयः अपि आरब्धः । तदा विदुरः तस्याः समाधाननं कारयित्वा वदति – ‘एतस्मिन् अवसरे मौनेन लक्ष्यं साधयन्तु । दुर्योधनस्य विषये सन्देहस्य प्रकटनम् अपायकारि अस्ति । कुपितः सः भवत्याः अन्यबालान् अपि पीडयेत् । भीमसेनः मृतः नास्ति । सः शीघ्रं प्रत्यागच्छति’ इति । कुन्ती विदुरस्य वचनम् अङ्गीकृतवती । तस्य वचनं सत्यमभवत् । कतिपय दिनानन्तरं शक्तः भीमः प्रत्यागतवान् ।

लाक्षागृहतः बहिः गन्तुं मार्गं युक्तिं च विदुरः एव पाण्डवेभ्यः सूचितवान् आसीत् । एषः केवलं नीतिज्ञः नासीत् । एतस्य बहुभाषाणां ज्ञानमपि आसीत् । पाण्डवानां वारणावतं प्रति गमनसमये एषः म्लेच्छभाषया तेषां विपत्तेः सूचनां, मुक्तिं प्राप्तुं कः उपायः अनुसरणीयः ? इत्यपि सूचितवान् आसीत् । तावदेव न, लाक्षागृहतः बहिः गन्तुं कञ्चित् मार्गं कर्तुम् एषः पूर्वमेव सेवकमपि योजितवान् आसीत् । सः भूमेः अन्तः लाक्षागृहतः वनं गन्तुं मार्गं सज्जीकृतवान् आसीत् । लाक्षागृहाय अग्निं प्रज्वाल्य पाण्डवाः मात्रा कुन्त्या सह तेन मार्गेण एव बहिः आगतवन्तः । गङ्गातटे नद्याः पारगमनाय विदुरः नाविकेन सह नौकामपि योजितवान् आसीत् । एवं सर्वे पाण्डवाः गङ्गां पारयित्वा गतवन्तः । बुद्धिमान्, नीतिज्ञः विदुरः एवं पाण्डवानां प्राणान् रक्षितवान् । दुर्योधनादयः यथा न जानीयुः तथा अवधानं दत्तवान् । पाण्डवाः लाक्षागृहे मात्रा सह दग्धाः अभवन् इत्येव जनाः चिन्तितवन्तः । सर्वत्र शारीरकस्य बलस्य, अस्त्रबलस्य च उपयोगः न भवति । आत्मरक्षणाय नीतिबलस्य आवश्यकता अपि भवति । महात्मा विदुरः धर्मशास्त्रज्ञानेन सह नीतिभाण्डारः अपि आसीत् ।

यथा पाण्डवानां विषये विदुरस्य सहानुभूतिः प्रेमः च आसीत् तथैव धृतराष्ट्रस्य, तस्य पुत्राणां विषयेऽपि एतस्य प्रीतिः, आत्मीयता च आसीदेव । तेषां हितदृष्ट्या सर्वदा उत्तमाः सूचनाः ददाति स्म । हितेन सत्येन युक्तानि एतस्य वचनानि दुर्योधनेभ्यः अप्रियाणि भवन्ति स्म । किन्तु एषः तेषाम् अप्रसन्नताम् अविचिन्त्य तेषां शुभम् इच्छति स्म । दुर्मार्गतः तान् बहिः आनेतुम् अनवरतं यत्नं करोति स्म । दुरात्मनः पुत्रस्य प्रभावेण धृतराष्ट्रः विदुरस्य वचनं न शृणोति स्म । तेन कष्टमपि अनुभवति स्म । तथापि विदुरस्य विषये धृतराष्ट्रस्य बहुविश्वासः आसीत् । एतं बुद्धिमान्, दूरदर्शी, स्वस्य परमहितचिन्तकः इति भावयति स्म । एतस्य सूचनां विना किमपि कार्यं न करोति स्म । पाण्डवैः सह व्यवहारसमये तु विशेषरीत्या एतस्य सूचनां स्वीकरोति स्म । पाण्डवानां सम्बन्धेऽपि एषः निष्पक्षपातिः इति धृतराष्ट्रः जानाति स्म ।

मातुलस्य शकुनेः योजनानुसारं दुर्योधनः पाण्डवैः सह द्यूतक्रीडायाः प्रस्तापं यदा पितुः पुरतः उपस्थापयति तदा अपि धृतराष्ट्रः विदुरम् अभिप्रायस्य निमित्तम् आहूतवान् । यदि मम वचनं न अङ्गीकरोति तर्हि अहं प्राणत्यागं करोमि इति दुर्योधनः पितरं भाययन् आसीत् । तथापि सः स्पष्टतया पुत्रं वदति – ‘विदुरेण सह चिन्तनेन विना अहं भवते द्यूतक्रीडार्थं कदापि अनुमतिं न ददामि’ इति । दुर्योधनस्य पापयुक्तं प्रस्तावं श्रुत्वा विदुरः इदानीं कलियुगः आगच्छन् अस्ति इति ज्ञातवान् । सः एतस्य प्रस्तावस्य नितरां विरोधं कृतवान् । अग्रजम् उक्तवान् यद् – “भवतः, भवतः अनुजस्य पुत्राणां वैरत्वम् अधिकमेव भवति । कस्यापि हितं न भवति । द्यूतक्रीडां न क्रीडन्तु । तेन उभयत्र अपि श्रेयः भवति” इति ।

धृतराष्ट्रः विदुरस्य अभिप्रायं प्रशंसितवान् । दुर्योधनाय बहुबुद्धिवचनम् उक्तवान् । किन्तु सः एतस्य वचनं न अङ्गीकृतवान् । द्यूते पाण्डवानाम् अपमानः भवेदेव इति सः सज्जः आसीत् । पाण्डवानां वैभवं द्रष्टु न शक्नोति स्म । अन्ते धृतराष्ट्रः पुत्रस्य दुर्मार्गमेव अनुसृत्य विदुरस्य द्वारा पाण्डवेभ्यः इन्द्रप्रस्थतः हस्तिनापुरम् आगन्तुम् आह्वानं प्रेषितवान् । अनिच्छया एव विदुरः अग्रजस्य आज्ञां पालितवान् ।

इन्द्रप्रस्थं गत्वा विदुरः पाण्डवेभ्यः सर्वान् विषयान् ज्ञापितवान् । महाराजः युधिष्ठिरः द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि पितुः आज्ञा इति मत्वा दुर्योधनस्य अह्वानम् अङ्गीकृतवान् । द्यूतस्य समयेऽपि विदुरः तस्य दुष्परिणामान् धृतराष्ट्राय वदति – ‘इदानीं वा जागरितः भवतु । भवान् दुर्योधनस्य वचनस्य पालनं न करोतु । कुलं रक्षतु । पाण्डवैः सह विरोधं कृत्वा तान् भवतः शत्रवः इव न करोतु । तेन भवतः सर्वनाशः भविष्यति’ इति । किन्तु क्रीडा आरब्धा । शकुनेः कुतन्त्रेण पाण्डवानां पराजयः अभवत् । नियमानुसारं ते वनवासार्थं प्रस्थितवन्तः । तेषां गमनानन्तरं धृतराष्ट्रस्य मनसि बहुचिन्ता व्यथा च आरब्धा । सः विदुरम् आहूय स्वस्य मनः उद्घाट्य पृच्छति – ‘इदानीं प्रजाः अस्माकं विषये सन्तुष्टाः भवेयुः । कुपितैः पाण्डवैः अस्माकं कोऽपि हानिः न भवेत् । एतादृशः व्यवहारः कथं करणीयः ?’ इति । तदा विदुरः तस्य समाधानं कारयित्वा वदति – ‘राजन् ! धर्मः, अर्थः, कामः च एते त्रयः अपि धर्मेण एव प्राप्यन्ते । राज्यस्य मूलं धर्मः एव । अतः स्थिरतया धर्मम् अनुसृत्य पाण्डवानां, भवतः पुत्राणां च रक्षणं करोतु । भवतः पुत्रः शकुनेः सूचनानुसारं पूर्णसभायां धर्मस्य तिरस्कारं कृतवान् अस्ति । यतः कपटद्यूतक्रीडायां सत्यसन्धस्य युधिष्ठिरस्य पराजयं कारयित्वा तस्य सर्वस्वमपि स्वीकृतवान् अस्ति । एषः महापराधः, अधर्मः च । एतस्य दोषस्य निवारणार्थम् एकः एव उपायः इत्युक्ते पाण्डवैः स्वीकृतं सर्वं पुनः तेभ्यः यच्छन्तु । स्वस्य यावान् अधिकारः अस्ति तेन एव सन्तुष्टः भवतु अन्येषाम् अधिकाराणाम् आक्रमणं न करोतु । एषः एव राज्ञः परमधर्मः । एवम् आचरन्ति चेदेव भवतः पुत्रः कलङ्करहितः भूत्वा गौरवं प्राप्नोति । सोदरैः सह कलहः अपि न भवति । पुत्राणां सौभाग्यं किञ्चित् वा आवश्यकं चेत् एतत् कार्यं शीघ्रमेव करोतु । मोहवशात् भवान् एवं न करोति चेत् कुरुवंशस्य नाशः भविष्यति । यदि भवतः पुत्रः वचनं न शृणोति तर्हि तस्य दुरात्मनः बन्धनं कृत्वा युधिष्ठिरं राज्यसिंहासने उपवेशयतु । युधिष्ठिरः तु रागद्वेषातीतः । अतः सः एव शासनं करोतु । दुःशासनः पूर्णसभायां भीमसेनस्य, द्रौपद्याः च क्षमां प्रार्थयतु । एतावत् पर्याप्तम् । तेन भवन्तः कृतकृत्याः भवन्ति’ इति ।

विदुरस्य वचनं सत्ययुक्तं, धर्मयुक्तं, हितपूर्णं, निर्भितं च आसीत् । किन्तु यः मरणोन्मुखः अस्ति तस्मै निष्प्रयोजकम् औषधमिव धृतराष्ट्रः विदुरस्य वचनं न इष्टवान् । सः कोपेन वदति – ‘विदुर ! इदानीं भवते मम आवश्यकता नास्ति । इच्छति चेत् अत्र तिष्ठतु । अन्यथा गच्छतु । भवान् वारं वारं पाण्डवानां पक्षमेव गृह्णाति इति अहं जानामि । तेषां निमित्तम् अहं मम पुत्रान् कथं त्यजामि’ इति ? कौरवाणां कुलस्य नाशः जायमानः अस्ति इति ज्ञात्वा विदुरः तूष्णीम् उपविष्टवान् । अनन्तरं प्रस्थाय सः काम्यकवने स्थितानां पाण्डवानां समीपं गतवान् । तेभ्यः स्वस्य आगमनस्य कारणम् उक्तवान् । तावता विदुरः पाण्डवानां समीपं गतवान् इति ज्ञात्वा धृतराष्ट्रस्य बहुपश्चात्तापः अभवत् ।

विदुरस्य चिन्तनं स्वीकुर्वन्ति चेत् पाण्डवाः इतोऽपि बलशालिनः भवन्ति इति चिन्तयित्वा धृतराष्ट्रः अनुक्षणं सञ्जयं प्रेषयित्वा विदुरम् आनेतुम् उक्तवान् । रागद्वेषरहितः विदुरः तथैव पुनः हस्तिनापुरं प्रत्यागत्य धृतराष्ट्राय वदति ‘मह्यं पाण्डवाः, भवतः पुत्राः च सर्वे समानाः । किन्तु पाण्डवाः असहायकाः । अतः तेषां साहाय्यं करणीयम् इति भावः मनसि उत्पद्यते । मम मनसि भवतः पुत्राणां विषये द्वेषस्य भावः तु नितरां नास्ति’ इति । धृतराष्ट्रः स्वस्य अनुचिताय व्यवहाराय विदुरे क्षमां याचितवान् । अनन्तरं विदुरः पूर्ववत् तस्य सेवायां निरतः अभवत् ।

कदाचित् रात्रौ धृतराष्ट्रस्य निद्रा न आगता । तदा सः रात्रौ एव विदुरम् आहूय शान्तेः उपायं पृष्टवान् । तस्मिन् अवसरे विदुरः धृतराष्ट्राय धर्मस्य नीतेः च सुन्दरम् उपदेशं दत्तवान् । सा एव विदुरनीतिः इति उद्योगपर्वणः ३३तः ४० पर्यन्तम् अष्टेषु अध्यायेषु सङ्गृहीता अस्ति । एषः विषयः स्वतन्त्रतया अध्ययनं कर्तुं मननं कर्तुं च योग्यः अस्ति ।

विदुरस्य वचनं श्रुत्वा धृतराष्ट्रस्य तृप्तिः न अभवत् । सः इतोऽपि श्रोतुम् इष्टवान् । तदा विदुरः वदति ‘महाराज ! मया यद् वक्तव्यम् आसीत् तत् सर्वम् उक्तवान् अस्मि । इदानीं ब्रह्मणः पुत्रः सनत्सुजातः नामकः कश्चन सनातनः ऋषिः आगच्छति । सः एव भवते तत्त्वोपदेशं करोति । तत्त्वोपदेशं कर्तुं मम अधिकारः तु नास्ति । यतः मम जन्म शूद्रायाः गर्भे अभवत् ’ एवम् उक्त्वा सः अनुक्षणं सनत्सुजातम् अस्मरत् । अविलम्बेन एव सनत्सुजातः महर्षिः तत्र प्रत्यक्षः अभवत् । सः राज्ञः धृतराष्ट्रस्य प्रश्नेभ्यः उत्तरं यच्छन् परमात्मनः स्वरूपस्य, तस्य साक्षात्कारस्य विषये बहुसुन्दरतया विवेचनाम् अकरोत् । एवं विदुरः धृतराष्ट्राय सनत्सुजातसदृशस्य सिद्धयोगिनां, परममहर्षेः द्वारा तत्त्वोपदेशं कारयित्वा तस्य श्रेयोमार्गं प्रशस्तीकृतवान् । महात्मानां जीवनमेव इतरेषां श्रेयोनिमित्तं भवति । विदुरः तत्त्वज्ञानी चेदपि स्वस्य शूद्रत्वस्य कारणेन सः स्वयं तत्त्वोपदेशम् अकृत्वा सनातनस्य मर्यादायाः रक्षणं कृतवान् । एवं ज्ञानिना अपि शास्त्रमर्यादा रक्षणीया इति उपदेशं दत्तवान् । सनत्सुजातस्य एषः उपदेशः ‘सनत्सुजातीय’ इति नाम्ना उद्योगपर्वणः ४१ तः ४६ पर्यन्तं षड्षु अध्यायेषु सङ्गृहीतः अस्ति ।

विदुरः केवलं ज्ञानी, तत्त्वदर्शी च नासीत् । सः कश्चन अनन्य भगवद्भक्तः अपि आसीत् । श्रीकृष्णस्य चरणयोः एतस्य निश्चला प्रीतिः आसीत् । परमात्मा अपि एतं बहुइच्छति स्म । यदा श्रीकृष्णः पाण्डवानां राजदूतः भूत्वा हस्तिनापुरं गतवान् तदा सः राज्ञा धृतराष्ट्रेण सभासद्भिः च मिलित्वा अनन्तरं विदुरस्य गृहं गत्वा तस्य आतिथ्यं स्वीकृतवान् । अनन्तरं स्वस्य पितृभगिन्या कुन्त्या मिलितवान् । यदा श्रीकृष्णः दुर्योधनं दृष्टवान् तदा एषः स्वस्य सम्बन्धी इति भावेन तं भोजनार्थं तिष्ठतु इति प्रार्थितवान् चेदपि श्रीकृष्णः तस्य आह्वानं स्पष्टतया तिरस्कृत्य पुनः विदुरस्य गृहम् एव आगतवान् । भीष्‍मः, द्रोणः, कृपः, बाह्लीकः च इत्यादयाः अनेके मेलनार्थं तत्रैव आगतवन्तः । सर्वे आतिथ्यं स्वीकरोतु इति श्रीकृष्णं प्रार्थितवन्तः । किन्तु श्रीकृष्णः सर्वान् सम्मानपूर्वकं प्रेषयित्वा विदुरस्य गृहे एव स्थित्वा ब्राह्मणाय प्रथमं भोजनं दत्त्वा स्वयमपि भोजनम् अकरोत् । एतेन विदुरस्य श्रीकृष्णस्य विषये सह कियत् प्रेम आसीत् इति ऊहां कर्तुं शक्नुमः । प्रेम्णा विना केवलं राजयोग्येन आडम्बरेण सः आकृष्टः न भवति । किन्तु प्रेमरसे निमज्जितं सामान्येन भोजनेन अपि सः तृप्तः भवति स्म।

भोजनानन्तरं रात्रौ अपि श्रीकृष्णः विदुरस्य गृहे एव शयितवान् । सम्भाषणं कुर्वन्तौ रात्रिं यापितवन्तौ । प्रातःकाले नित्यकर्म समाप्य श्रीकृष्णः कौरवाणां सभायै गतवान् । तत्र दुर्योधनः श्रीकृष्णस्य बन्धनस्य दुःसाहसपूर्णां योजनां यदा करोति तदा विदुरः तस्मै परमात्मनः महिमायाः वर्णनं कुर्वन् वदति ‘एषः साक्षात् सर्वतन्त्रः स्वतन्त्रः ईश्वरः । भवान् एतं तिरस्करोति चेत् अग्नौ पतितः पतङ्गः इव भवतः सर्वनाशः भविष्यति’ इति । अनन्तरं श्रीकृष्णः स्वस्य विश्वरूपं दर्शितवान् । भीताः जनाः नेत्रनिमीलनं कृतवन्तः । केवलं भीष्मपितामहः, गुरुद्रोणाचार्यः, विदुरः, सञ्जयः, ऋषयः च विश्वरूपदर्शनं कृतवन्तः । यतः भगवान् एतेभ्यः दिव्यदृष्टिं दत्तवान् आसीत् । किञ्चित् कालानन्तरं स्वस्य लीलां समाप्य श्रीकृष्णः ततः प्रस्थितवान् । विदुरः अपि अन्यैः सह किञ्चित् दूरपर्यन्तं तं प्रेषयित्वा आगतवान् ।

यदा श्रीकृष्णस्य सन्धानमपि विफलं जातं तदा पक्षद्वयेऽपि युद्धस्य सज्जता आरब्धा । अष्टादश-अक्षोहिणी सैन्येन सह पाण्डवाः कौरवाः कुरुक्षेत्रस्य अङ्गणे मिलितवन्तः । अष्टादशेषु दिनेषु सम्पूर्णस्य सैन्यस्य नाशः अभवत् । धृतराष्ट्रस्य पुत्रपौत्राणां सर्वनाशेन सः बहुदुःखम् अनुभूतवान् । तदा विदुरः मृत्योः अनिवार्यतां निरूपयन् उक्तवान् – ‘युद्धे यः मरणं प्राप्नोति तस्य उत्तमगतिः लभ्यते । अतः तेषां निमित्तं शोकः न करणीयः । जीवः यावत् वारं जन्म प्राप्नोति तावद् वारमपि सः अन्यान्यव्यक्तिभिः सह सम्बन्धं प्राप्नोति । मृत्योः अनन्तरं सर्वे सम्बन्धाः अपि स्वप्नाः इव विलीनाः भवन्ति । अतः मृतेभ्यः सम्बन्धिकेभ्यः बुद्धिमान् शोकं न करोति । सुखैः दुःखैः सह सम्बद्धाः संयोगः वियोगः इत्यादिघटनाः अपि स्वयं कृतानां शुभाशुभकर्माणां फलरूपेण लभ्यन्ते । कर्मफलं तु सर्वैः जीवैः अनुभोक्तव्यमेव इत्युक्त्वा अनन्तरमपि विदुरः जगतः नश्वरता, निःसारता, परिवर्तनं, जन्ममृत्योः क्लेशः, जीवस्य अविवेकः, मृत्योः दृष्ट्यां सर्वेषां समानता, धर्मस्य आचरणस्य महत्त्वम् इत्यादिकम् उपदिशन् प्रापञ्चिकेन दुःखेन मुक्तिं प्राप्तुम् उपायानां दिग्दर्शनं कारितवान् ।

युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरं धृतराष्ट्रः पाण्डवानां समीपे एव आसीत् । तदा विदुरः अपि तत्रैव स्थित्वा तेन सह सर्वदा धर्मस्य विचारे सम्भाषणं करोति स्म । यदा धृतराष्ट्रः पत्न्या सह वानप्रस्थाश्रमं प्रस्थितवान् तदा एषः अपि तैः सह वनं गतवान् । वने विदुरः घोरतपसः आचरणस्य व्रतम् आरब्धवान् । आहारेण विना निर्जने वने एकान्तवासम् आरब्धवान् । शून्ये वने यदाकदापि जनानां दर्शनं भवति स्म । किञ्चित्कालानन्तरं कदाचित् महाराजः युधिष्ठिरः स्वस्य समस्तपरिवारेण, सैन्येन सह ज्येष्ठपितृव्यं, पितृव्यां, मातरं कुन्तीं, विदुरं च द्रष्टुं वनम् आगतवान् । तत्र विदुरम् अदृष्ट्वा तस्य विषये धृतराष्ट्रं पृच्छन् आसीत् । तावता तस्मै दूरे विदुरः दृष्टः । सः शिरसि जटां कृत्वा दिगम्बरः भूत्वा मुखे कञ्चन शिलाखण्डं स्थापितवान् आसीत् । तस्य मलिने, दुर्बले शरीरे नाड्यः उपरि दृश्यन्ते स्म । सः धृतराष्ट्रस्य आश्रमं पश्यन् पृष्ठतः गच्छन् आसीत् ।

युधिष्ठिरः तस्य मेलनार्थं तस्य पृष्ठतः धावितवान् । स्वस्य नाम, परिचयम् उक्त्वा अपि तम् आहूतवान् । धावन् विदुरः गहनं वनं गत्वा कस्यचित् वृक्षस्य साहाय्येन स्थिरतया स्थितवान् । राजा युधिष्ठिरः यदा पश्यति तदा तस्य शरीरं केवलम् अस्तिपञ्जरम् इव आसीत् । तम् अभिज्ञातुम् एव कष्टं भवति स्म । युधिष्ठिरः पुरतः स्थित्वा तस्य पूजाम् अकरोत् । समाधिस्थः विदुरः तदेकदृष्ट्या युधिष्ठिरं पश्यन् आसीत् । अनन्तरं सः योगबलेन स्वस्य अङ्गाङ्गान् युधिष्ठिरस्य अङ्गाङ्गेषु अङ्गानि, इन्द्रियाणि तस्य इन्द्रियेषु, प्राणान् तस्य प्राणेषु संयुज्य युधिष्ठिरस्य शरीरे प्रवेशितवान् । तस्य निर्जीवं शरीरं पूर्ववत् वृक्षस्य साहाय्येन स्थितमासीत् । एवं साक्षात् धर्मस्य अवतारः महात्मा विदुरः धर्ममयं जीवनं यापयित्वा अन्ते धर्ममूर्तेः महाराजस्य युधिष्ठिरस्य शरीरे एव विलीनः अभवत् ।


""

"https://sa.wikipedia.org/w/index.php?title=विदुरः&oldid=406300" इत्यस्माद् पुनः प्राप्तिः