सामग्री पर जाएँ

माण्डव्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



पुरातने काले माण्डव्य इति विश्रुतः कश्चन मुनिर्बभूव । स धृतिमान्, सर्वधर्मज्ञः सत्यवाक्यश्चासीत् । तीर्थक्षेत्रपरिभ्रमणशीलोऽयं ग्रामेभ्यः सन्निकृष्टानि यानि कानि च तीर्थानि विचरन् कस्मिंश्चित् प्रदेशे आश्रमं कृत्वा न्यवसत् । एष कदाचित् उटजद्वारे कस्यचित् वृक्षस्य मूले उपाविशत् । तत्र स ऊर्ध्वबाहुमौनमास्थाय ध्यानयोगेनातिष्ठत् । एवं वर्तमानस्य तस्य महर्षेः कालो महानतिचक्राम ।
एकदा चोरा ग्रामेभ्यः बहूनि धान्यादीनि अपाहरन् । अपहृतधनान् तान् रक्षिणोऽन्वधावन् । ततो रक्षिभिरनुसार्यमाणास्ते चोरितौर्द्रविणैः सह तमाश्रममविशन्, यस्मिन् स महायोगी चिराय तीव्रं तपश्चरति । भटेभ्यो भीतास्ते दस्यः तस्य मुनेः कुटीरे तानि मुष्टानि धनादीनि न्यक्षिपन् । तत् इमे तत्र क्वापि प्रच्छन्नं तस्थुः । तावद् राजभटास्तत्रागताः ते च तत्र तपसि स्थितं मुनिमेनमपश्यन् । एते राजपुरुषा मुनिमेनमूचुः -"भोस्तपोधन! भ्रूहि कतमेन मार्गेण चोराः पलायन्त । तेन वयं यथा शीघ्रतरमनुगच्छाम" इति ।
तथा तु तेषां रक्षिणामेवंवदतां स ऋषिसत्तमो न किञ्चित् साध्वसाधु वा वचनमवदत् । अनन्तरं ते राजभटास्तत्रेतस्ततो विचिन्वानाः प्रच्छन्नान् तान् तस्करान् गुप्तानि चुरितानि धनादीनि चापश्यन् । ततस्तेषां 'मुनिरयमपि चोरेष्वन्यतमो भवेत्’ इति शङ्का समुदभात् । अतस्ते मुनिममुं बध्वा चोरैः सह नीत्वा राज्ञे न्यवेदयन् । स भूपालः सम्यग् अविचार्येवमादिदेश । "भोः कदर्यमेनं ब्राह्मणां चोरांश्च शूलमारोप्य संहरत" इति । तदनु, राजपुरुषास्तस्य मुनेर्महिमानमविदित्वा, राज्ञो यथानिदेशं तं मुनिं शूलग्रमारोहयन् । स च धार्मात्मा शूलमारोपितोऽपि, महता कालेनापि , मरणं न ह्यवाप । अपि तु प्राणान् दधार् ।
अथैतस्य वृत्तान्तमाकर्ण्यं, तत्रत्या अन्ये अनेके तपस्विनः शूलमारुढमेनं द्रष्टुमाययुः । कृपालवस्ते मुनेरीद्दशीमवस्थामालोक्य, नितरां दुःखिता अभवन् । ते रात्रौ विहङ्गमा भूत्वा, सन्निपत्य, यथास्क्ति दर्शयन्तः, तेन सह संलपन्ति स्म " भोः भगवान् । भवान् निखिलं संसारममुं तृणाय मन्यते । तथा प्रशान्तसत्वं निस्पृहोऽसि । ब्रह्मणि निष्ठश्चासि । एतादृशे ब्राह्मणे त्वयि किमेतत् विधिविलसितम् । दुः सहमिदं राजशास्नजन्यं दुःखमनुभवन्तं भवन्तं साक्षात् पश्यतः कस्य वा सहृदयस्य हृदयं न दीर्येत् ? मुने ! ब्रूहि, कं वा महान्तमपराधं कृतवानसि। यं श्रुत्वा तस्य प्रतीकाराय वयं यतेमहि" इति ।
तन्निशम्य, स महानुभावः प्रोवोचत् -"हे वयस्याः ! नाहमत्र कमप्यन्यं दोषिणं कथयामि । नहि मेऽन्योऽपराध्यति । मथैव पुराकृतस्य पापस्य कर्मणः फ्लमनुभवामि " इति ।
अथ क्दाचित् रक्षिणस्ते बहून् संवत्सरानेवं दुःखमनुभान्तमेनं दृष्ट्वा, राजानमुपगम्य, यथावृत्तं तस्मै विज्ञापनामकुर्वन् । राजा तु दूतैर्निवेद्यमानं तमृर्षि निशम्य, मन्त्रिभिः सह निष्क्रम्य, शूलस्थं तं महर्षि ददर्श । प्रणम्य च सविनयं प्रार्थयामास " भो मुनिश्रेष्ठ ! अज्ञानादहं परमार्थमबौध्वा निरपराधिने महात्मने भवते दण्डमाज्ञाप्याद्रुह्यम् । करुणालो ! दययाऽऽकस्मिकं ममैतं दोषं क्षन्तुमहसि । उपाध्याय ! सुतनिर्विशेषेऽमुष्मिन्नन्तेवसिजने न त्वं त्रोद्धुमर्हसि । प्रसीद् " इति । ततः स मुनिरित्यं याचमानस्य नृपतेर्वचनमार्ण्य, जातानुकम्पस्तस्मै प्रसादमकरोत् । तदनन्तरं राजा कृतप्रसादं तं मुनिं शूलाद अवारोह्यत् । सूलग्राद अवतार्य, तच्छूलं निराकर्षत् । परन्तु सः तच्छूलं मुनेः शरीराद् अपाक्रष्टुं यावन्नाशक्नोत, तावद उपायान्तरमन्यमदृष्टवा ,सूलं मूले अच्छिन्दत् । अनन्तरं स ऋषिः सशूल एव पर्यटति स्म । स्वकण्ठस्य पार्श्वे अन्तर्गतेन तेन शङ्कुना "किमहं पुष्पाभाजनं धरेयम्" इति मतिः सर्वदा तस्यसीत् । स चातितपसा परैः दुर्लभान् लोकान् अजयत् । महता तपसा विद्योतमानोऽसौ शूलग्रेण सहित एवाभ्वत् । अत आणीमाण्दव्य इति लोकेषु प्रसिद्धोऽभूत् ।
गच्छता कालेनासौ धर्मस्य परमार्थस्य वेत्तुर्वैवस्वतस्य धर्मराजस्य भवनमगच्छत् । तत्र धर्मपुरुषस्य यमस्य सभां पाविशत् । सिंहासनासीनं प्रभुं कृतान्तं विलोक्य, निन्दितुं प्रारभत "भो अन्तक ! अजानता मया किन्नु तद् दुष्कृतं कृतम् ? यस्येदं फलं मयानुभूतम् अत्र किं तत्त्वम् ? तदेत्च्छीघ्रं ब्रूहि । पश्य तावत् मम तपसो बलम्" इति । तच्छ्रुत्वा यमोऽवदत् " भोः ! तपोधन ! त्वं तावत् पूवस्मिन् जन्मनि मधुमक्षिकाणां पुच्छेषु कुशकाशं निवेशितवानसि । तस्य कर्मणः फ्लमिदं त्वमन्वभवः । विप्रर्षे ! अयमधर्मः खलु । य्था स्वल्पमेव दत्तं दानं फलित्वा, सुखान्यनल्पानि सुक्रुतिभ्यो वितरति, त्थायं फलित्वाअ, दुष्कृतिभ्यो बह्?ऊनि दुःखानि ददाति " इति । क्रुतान्तस्य वचनम्,एतदाकर्ण्य, धर्म्सूक्षमज्ञ आणीमाण्दव्यः प्रोवाच -"भोः ! यम ! कस्मिन् काले मयैतदाचरितम् ? ब्रूहि यथातथम्" इति । " मुने बाल्ये वयसि भवान्, पापमेतदकरोत् " इत्युक्तवति यमे स ऋषिः पुनरुवाच " भोः ! भवता धर्मशास्त्राणि किं नाधीतानि ? जातः शिशुराद्वादशवर्षम्, यद्यत् करिष्यति सोऽधर्मे न भैष्यति । इति हि धर्माकूतम् । एवं धर्मरहस्यं जानन्नप्यल्पे अपराधेऽपि महान् दण्डो मयि निपातितः ।
अत्स्त्वमधस्ताद गच्छ मर्त्यलोकम् । मानुषस्त्वं भव " इति ।
अथ तस्य महात्मन आणीमाण्डव्यस्य शापद् यमो भूमाववततार । स् एव भगवता बादरायणेन वेदव्यासेन दास्यामुत्पादितो महात्मा विधुरः । एवं भगवान् आणीमाण्ड्व्यो महर्षिः "लोके सर्वेषां मानवानां जन्मनः प्रभृति द्वादशवर्षपर्यन्तं कृतें पातकं नहि प्रिगण्यते । ततः परं पापानि कुर्वतां दोष एव भविष्यति " इति व्यवस्थां कृत्वा, लोकमर्यादामरक्षत् ।

""

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=माण्डव्यः&oldid=419320" इत्यस्माद् प्रतिप्राप्तम्