विराटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मत्स्यदेशस्य एषः राजा।पाण्डवाः अज्ञातवासस्य वर्षम् अस्य आश्रये यापितवन्तः।तस्मिन् कालावधौ एकदा त्रिगर्तराजः सुशर्मा मत्स्यदेशम् आक्रान्तवान्।युद्धे विराटः शत्रुसैन्येन निगृहीतः।महता पराक्रमेण भीमसेनः तं मोचितवान्।अज्ञातवासान्ते यदा पाण्डवैः स्वरूपं प्रकटितं, तदा विराटस्य सन्तोषः जातः।सः आनन्देन स्वकन्यायाः उत्तरायाः विवाहम् अर्जुनपुत्रेण अभिमन्युना सह सम्पादितवान्।उभयोः कुलयोः सम्बन्धः अनेन दृढतरो जातः।महाभारतयुद्धावसरे विराटः अतिवृद्धः आसीत्।तथापि सः पाण्डवपक्षे एकस्याः अक्षौहिण्याः नेतृत्वं कृतवान्। ‎

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विराटः&oldid=436379" इत्यस्माद् प्रतिप्राप्तम्