माद्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

माद्री मद्रदेशस्य राजकुमारी । मद्रदेशस्य महाराजस्य ऋतायनस्य पुत्री । चन्द्रवंशस्य महाराजस्य पाण्डोः द्वितीयपत्नी । माद्र्याः सहोदरः शल्यः कदाचित् पाण्डुना सह जाते युद्धे पराजितः भवति । तथापि पाण्डुः तमेव मद्रदेशस्य राजा इति घोषयति । तदा पाण्डोः औदार्येण सन्तुष्टः मद्रदेशस्य राजकुमारः सहोदरीं माद्रीम् एव पाण्डुमहाराजाय उपायनीकरोति । पञ्चपाण्डवाः इति प्रसिद्धेषु पाण्डवेषु द्वयोः माता माद्री । नकुलः सहदेवः च अस्याः माद्र्याः पुत्रौ । युधिष्ठिरः, भीमः, अर्जुनः च सप्त्न्याः कुन्त्याः पुत्राः । कुन्ती माद्री च यद्यपि सपत्न्यौ तथापि सहोदर्यौ इव आस्ताम् । पाण्डुः शापग्रस्तः सन् सपुत्रः भवितुं नार्हति स्म । तदा कुन्ती विवाहात् पूर्वं दूर्वासेभ्यः प्राप्तस्य वरस्य बलेन त्रीन् पुत्रान् प्राप्नोति । कुन्ती एव माद्रीम् अपि तं मन्त्रं कोधयति । तस्य मन्त्रस्य बलेन एव माद्री अपि अश्विनीदेवतयोः वरेण पुत्रौ प्राप्नोति । अन्ते पाण्डुः यदा मरणं प्राप्तवान् तदा तेन सहैव अग्निं प्रविशति माद्री ।

"https://sa.wikipedia.org/w/index.php?title=माद्री&oldid=405718" इत्यस्माद् प्रतिप्राप्तम्