विभीषणः
अयं विभीषणः अपि रामायणस्य किञ्चिन महत्त्वभूतं पात्रम् अस्ति । सः महाशूरस्य रावणस्य अनुजः । विभीषणः अत्यन्तं धार्मिकः अपि । रावणम् अपि धर्ममार्गं बोधयति सः । महावीरः कुम्भकर्णः अपि अस्य सहोदरः एव ।
जन्मकथा
[सम्पादयतु]पौलस्त्यमहामुनिना कैकसायां जातेषु चतुर्थं पुत्रः विभीषणः । पितुः आदेशानुसारं कैकसी पौलस्त्यस्य निकटं गत्वा तस्य सेवां कारोतु । प्रसन्ने तस्मिन्त् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पुतुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये चण्डवातः चलति स्म । आकाशे मेघाः गर्जति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवः (पुलस्त्यः) अवदत् । भद्रे भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति । तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् भगवन् भवन् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य् अविश्रवः अवदत् भवत्याः कनिष्टः पुत्रः सादाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति अकरोत् । पश्चात् क्रमेण कुम्भकर्णः, शूर्पणखा,विभीषणःआदीनां जन्म अभवत् ।
श्रीरामसख्यम्
[सम्पादयतु]विभीषणः गोकर्णक्षेत्रे तपः कृत्वा ब्रह्माणं परितोषयित्वा घोरविपत्तिकालेऽपि धर्मे मनः लग्नं भवेत्, मन्त्राभ्यसबलेन विना ब्रह्मास्त्रं स्वाधीनं भवेत् इति वरमवाप । चतुर्मुखः स्वेच्छया अस्मै चिरञ्जीविपदम् अनुगृह्तीतवान् । तैलूषः इति राक्षस्य पुत्रीं सममा इति कन्यां परिणीतवान् । हनूमान् रावणस्य अशोकवनिकां विध्वंसितवान् । तदा रावणः हनूमतः हननं कर्तुम् आदिष्टवान् । तदा विभीषणः दुतवधः अधर्मः इति उपदेशं रावणाय कृत्वा तेन तिरस्कृतः । पश्चात् समुद्रस्य अन्यस्मिन् पारे स्थितस्य रामस्य दर्शनं कृत्वा तं प्रापद्यत । रामः तस्मै अभयं दत्तवान् । रावणप्रेरिताः शार्दूलः इत्यादयः गुपचररक्षसाः श्रीरामस्य सेनां प्रविश्य कूटं कुर्वन्ति स्म । विभीषणः तान् सर्वान् सहृतवान् । कुम्भकर्णस्य विषयं सर्वं, इन्दजित् कृतं मायासीताहनं रामाय न्यवेदयत् । स्वरहस्यम् उक्तवानिति मेघनादः विभीषणेन सह विवादमकरोत् । तदा तं धिक्कृतवान् । रावणवधस्य पश्चात् अग्रजस्य विषये व्यथामकरोत् । विभीषणः रावणस्य अन्त्रेष्टिं कृतवान् । रामः तस्य सान्त्वयन् तस्य राज्याभिषेकम् कृतवान् । विभीषणाय पुष्पकविमानं समर्पितवान् च । अयोध्यायां श्रीरामस्य राज्याभिषेके विभीषणः आगन्तुम् अनुमतिं प्राप्तवान् । रामसेतुः तथैव तिष्ठति चेत् वैरिभ्यः भीति भवति इति श्रीरामं प्रार्थितवान् । तदा श्रीरामः चापाग्रात् मध्ये मध्ये भञ्जितवान् । अस्य स्थानस्य इदानीं धनुष्कोटि इति प्रसिद्धम् । श्रीरामस्य राज्याभिषेकं दृष्ट्वा सन्तुष्य लङ्कां निर्गतवान् । युदिष्टिरस्य राजसूययागस्य दक्षिणदिशायाः विजयबलिं घटोत्कचस्य हस्ते महदाननदेन समर्पितवान् ।
""