अयोध्याकाण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


अयोध्याकाण्डस्य कथा[सम्पादयतु]

रामसीतयोः विवाहोत्सवस्य अनन्तरं द्वादशवर्षाणि अतीतानि । दशरथः रामस्य पट्टाभिषेकं कर्तुम् इष्टवान् । तन्निमित्तं सभासदः प्रजाश्च आनन्देन सम्मतिम् असूचयन् । किन्तु दुष्टसेविकया मन्थरया दुष्प्रेरिता सती कैकेयी दशरथम् उद्दिश्य बहु पूर्वम् अङ्गीकृतं वरद्वयं प्रदातुं प्रार्थितवती । रामः चतुर्दशवर्षाणि यावत् अरण्यवासं कुर्यात् भरतस्य पट्टाभिषेकः कर्तव्यः इति आसीत् तस्याः अपेक्षाः । एतस्य श्रवणेन नितरां खिन्नः दशरथः दत्तं वचनमपि निराकर्तुं न अशक्नोत् ।
रामः पितृवाक्यपरिपालनाय शान्तभावेन स्वसहज-आत्मनिग्रहेण च सिद्धः जातः । तेन सह गमनाय पत्नी सीता अनुजः लक्ष्मणश्च सज्जौ जातौ । रामस्य विरहं सोढुम् अशक्नुवन् दशरथः अचिरादेव इहलोकम् अत्यजत् । अत्रान्तरे मातुलगृहं गतवता भरतेन अयोध्यायां प्रवृत्तं सर्वम् अवगता भवति । भरतः मातुः दुराग्रहं कटुवचनैः खण्डयन् रामस्य दर्शनाय वनं प्रति गमिष्यति । रामस्य चरणौ गृहीत्वा प्रत्यागत्य राज्यभारः क्रियताम् इति बहुधा प्रार्थयति । किन्तु पितृवाक्यपरिपालने बद्धादरः रामः वनवासस्य स्माप्तिपर्यन्तं न प्रत्यागमिष्यामि इति अवदत् । भरतः रामस्य पादुके एव स्वीकृत्य प्रतिगच्छति । रामस्य प्रतिनिधिरूपेण तस्य पादुकयोः एव राज्याभिषेकं कारयति ।

अयोध्याकाण्डस्य केचन नीतिश्लोकाः[सम्पादयतु]

१ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
   कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ (३-४२)

२ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
   सत्यमेवाक्षया वेदाः सत्यमेवाप्यते परम् ॥ (१४-७)

३ धर्मार्थकामाः किल तात लोके
   समीक्षिता धर्मफलोदयेषु ।
   ते तत्र सर्वे स्युरसंशयं मे
   भार्येव वश्याभिमता सुपुत्रा ॥ (२१-५६)

४ मितं ददाति हि पिता मितं माता मितं सुतः ।
   अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ (३९-३०)

५ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
   स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ (६३-९)

Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/अयोध्याकाण्डम्

"https://sa.wikipedia.org/w/index.php?title=अयोध्याकाण्डम्&oldid=373229" इत्यस्माद् पुनः प्राप्तिः