पुष्पकविमानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पुष्पकविमानम्
Pushpakviman.jpg
श्रीरामः, सीता च अन्यैः सह पुष्पकविमाने आरूढौ
म्रिथ रामायणम्
वर्ग प्राचीनं हिन्दूपौराणिकं वाहनम्
सह-वर्ग आकाशीयं वाहनम्
देश श्रीलंका, भारतम्
क्षेत्र भारतीयोपमहाद्वीपः

पुष्पकविमानं हिन्दूपौराणिक-महाकाव्ये रामायणे वर्णितं वायु-वाहनम् अस्ति| तस्मिन् लंकायाः राजा रावणः यात्रां करोति स्म। एतस्य विमानस्योल्लेखः एव सीताहरणस्य प्रकरणेऽपि प्राप्यते। रामायणस्य अनुसारं राम-रावणयोः युद्धोद्धरं श्रीराम-सीता-लक्ष्मणाः लङ्कायाः नवघोषितेन राज्ञा विभीषणेन तथा अन्यैः सेवकैः सह लङ्कायाः अयोध्याम् अगच्छन्। एतद्विमानं मूलतः धनदेवतायाः, कुबेरस्य पार्श्वे आसीत्, किन्तु रावणः स्वानुजात् भ्रातुः कुबेरात् बलपूर्वकं सुवर्णमण्डितया लङ्कापुर्या सह एतद्विमानम् अपि अपाकर्षयत्। [१][२][३] यदा रावणः कुबेरात् तस्य नगरीं लंकापुरीं तथा च एतद्विमानं बलपूर्वकम् अपाकर्षयत्, ततः कुबेरः वर्तमानस्य तिब्बत-प्रदेशस्य समीपे नवीनायाः नगर्याः अलकापुर्याः[४] निर्माणम् अकरोत्। रावणस्य वधोत्तरं भगवान् रामः एकत् विमानं नीत्वा अयोध्यां प्रति अगच्छत्। ततः एतस्य मूलस्वामिने कुबेराय एतत् प्रत्यार्पयत्।[५] रामः एकवारम् एव एतस्य पुष्पकविमानस्य उपयोगं विभीषणस्य भावेन निवदने कृते सति अकरोत्। [६]


अन्येषु ग्रन्थेषु उल्लेखितम् अस्ति यत्, पुष्पकविमानस्य प्रारुपम् एवं निर्माणविधिः अङ्गिराऋषिणा  जातः आसीत्। तथा च एतस्य निर्माणं, शृङ्गारः च देव-शिल्पिना विश्वकर्मणा अभवत्। भारतस्य प्राचीनहिन्दूग्रन्थेषु बहुत्र विमानानां, युद्धे प्रयोगस्य विस्तृतं वर्णनं प्राप्यते। तत्र रावणस्य पुष्पकविमानस्यापि उल्लेखः प्राप्यते। तद्विहाय अन्येषां सैनिकक्षमतायुक्तानां विमानानाम् उपरि आरुह्य गतवान्, सविमानं युद्धकाले अदृश्यः अभवत् विमानेन शत्रो पृष्ठे प्रतिडयनम् इत्यादिषु विमानस्य वर्णनं प्राप्यते। प्राचीनकाले विमानानां मुख्यतः द्वौ विभागौ प्राप्येते। प्रथमे तु मानवनिर्मितानि विमानानि, यानि आधुनिकविमानवद् एव पक्षसहितानि आसन्। तथा च द्वितीये प्रकारे आश्चर्यजनकविमानानि, यानि मानवनिर्मितानि न भवन्ति स्म, अपि तु तेषाम् आकारः, प्रकारश्च आधुनिकावशकाशयानवत् (UFO) भवति स्म।[७]

विशेषगुणाः[सम्पादयतु]

इतस्मिन् विमाने अनेकाः विशेषताः आसन्। यथा - १. एतत् विमानं यात्रिमां सङ्ख्यायाः, वायुघनत्वस्य च अनुसारं स्वमेव स्वाकारं लघुं, बृहतं च कर्तुं सक्षमम् आसीत्।[८] २. कुत्रापि आवागमनाय मनसः गतिना एतत् गन्तुं सक्षमम् आसात्। ३. आकाशेन सह एतत् भूमौ अपि चलति स्म। ४. स्वामिनः इच्छितगतिना डयितुं सक्षमे विमानेऽस्मिन् अनेकयात्रिणां भारः वोढुं क्षमता आसीत्। यतो हि एतत् विमानं गगने स्वस्य स्वामिनः इच्छानुसारं भ्रमणं कर्तुं सक्षमम् आसीत्, अतः एतस्य स्वामी कुबेरः अन्येभ्यः देवेभ्यः अपि यात्रायै यच्छति स्म।  

ग्रन्थेषु उल्लेखः[सम्पादयतु]

गुजरातराज्यस्य मोढेरा-प्रदेशे स्थितस्य सूर्यमन्दिरस्य  स्तम्भे रावणद्वारा पुष्पकविमानेन सीताहरणस्य दृश्यम्

विमानस्य निर्माणम्[सम्पादयतु]

ऋगवेदे द्विशताधिकं (२००) वारं विमानस्य विषये उल्लेखः प्राप्यते। तत्र विविधानि विमानानि अन्तर्भवन्ति। यथा तिमञ्जिला-त्रिभुजाकाराणां त्रिचक्रयुक्तानां विमानानाम् उल्लेखः विद्यते। तेषु अनेकेषां विमानानां निर्माणम् अश्विनीकुमाराभ्यां कृतम् आसीत्। तौ विमानवैज्ञानिकत्वेन प्रसिद्धौ आस्ताम्। एतेषु साधारणतया त्रयः यात्रिणः प्रवासं कर्तुं शक्नुवन्ति स्म। तेषां विमानानि उभयतः पक्षौ भवतः स्म। विमनोपकरणानां निर्माणे मुख्यतः त्रीणां धातूनाम् उपोयगः भवति स्म - स्वर्णं, रजतं, लौहः च। वेदेषु विमानानाम् अनेके प्रकाराः आकाराः च उल्लेखिताः सन्ति। उदाहरणतया अग्निहोत्रविमाने द्वे ऊर्जास्रोतसी (engine), हस्तिविमाने तु अधिकानि ऊर्जास्रोतांसि भवन्ति स्म। कस्यापि विमानस्य स्वरूपम्, आकारश्च सद्यकालीनानां किंगफिशर-पक्षिणः अनुरूपं भवति स्म। जलयानम् अपि आसीत् यत् वायौ, जले च उभयत्र यात्रां कर्तुं सरक्षमम् आसीत्।[९] कारा-नामकं विमानं वायौ, जले च चलति स्म। [१०] त्रिताला-नामकं विमानं त्र्यट्टात्मकम् आसीत्।[११] त्रिचक्र-रथ-नामकं त्रिचक्रयुक्तं विमानम् आकाशे डयते स्म ।[१२] कस्यचित् रथस्य सदृशं प्रतीयमानं विमानं वाष्पेन अथवा वायुना चलति स्म।[१३] विद्युत-रथ-नामकं विमानं विद्युच्छक्त्या चलति स्म।[१४]

समराङ्गणसूत्रधार-नामके ग्रन्थे विमानानां विषये तथा च तैः सह सम्बद्धानां सर्वेषां विषयाणाम् अद्भुतज्ञानं प्राप्यते। ग्रन्थस्य निर्माणं २२५ तः अधिकपदेषु निर्माणं, उड्डयनं, गति), सामान्यम्, आकस्मिकम् अवतरणं च, पक्षिणां संयोगेन दुर्घटनादिनाम् उल्लेखः प्राप्यते।।[७]

पुष्पकस्य उल्लेखः[सम्पादयतु]

प्राचीने हिन्दूसाहित्ये देव-शिल्पिना विश्वकर्मणा निर्मितानाम् अनेकेषां विमानानां वर्णनं प्राप्यते। यथा वाल्मीकि-रामायणस्य अनुसारं शिल्पाचार्येण विश्वकर्मणा पितामहस्य ब्रह्मणः प्रयोगाय पुष्पकविमानस्य निर्माणं कृतम् आसीत्।

उद्धरणम्[सम्पादयतु]

  1. "रावणस्य रहस्यानि लङ्कायां षड् विमनास्थानकानि आसन्।". समाचार जगत. ९ सितंबर, २०१६. 
  2. "रावणस्य 10 विषयान् पठन्तु....". दैनिक जागरण. वेब दुनिया. 
  3. [१] पुस्तक - विक्रमशिला का इतिहास
  4. कीर्तिं स्वकीयां लोकेषु संस्थाप्य पावनीं प्रभुः ।
    पुष्पकं च कुबेराय विमानं च तदा ददौ ।।
    रुद्रसङ्ख्या सहस्राब्दं राज्यं कृत्वा परं ययौ।। ६३ ।। [ https://sa.wikisource.org/wiki/भविष्यपुराणम्_/पर्व_३_(प्रतिसर्गपर्व)/खण्डः_४/अध्यायः_१५ भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १५]
  5. "अत्र स्थापयति स्म रावणः स्वपुष्पकविमानम्". ११ अक्तूबर, २०१३. 
  6. ७.० ७.१ शर्मा, ऋचा (११ नवंबर, २०१३). "रावणस्य पार्श्वे वास्तव्येन आसीत् पुष्पकविमानम्!". स्पीकिंग ट्री. 
  7. "पुष्पकविमानस्य अदभुतं रहस्यं". ज्ञानपनती .काम. २२. 
  8. (ऋगवेद ६.५८.०३)
  9. (ऋग वेद 9.14.1)
  10. (ऋग वेद 3.14.1)
  11. (ऋग वेद 4.36.1)
  12. (ऋग वेद 5.41.6)
  13. (ऋग वेद 3.14.1)

बाहरी कड़ियाँ[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुष्पकविमानम्&oldid=422355" इत्यस्माद् पुनः प्राप्तिः