विश्वकर्मदिनम्
देवशिल्पी विश्वकर्मा रामायण महाभारतपुराणेषु च विख्यातः वास्तुशिल्पकारः । भारतदेशे विश्वकर्मवंशीयाः बहवः शिल्पिनः सन्ति । प्रायः नवम्बर मासे भारते विश्वकर्मदिनम् आचरन्ति । मुख्यतः भारतीयमजदूरसङ्घः एतद्दिनं सम्भ्रमेण आचरति । विश्वकर्मा भारतीयशिल्पिनां स्फूर्तिदायकः अस्ति । विश्वकर्मा प्रभासस्य सुतः । अस्य माता बृहस्पतेः सुता ब्रह्मवदिनी । बाल्यादेव विश्वकर्मणः वास्तुनिर्माणाभिलाषः आसीत् । एतदर्थं बहु अध्ययनं कृतवान् । विश्वकर्मा परशिवस्य साक्षात्कारेण अनुग्रहेण च स्थापत्य विद्यां प्राप्तवान् । अनन्तरं देवस्थपतिः इति प्रसिध्दः अभवत् ।
पुराणेषु विश्वकर्मणः सृष्टिविषये बहुधा ज्ञातुं शक्यमस्ति । महातन्त्रज्ञः देवशिल्पी विश्वकर्मा काशीनगरे श्रीविश्वनाथमन्दिरं निर्मितवान् । यज्ञमण्डपनिर्माणकार्ये सदा व्यस्तः आसीत् । अनेकदेवाः एतं भवननिर्माणार्थं प्रार्थितवन्तः । प्राचीनभारते प्रसिध्देषु अनेकनगरेषु विश्वकर्मणः कार्यं वयं पश्यामः ।
श्रीकृष्णस्य द्वारकापुरिं पाण्डवानां कृते इन्द्रप्रस्थनगरं, कुबेराय लङ्कानगरं तथा अलकापट्टणं विश्वकर्मा एव निर्मितवान् । विश्वकर्मा अनेकविशेषवस्तूनां निर्माणमपि कृतवान् पाण्डवानाम् इन्द्रप्रस्थे स्थितानि भव्यभवनानि अतीव सुन्दराणि आश्चर्यकराणि आसन् । तेनैव दुर्योधनः दुखितः अभवत् । पाण्डवानां देषाय एतानि भवनानि पाण्डवानां वैभवोऽपि कारणानि अभवन् ।
विविधवादनानि आयुधानि, शिवधनुलुः, इन्द्रस्य वज्रायुधं परशुरामस्य वैष्णवधनुः कुबेरस्य पुष्पकविमानम् इत्यादिवस्तूनि विश्वकर्मणः सृष्टेः उल्लेखः प्राप्यते ।
भारतदेशे विश्वकर्मजनाः कारुशिल्पं, वास्तुनिर्माणं, मूर्तिशिल्पं, शिल्पमूर्ति, लोहमूर्तिः इत्यादि निर्माणे आसक्ताः सन्ति । ते सर्वत्र प्राचीनसूत्राणामेव उपयोगं कुर्वन्ति । आधुनिककाले तन्त्रज्ञानक्षेत्रे महत् साधनं कृतमस्ति । अत्यन्तसुन्दरतया मूर्तिनिर्माणम् इदानीं कुर्वन्ति । एवं विश्वकर्मदिनाचरणेन भारतीय कुशलकर्मिणां स्मरणं, तेषां कृतीनां दर्शनं, वस्तुप्रदर्शनम्, इत्यादि आयोजयन्ति । एतेन मानवीयकलात्मकतायाः दर्शनं प्रत्यक्षं भवति ।